तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
१०४ श्रीतन्त्रालोकः ।
न्नतारूढौ इत्यादि । अवच्छेदलये इति अवच्छे-
दानां संकोचाधायिनां भुवनादीनां लये विश्वो-
त्तीर्णतायाम् इत्यर्थः । विश्वमयत्वेऽप्यस्य स्वस्व-
रूपान्न प्रच्यावः इत्याशयः । नन्वेवमुभयथापि
अस्य नियतात्मकत्वावगमादवच्छेद एवोक्तो भवेत्
इत्याशङ्क्योक्तम् अनवच्छिन्नतारूढाविति । अस्य
हि विश्वमयत्वेऽपि विश्वोत्तीर्णत्वादनवच्छिन्नताया-
मेव प्ररोहो भवेत्, एक एव हि स्वतन्त्रो बोध-
स्तथा तथा प्रस्फुरेत् इति ॥६५॥
ननु कथमेकदैव एकस्य विश्वमयत्वेऽपि विश्वो-
त्तीर्णत्वं संगच्छते इत्याशङ्काशान्त्यर्थमागमं संवा-
दयति
उक्तं च कामिके देवः
सर्वाकृतिर्निराकृतिः ।
जलदर्पणावत्तेन
सर्वं व्याप्तं चराचरम् ॥६६॥
दर्पणाद्यन्तःप्रतिबिम्बितं घटादि यथा दर्पण-
पं० १७ क० पु० दर्पणान्तः इति आदिशब्दहीनः ख० पु० दर्पणव्यतिरेकेणेति
च पाठः ।
श्लोकः ६६ ] प्रथमाह्निकम् । १०५
दिव्यतिरेकेण प्रकाशमानमपि दर्पणाद्यनतिरिक्त-
मेव, अन्यथा दर्पणघटयोरन्योन्यं वैविक्त्येन भानं
स्यात्, तथैव प्रकाशात्मना शिवेनापि स्थावरजङ्ग-
मात्मकमिदं विश्वं स्वेच्छया स्वस्वरूपातिरिक्ताय-
मानत्वेन अवभासितं सत्, व्याप्तं प्रकाशमानतान्य-
थानुपपत्त्या स्वस्वरूपानतिरेकेणैव क्रोडीकृतम्,
अत एवायं विश्वमयत्वेऽपि विश्वोत्तीर्णस्तदुत्तीर्णत्वेऽपि
तन्मयः इत्युभयथापि न कश्चिद्दोषः । अत एवो-
क्तं - सर्वाकृतिर्निराकृतिरिति । सर्वाकृतिः विश्व-
मयः , निराकृतिः विश्वोत्तीर्णः । आवृत्त्या तत्त्वे-
ऽपि तदुत्तीर्णः - इति च । तदेवमयमेक एव प्रका-
शात्मा परमेश्वरः सर्वतो जृम्भते इतीश्वराद्वयमेव
परमार्थतः ॥६६॥
ननु भावानां तदपेक्षया पृथक्प्रकाशानुपपत्तेर्मा
नाम तदतिरेकेण सत्ता भूत् इति भावापेक्षया
पं० १ ख० पु० दर्पणानतिरिक्तमिति पाठः ।
पं० ३ क० पु० तथा प्रकाशात्मना इत्येव शब्दहीनः पाठः ।
पं० ४ ग० पु० इदं जगत् स्वेच्छयेति पाठः ।
पं० ५ क० पु० अवसितमिति पाठः ।
पं० ६ क० पु० स्वरूपानतिरिक्तत्वेनैवेति पाठः ।
पं० १३ क० पु० परमार्थ इति पाठः ।
१४
प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् ।
१०६ श्रीतन्त्रालोकः ।
प्रकाशात्मक एक एवेश्वरः इत्यास्तां तावदेतत् ।
यत्पुनर्विभुत्वादि धर्मजातं तस्योक्तं, तदपेक्षया धर्म-
धर्मिणोधर्माणां च परस्परं भेदस्य अनपह्नव-
नीयत्वाद् योऽयं भेद उल्लसितः स कथं वार्यते
येन एक एवेश्वरः इत्यद्वयवादनिर्वाहः स्यात्
इत्याशङ्क्याह
न चास्य विभुताद्योऽयं
धर्मोऽन्योन्यं विभिद्यते ।
न च विभुताद्योऽयं अस्य स्वरूपातिरिक्तस्तद-
तिशायकः कश्चित् धर्मः अपि तु स्वरूपमेवैतत् ।
विभुत्वं हि व्यापकत्वमुच्यते, तच्च स्वव्यतिरिक्ते
व्याप्ये सति स्यात्, न च परं प्रकाशमपेक्ष्य दिगादि
किंचित्संभवेत् इति किं नाम व्याप्नुयात् । नित्य-
त्वमपि नास्य धर्मः- तस्य कालत्रयानुगामिरूपत्वात्,
अस्य चाकालकलितत्वात्। यदभिप्रायेणैव 'सकृद्वि-
भातोऽयमात्मा' इत्याद्युक्तम् । एवं विश्वाकृतित्व-
पं० ३ ख० पु० परस्परस्य भेदस्येति पाठः ।
पं० ५ क० पु० निर्वाह इत्याशङ्क्येति पाठः ।
पं० ६ ख० पु० अतिरिक्ताधिशायक इति पाठः ।
पं० १३ क० पु० नित्यत्वमस्य नापि धर्मः तत्र कालत्रयानुगामित्वादस्येति पाठः ।
प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य
श्लोकः ६७ ] प्रथमाह्निकम् । १०७
मपि । नहि एतदपेक्षया विश्वं नाम किंचिदस्ति,
यदाकारत्वमप्यस्य स्यात् । एवं चैषां परप्रकाशा-
पेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्ति
इत्युक्तं - न चान्योन्यं विभिद्यते इति ॥
ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः
इत्यादिधर्मभेद उक्तः इत्याशङ्क्याह
एक एवास्य धर्मोऽसौ
सर्वाक्षेपेण वर्तते ॥६७॥
तेन स्वातन्त्र्यशक्त्यैव
युक्त इत्याञ्जसो विधिः ।
अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो
हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादि-
धर्मजातमाक्षिपेत् । अत्रायमर्थः - अयं हि नाम
प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य
परस्य वा प्रकाशने परं नापेक्षते इति । अत एवास्य
१ तात्त्विक इत्यर्थः ।
पं० २ क० पु० कारत्वमस्य इति अपिशब्दहीनः पाठः ।
पं० १० क० पु० अञ्जसो विधिरिति पाठः ।
पं० १२ क० पु० सर्वविभुत्वादिधर्मेति पाठः ।
पं० १३ क० पु० अहं हि नाम प्रकाशस्य विमर्श इति पाठः ।
१०८ श्रीतन्त्रालोकः ।
स्वातन्त्र्यरूपं तत्तद्देशकालाद्यवभाससहस्रोल्लासनसा-
मर्थ्यं स्यात्, येनास्य स्वसमुल्लासितोऽपि संकुचितः
प्रमातृवर्गः स्वापेक्षया व्यापकत्वनित्यत्वादि व्यव-
हरेत्, वस्तुतः पुनरप्यहंप्रत्यवमर्शाख्या स्वातन्त्र्यश-
क्तिरेवास्यास्ति येन
'स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः।' (प्र० १ अ० ५ आ० १३ श्लो०)
इत्याद्युक्तम् । अत एवाह तेन इत्यादि ॥ ६७॥
ननु सर्वत्रैवास्य इच्छाद्यनन्तशक्तियोगित्वमुक्त-
मिति तत्कथमिहैकयैव स्वातन्त्र्याख्यया शक्त्या योग
उच्यते ? इत्याशङ्क्याह
बहुशक्तित्वमप्यस्य
तच्छक्त्यैवावियुक्तता ॥६८॥
स्वातन्त्र्यशक्तिरेव हि तत्तदेषणीयाद्युपाधिवशान्ना-
नात्वेन व्यवह्रियते इति तच्छक्तियोगितैवास्या-
नन्तशक्तित्वम् । यदुक्तम्
पं० १ ख० पु० कालाद्याभासेनेति पाठः ।
पं० १३ क० पु० तत्तदीषणाद्युपाधीति पाठः ।
श्लोकः ६९ ] प्रथमाह्निकम् । १०९
'या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।
इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ॥
एकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ।'
इत्याद्युपक्रम्य
'एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् ।
अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी ।'
इति ॥६८॥
ननु एवमपीश्वराद्वयवादो न निर्व्यूढस्तदति-
रिक्तायाः स्वातन्त्र्यशक्तेरप्यभिधानात् इत्याशं-
क्याह
शक्तिश्च नाम भावस्य
स्वं रूपं मातृकल्पितम् ।
तेनाद्वयः स एवापि
शक्तिमत्परिकल्पने ॥६९॥
यतो भावस्य यस्य कस्यचन सतः पदार्थस्य
स्वमेव रूपं फलभेदात् भेदारोपेण शक्तिः इति
पं० ३ क० पु० सैकापि सत्यनन्तत्वमिति पाठः ।
पं० ५ क० पु० अनेकतामिति पाठः ।
पं० ६ क० पु० इवैश्वरी इति पाठः ।
पं० १५ क० पु० भावस्य कस्यचन इति यस्येति पदविहीनः पाठः ।
११० श्रीतन्त्रालोकः ।
प्रमातृभिः परिकल्प्यते, न त्वसौ वस्तुतः पदार्थान्तरं
किंचित्, अतः शक्तिशक्तिमत्परिकल्पनेऽपि क्रिय-
माणे, स एव अद्वयमयो विभुः- न काचिद-
द्वयखण्डना इति यावत् । तदुक्तं
'फलभेदादारोपितभेदः पदार्थात्मा शक्तिः'
इति ॥६६॥
नन्वेवमस्तु, यन्न शक्तिशक्तिमतोर्भेद इति, शक्ती-
नां पुनः परस्परं भेद एव भवति इति पुनः स
दोषस्तदवस्थ एव इत्याशङ्क्याह
मातृक्लृप्ते हि देवस्य
तत्र तत्र वपुष्यलम् ।
को भेदो वस्तुतो वह्ने-
र्दग्धृपक्तृत्वयोरिव ॥७०॥
यथा वह्नेः दाह-पाकादिफलभेदाद् दाहिका
पाचिका च शक्तिर्भेदेन कल्पितापि, वस्तुतः शक्ति-
पं० १ ख० पु० परिकल्पते इति, क० पु० पदान्तरमिति च पाठः ।
पं० ५ क० पु० फलाभेदारोपितभेद इति पाठः ।
पं० ८ क० पु० एव भवति शक्तीनां पुनरिति पाठः ।
श्लोकः ७१ ] प्रथमाह्निकम् । १११
मेदैकस्वभावत्वान्न परस्परस्य स्वरूपं भेत्तुमलम् ।
पृथक्सिद्धं हि वस्तु वस्त्वन्तरं भिनत्ति, नहि शक्तेः
शक्तिमद्व्यतिरेकेण पृथक्सिद्धिरेवास्ति इति किं केन
भेद्यं, वह्नेरेव हि दाह्यादिसमर्थं स्वरूपं तथा परिक-
ल्पितम् । एवं परमेश्वरस्य परिकल्पितेऽपि शक्ती-
नामानन्त्ये न कश्चिद्भेदः इति न कदाचिदीश्वरा-
द्वयवादक्षतिः ॥७०॥
ननु एवं-परिकल्पितोऽपि शक्तीनां भेदो भासत
एव इति कथं तदपह्नवः इत्याशंक्याह
न चासौ परमार्थेन
न किंचिद्भासनादृते ।
नह्यस्ति किंचित्तच्छक्ति-
तद्भेद्दोऽपि वास्तवः ॥७१॥
भानमन्तरेण अन्यत्किंचिन्नास्ति इत्यसौ भेदो-
ऽपि भासमानत्वाद्वस्तुतो न न किंचित्, अपि तु
पं० २ ख० पु० भिनत्ति न शक्तिः शक्तिमदित्यादिः पाठः ।
पं० ६ क० पु० किंचिद्भेद इति पाठः ।
पं० ८ क० पु० भेद एव भासत इति पाठः ।
पं० ९ क० पु० कथमपह्नव इति तत्पदहीनः पाठः ।
पं० १४ क० पु० अन्तरेण यत्किंचिन्नास्ति इति पाठः ।
११२ श्रीतन्त्रालोकः।
परमार्थसन्नेव इति शक्तीनां तद्वतश्च भेदोऽपि पार-
मार्थिक एव इति वाक्यार्थः । एवं भेदस्य भानै-
कस्वभावत्वान्न ततोऽतिरेकः इति नाद्वयवादक्षतिः,
नापि शक्तीनां, तद्वतश्च भेदेन स्थितस्य व्यवहार-
स्यापह्नवः इति सर्वं सुस्थम् ॥७१॥
ननु परमेश्वरस्य स्वातन्त्र्याख्या शक्तिरेकैवास्ति
इत्युक्तम्, इच्छादयस्तु किं तद्विस्फूर्जितमात्रम्, उत
स्वतन्त्राणि शक्त्यन्तराणि ? इत्याशङ्क्याह
स्वशक्त्युद्रेकजनकं
तादात्म्याद्वस्तुनो हि यत् ।
शक्तिस्तदपि देव्येवं
भान्त्यप्यन्यस्वरूपिणी ॥७२॥
यत् नाम हि अवान्तरशक्तिवैचित्र्यं वह्न्यादेः
वस्तुनः-स्वस्याः शक्तेः इति व्यपदेशप्रवृत्तिनि-
मित्तभूताया निर्विशेषक्रियामात्रनिष्ठायाः सामर्थ्य-
लक्षणायाः शक्तेः उद्रेको दाहपाकादिविशेषरूप-
पं० ४ ख० पु० व्यवहारस्यानपह्नव इति पाठः ।
पं० ११ क० पु० देवीयं भात्यपीति पाठः ।
श्लोक ७३ ] प्रथमाह्निकम् । ११३
शक्त्यन्तरात्मतयोच्छलनं तस्य जनकम् अवभासकं,
तदपि तादात्म्यात् एवं-विधस्वशक्त्येकरूपत्वाद्य-
थोक्तरूपा स्वैव शक्तिः इति संबन्धः । समर्थो हि
वह्निः सर्वं दाह्यादिकार्यजातं कुर्यात् इत्यभिप्रायः ।
एवं परमेश्वरस्यापि इच्छाद्यवान्तरशक्तिरूपतयाव-
भासमानापि शक्तिर्देवी तत्तद्भेदोल्लासेऽपि परप्रकाशा-
भिन्नस्वभावत्वात् द्योतमानावभासा स्वातन्त्र्याख्यैव
इति युक्तमुक्तम्-‘एक एवास्य धर्मोऽसौ सर्वाक्षेपेण
वर्तते ।' इति । एवमेकैवास्य स्वातन्त्र्याख्या शक्ति-
स्तथा तथा सृष्टेन भेदेन भायात् इति सिद्धम् ॥७२॥
न केवलं शक्तिरेवास्यैवंकल्पितेन भेदेनावभासते
यावत्स्वयमपीत्याह
शिवश्चालुप्तविभव-
स्तथा सृष्टोऽवभासते ।
पं० ५ क० पु० रूपतयावभासनापीति पाठः ।
पं० ६ क० पु० शक्तिस्तथा सृष्टेनेति द्वितीयतथापदहीनः पाठः ।
पं० १० ग० पु० भेदेन भातीति इति पाठः ।
पं० ११ ख० पु० न केवलमस्य शक्तिरेवंकल्पितेनेति पाठः ।
१५
११४ श्रीतन्त्रालोकः ।
स्वसंविन्मातृमकुरे
स्वातन्त्र्याद्भावनादिषु ॥७३॥
शिवश्च स्वा संकुचिता संवित् लक्षणां यस्या-
सौ बुद्ध्यादौ गृहीतात्मग्रहः परिनिष्ठितः प्रमाता स
एव स्वच्छत्वात्प्रतिबिम्बसहिष्णुत्वेन मकुरः तस्मिन्
भावनोपदेशादौ स्वस्वातन्त्र्यात् तथा भाव्य-
मानत्वादिना कल्पितेन भेदेन सृष्टः प्रमेयतामापा-
दित इव अवभासते, न चैवमप्यसौ प्रमात्रैकरूप-
त्वात् तथा भवति इत्युक्तम् – अलुप्तविभव इति,
अपरिहृतप्रमातृभावः इत्यर्थः । तदुक्तं
‘स्वातन्त्र्यादद्वयात्मानं स्वातन्त्र्याद्भावनादिषु ।
प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् ॥’ (ई० प्र० १-५-१६)
इति ॥७३॥
एतदेवोपसंहरति
तस्माद्येन मुखेनैष
भात्यनंशोऽपि तत्तथा ।
पं० ४ क० ग० पु० परिनिष्ठितप्रभावः प्रमाता इति पाठः ।
पं० ६ ग० पु० अविलुप्तविभव इति अपरित्यजितप्रमातृभाव इति पाठः ।
पं० ११ ‘स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।’ इत्येवं विधः पाठो
मूलग्रन्थेऽस्ति ।
श्लोक ७४ ] प्रथमाह्निकम् । ११५
शक्तिरित्येष वस्त्वेव
शक्तितद्वत्क्रमः स्फुटः ॥७४॥
तस्मात् उभयोरपि शिवशक्त्योस्तथा सृष्टेन
भेदेन अवभासनोपपत्तेर्हेतोरपि शिवः प्रकाशमात्रै-
करूपत्वात् अनंशोऽपि येन भुवनाद्यन्यतमांश-
लक्षणेन मुखेन भावनादौ भासते तत् मुखं
‘....................शैवी मुखमिहोच्यते ।’
इत्याद्युक्त्या तथा शिवप्राप्त्युपायतया शक्तिरेव,
नहि एतदवगमादौ उपायान्तरमस्ति उपपद्यते
वा । अतश्च शक्तिशक्तिमतोरुपायोपेयभावात्मा
क्रमः सम्यगेव स्फुटः न कश्चिदत्र संशयः
इत्यर्थः ॥७४॥
अतश्च अनयोरसावुपायोपेयभावस्तत्र तत्र आग-
मेषु उद्घोष्यते इत्याह
पं० ४ क० पु० प्रकाशमात्ररूपत्वात् इति पाठः ।
पं० ६ ख० पु० उपायान्तरमप्युपपद्यते इति पाठः ।
पं० १३ ख० पु० अत एव चानयोरिति पाठः ।
११६ श्रीतन्त्रालोकः ।
श्रीमत्किरणशास्त्रे च
तत्प्रश्नोत्तरपूर्वकम् ।
अनुभावो विकल्पोऽपि
मानसो न मनः शिवे ॥७५॥
अविज्ञाय शिवं दीक्षा
कथमित्यत्र चोत्तरम् ।
तत् इति शिवागमे शक्तेरुपायत्वमुक्तम् इति
वाक्यशेषः । एतदेव च शब्दार्थरूपत्वेन शास्त्रस्य
द्वैविध्येन प्रवृत्तेरर्थद्वारेण दर्शयति अनुभाव इत्या-
दिना । तत्र गरुडेन
'शिवतत्त्वं कथं शून्यं तच्छून्यं नाक्षगोचरः ।
प्रत्यक्षं चाक्षविज्ञानं तदतीतं न किंचन ॥'
इति प्रत्यक्षागोचरत्वाच्छिवतत्त्वं न किंचित् इति
पृष्टे, भगवता
'माया हेया शिवो ग्राह्यो ग्राहकः पुरुषः स्मृतः ।
मायाधर्मैः शिवः शून्यः..................॥'
इत्यादिना
'अतीन्द्रियं च यद्वस्तु तत्राप्यनुभवो न किम् ।
अनुभावो मनोऽध्यक्षः प्रसिद्धः क्षुद्यथा च तृट् ॥'
पं० १८ ख० पु० अनुभवेन किम् इत्येवंविधः पाठः ।
श्लोक ७५ ] प्रथमाह्निकम् । ११७
इत्यन्तेन शिवतत्त्वस्य बाह्येन्द्रियाप्रत्यक्षत्वेऽपि
मानसप्रत्यक्षविषयत्वात् किंचित्त्वेन प्रतिसमाहितम् ।
एतच्च पुनरप्यागूर्य गरुडेन
'अनुभावो विकल्पोत्थो विकल्पो* मानसः स च ।
समनस्कं च तज्ज्ञेयममनस्कमरूपकम् ॥
अज्ञात्वा दैशिकस्तत्त्वं कथं दीक्षां करोत्यसौ ।
ज्ञेयः सर्वात्मनैवार्थः स ज्ञेयो नैव सर्वथा ॥'
इत्यादिना पृष्टम् । एतत्प्रश्नार्थ एव ग्रन्थकृता
संक्षेपचिकीर्षया स्ववचसोपनिबद्धः । अत्रायमर्थः—
यन्नाम बुभुक्षादिन्यायेन शिवस्य मानसप्रत्यक्ष-
विषयत्वमुक्तं तत्र मानसोऽनुभवः
'संकल्पकमत्र मनः................... ।
- तदिति मानसविकल्पनं समनस्कं, शिवतत्त्वं पुनरमनस्कमरूपकं च, अर्थ
इति दीक्षादिः प्रवर्तते इत्यर्थः ।
पं० १० बुभुक्षादि हि चक्षुरादिप्रत्यक्षागोचरमपि मनोगोचरतामेति तद्वदिहापि ।
पं० ३ क० पु० पुनरागूर्येति पाठः ।
पं० ६ ग० पु० दैशिकस्तत्रेति पाठः ।
११८ श्रीतन्त्रालोकः।
इति नीत्या संकल्पात्मकत्वात् विकल्पः तस्य
चार्थसंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न
प्रमाणं, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत्
इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात्, दैशिको हि
परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् । अत
एव ‘गुरौ ज्ञानम्’ इत्याद्युक्तम् । इति शब्दः प्रश्न-
समाप्तौ । अत्र इति गरुडोक्ते प्रश्ने । उत्तरम्
इति भगवदुक्तं प्रतिसमाधानम् ॥ ७५ ॥
तदेवाह
क्षुधाद्यनुभवो नैव
विकल्पो नहि मानसः ॥७६॥
न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन
योज्यः, नायं प्रश्न इति । हि-शब्दो हेतौ यतो
बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न
भवति इत्यर्थः । आसां हि प्रथममविकल्पकमानसप्र-
दं० ४ क० पु० अज्ञापितेऽपि शिवतत्त्वे इति, ख० पु० अविज्ञाते
इति पाठः।
श्लोक ७६ ] प्रथमाह्निकम् । ११९
त्यक्षविषयत्वमप्यस्ति , अन्यथा तत्पृष्ठभाविनो
बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् । सवि-
कल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः ,
तस्य वस्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् । एवं
शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किं तु
शक्तिद्वारेण इति विशेषः । यदुक्तं तत्रैवोत्तरग्रन्थे
*
‘क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत् ।
वस्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥
विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः ।
तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः ॥
ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया ।
शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ॥’
इति । यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचा-
रेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यम्
- यदुक्तं, तस्य चार्थासंस्पर्शीत्वं रूपमिति तन्निर्दलयति, तत्र न्यायमाह वस्वा-
श्रयत्वेनेत्यादि । विकल्पस्तत्र नो भवेदिति वस्वाश्रय इति हेतुत्वेनोक्तः ,
यदि वस्वाश्रयत्वं तर्हि घटवत् किं न प्रतिभासते, इत्यतो घटवन्न च इत्युक्तम् ,
तत्र हेतुः विकल्पो मानस इत्यादि ।
पं० ३ ख० पु० मानसप्रत्यक्षगोचरत्वे इति पाठः ।
पं० ५ क० पु० मानसगोचरो भवेत् इति पाठः ।
पं० १३ क० ग० पु० यस्त्वस्येति, मायापेक्षोपचारेणेति च पाठान्तरमस्ति ।
१२० श्रीतन्त्रालोकः ।
इत्युक्तम् । अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् ।
अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया
दीक्ष्यं योजयति इति न काचित्क्षतिः ॥७६॥
ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु
अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति-
नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन
शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरी-
भावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह
रसाद्यनध्यक्षत्वेऽपि
रूपादेव यथा तरुम् ।
विकल्पो वेत्ति तद्वत्तु
नादबिन्द्वादिना शिवम् ॥७७॥
विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः ।
तेन स १ तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव
गृह्णाति न रसाद्यात्मनापि निय २ तत्त्वात्तद् ३ ग्रहणस्य,
१ स, विकल्पः ।
२ रसस्य हि जिह्वेन्द्रियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति ।
३ रसरूपादेरित्यर्थः ।
पं० १ ख० पु० अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः ।
पं० ६ क० पु० नियताभिनिवेशित्वादिति पाठः ।
श्लोक ७७ ] प्रथमाह्निकम् । १२१
नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ
इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत्
नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव
भवति इति सिद्धान्तः । तदुक्तं तत्रैव
'प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते ।
रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥
गृह्यते तत्स्वभावेन वस्तुभावविवर्जनात् ।'
इति । तथा
'बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः ।
चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् ॥
अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः ।
ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥'
इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः
इति सिद्धम् । सा च भुवनादिरूपतया अनन्त-
प्रकारा इत्युक्तप्रायम् ॥७७॥
एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च
तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं
परमेश्वरस्य शक्तिस्फार एव इत्याह
पं० १७ क० पु० जाग्रदवस्थादि इति पाठः ।
१६
१२२ श्रीतन्त्रालोकः ।
बहुशक्तित्वमस्योक्तं
शिवस्य यदतो महान् ।
कलातत्त्वपुरार्णा¹णु²-
पदादिभेदविस्तरः ॥७८॥
सृष्टिस्थितितिरोधान-
संहारानुग्रहादि च ।
तुर्यमित्यपि देवस्य
बहुशक्तित्वजृम्भितम् ॥७९॥
जाग्रत्स्वप्नसुषुप्तान्य-
तदतीतानि यान्यपि ।
तान्यप्यमुष्य नाथस्य
स्वातन्त्र्यलहरीभरः ॥८०॥
महामन्त्रेशमन्त्रेश-
मन्त्राः शिवपुरोगमाः ।
अकलौ सकलश्चेति
शिवस्यैव विभूतयः ॥८१॥
१ अर्णः वर्णाध्वा, २ अणुः मन्त्राध्वा ।
पं० ७ ग० पु० उक्तमित्यपीति पाठः ।
पं० ६ ख० पु० सुषुप्तानि तदतीतानीति पाठः ।
श्लोक ८२ ] प्रथमाह्निकम् । १२३
पदादि इति आदिशब्देन भूतभावग्रहणम् ।
सृष्टिस्थिती इत्यनेन कृत्यभेद उक्तः । तुर्यमित्य-
न्यच्छब्दवाच्यं सृष्ट्यादीनामन्तर्वर्ति पूर्णं रूपम् ।
अनेन चतुष्टयार्थस्यापि आसूत्रणं कृतं, तेन स्थितौ
संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यो येनैत-
त्स्यात्, अन्यत्तुर्यं, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद
उक्तः । अकलौ इति विज्ञानाकलप्रलयाकलौ ।
अनेन प्रमातृभेदः ॥७८॥७६॥८०॥८१॥
तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगत-
श्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया
वर्तते इत्याह
तत्त्वग्रामस्य सर्वस्य
धर्मः स्यादनपायवान् ।
आत्मैव हि स्वभावात्मे-
त्युक्तं श्रीत्रिशिरोमते ॥८२॥
पं० २ क० पु० इत्यन्यशब्दवाच्यमिति पाठः ।
पं० ४ क० पु० चतुष्टयस्याप्यासूत्रणमिति पाठः ।
पं० १० ख० पु० परमात्मा शिव इति पाठः ।
पं० १२ क० पु० तत्त्वग्रामस्य शार्वस्येति पाठः ।