तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 128, कुल 368 में से
संदर्भ में पढ़ें११८ श्रीतन्त्रालोकः।
इति नीत्या संकल्पात्मकत्वात् विकल्पः तस्य
चार्थसंस्पर्शित्वं रूपम् इति मनः तावत् शिवे न
प्रमाणं, यत्र च न प्रमाणं प्रवर्तते, तन्न ज्ञातं भवेत्
इत्यज्ञाते शिवतत्त्वे कथं दीक्षा स्यात्, दैशिको हि
परं तत्त्वं ज्ञात्वा तत्र दीक्षया दीक्ष्यं योजयेत् । अत
एव ‘गुरौ ज्ञानम्’ इत्याद्युक्तम् । इति शब्दः प्रश्न-
समाप्तौ । अत्र इति गरुडोक्ते प्रश्ने । उत्तरम्
इति भगवदुक्तं प्रतिसमाधानम् ॥ ७५ ॥
तदेवाह
क्षुधाद्यनुभवो नैव
विकल्पो नहि मानसः ॥७६॥
न-शब्दो भिन्नक्रमः, तेन प्रश्ननिषेधविषयत्वेन
योज्यः, नायं प्रश्न इति । हि-शब्दो हेतौ यतो
बुभुक्षादीनां विकल्पात्मक एव मानसोऽनुभवो न
भवति इत्यर्थः । आसां हि प्रथममविकल्पकमानसप्र-
दं० ४ क० पु० अज्ञापितेऽपि शिवतत्त्वे इति, ख० पु० अविज्ञाते
इति पाठः।