सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 25, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 25

श्लो० १ ] प्रथमाह्निकम्। १५
इत्युक्तनीत्या स्वात्मनि निरुत्तरपदाद्वयज्ञानपा-
त्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसार-
संग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः । अत्र
च संभवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थ-
गौरवभयात् प्रकृतानुपयोगाच्च । केषांचिदपि व्याख्या-
न्तराणामासमञ्जस्यमतीव संभवदपि न प्रकाशितम् ।
एवं हि
‘........................तस्यै हेतुं २ न चाचरेत् ।’
इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं
महात्मनाम् महागुरूणां ३ निन्दाबीजमासूत्रितम्,–
२ हेतुः आक्षेपः ।
३ समयलोपावहम् अचारभ्रष्टतासंपादकम् । महागुरूणां निन्दा-
बीजमिति, इत्थं हि केचिदत्र मन्दधियः समर्थयन्ते,– विमलकला
विगताः सर्वकलङ्कमला यस्यां सा षोडशी कलात्मिका तिथिः, अर्था
दमावास्याख्या, सैव अभिनवसृष्टिः पञ्चदशकलासृष्टिः, तत्र सोद्योगा
तथा भरिततनुश्च । पञ्चमुखगुप्तरुचिरिति, दिनं पञ्चयामकं रात्रि-
स्त्रियामा इत्याश्रित्य पञ्चमुखं दिनं तत्र गुप्तरुचिरीक्षिताभिलाषः
अमावस्यादिनप्रारम्भ इत्यर्थः । निन्दाबीजमिति सविचिकित्सज्योतिष-
शास्त्रदृशा, न तु अनुत्तरदृशा, तत्र अमावस्यादिनप्रारम्भयोरवश्यं रक्ष-
णीयत्वाद्भरमेवैतदिति सहृदया एवात्र प्रमाणम् ॥
पं० ८ ख० पु० तस्यैव हेतुमिति एव पदाधिकः पाठः ।