तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 117, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ६७ ] प्रथमाह्निकम् । १०७
मपि । नहि एतदपेक्षया विश्वं नाम किंचिदस्ति,
यदाकारत्वमप्यस्य स्यात् । एवं चैषां परप्रकाशा-
पेक्षया कथंचिद्भेदायोगात्पारस्परिकोऽपि भेदो नास्ति
इत्युक्तं - न चान्योन्यं विभिद्यते इति ॥
ननु यद्येवं तत्कथमस्य विभुर्नित्यो विश्वाकृतिः
इत्यादिधर्मभेद उक्तः इत्याशङ्क्याह
एक एवास्य धर्मोऽसौ
सर्वाक्षेपेण वर्तते ॥६७॥
तेन स्वातन्त्र्यशक्त्यैव
युक्त इत्याञ्जसो विधिः ।
अस्य खलु एक एवासौ अहंप्रत्यवमर्शाख्यो
हि स्वभावभूतो धर्मोऽस्ति, यः सर्वं विभुत्वादि-
धर्मजातमाक्षिपेत् । अत्रायमर्थः - अयं हि नाम
प्रकाशस्य अहंप्रत्यवमर्श उच्यते यदयं स्वस्य
परस्य वा प्रकाशने परं नापेक्षते इति । अत एवास्य
१ तात्त्विक इत्यर्थः ।
पं० २ क० पु० कारत्वमस्य इति अपिशब्दहीनः पाठः ।
पं० १० क० पु० अञ्जसो विधिरिति पाठः ।
पं० १२ क० पु० सर्वविभुत्वादिधर्मेति पाठः ।
पं० १३ क० पु० अहं हि नाम प्रकाशस्य विमर्श इति पाठः ।