सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 21, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 21

श्लो० १ ] प्रथमाह्निकम् । ११
परः प्रमाता, स च 'पञ्चानां' वामेश्यादिवाहशक्तीनां
'मुखैः' चक्षुरादीन्द्रियवृत्तिरूपैर्द्वारैः
'येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते ।
स्वावष्टम्भबलाद्योगी तद्गतस्तन्मयो भवेत् ॥'
इत्यादिनीत्या तत्तद्विषयाहरणेन 'गुप्ता' स्वा-
वष्टम्भबलेन परिरक्षिता 'रुचिः' दीप्तिर्यस्यासौ, नि-
खिलभावग्रसिष्णुतया समुद्दीपितपरप्रमातृभावः-
इत्यर्थः । अत एव 'भरिततनुः' तत्तद्भावसंचर्वणेन
निराकाङ्क्षतोत्पादात् स्वात्ममात्रविश्रान्त्या पूर्णः-
इत्यर्थः । तदेवम् अत्र ग्रन्थकृता सृष्ट्यादिक्रमत्रयरूप-
तामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती क्रमा-
क्रमवपुः परैव अनाख्या पारमेश्वरी संवित् परा-
मृष्टा,-इत्युक्तं स्यात् । यदुक्तमस्मत्परमेष्ठिगुरुभिः
'क्रमत्रयसमाश्रयव्यतिकरेण या संततं
क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः ।
क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते
करोमि हृदि तामहं भगवतीं परां संविदम् ॥'
पं० १ ख० पु० वामेशादिवाहनशक्तीनामिति पाठः ।
पं० १३ क० पु० अस्मद्गुरुभिरिति पाठः ।