तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 27, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ३ ] प्रथममाह्निकम् । १७
'इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ।'
इत्याद्युक्त्या चिद्रूपा चासौ 'प्रतिभा' प्रज्ञा, ताम्
आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्,
अत एव 'देवीं' प्रमातुरपि विश्रान्तिधामत्वात् प्रमिति-
रूपतया द्योतमानाम्, अत एव बहिरपि प्रमातृप्रमाण-
प्रमेयाण्येव 'अंशा' अरारूपा भागा यस्य 'शूलस्य' तत्र
यानि औन्मनसानि अम्बुजानि, तत्र 'कृतास्पदां'
तदुत्तीर्णतया भासमानां 'नौमि' देहप्राणादिप्रमातृ-
रूपन्यग्भावेन तत्स्वरूपमाविशामि-इत्यर्थः ॥२॥
एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय,
तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात्
क्रमप्राप्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां
देवीमभिमुखयति
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते ।
प्रावृरामेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥
पं० २ ख० पु० प्रज्ञापदं नास्ति ।
पं० ६ क० पु० अणुरूपा भागा इति पाठः ।
पं० ८ ख० पु० प्राणाभिमातृरूपेति पाठः ।
पं० ११ क० पु० परापरस्वरूपस्येति पाठः ।
पं० १२ क० पु० परापरदेवीमिति पाठः ।
३