तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 120, कुल 368 में से
संदर्भ में पढ़ें११० श्रीतन्त्रालोकः ।
प्रमातृभिः परिकल्प्यते, न त्वसौ वस्तुतः पदार्थान्तरं
किंचित्, अतः शक्तिशक्तिमत्परिकल्पनेऽपि क्रिय-
माणे, स एव अद्वयमयो विभुः- न काचिद-
द्वयखण्डना इति यावत् । तदुक्तं
'फलभेदादारोपितभेदः पदार्थात्मा शक्तिः'
इति ॥६६॥
नन्वेवमस्तु, यन्न शक्तिशक्तिमतोर्भेद इति, शक्ती-
नां पुनः परस्परं भेद एव भवति इति पुनः स
दोषस्तदवस्थ एव इत्याशङ्क्याह
मातृक्लृप्ते हि देवस्य
तत्र तत्र वपुष्यलम् ।
को भेदो वस्तुतो वह्ने-
र्दग्धृपक्तृत्वयोरिव ॥७०॥
यथा वह्नेः दाह-पाकादिफलभेदाद् दाहिका
पाचिका च शक्तिर्भेदेन कल्पितापि, वस्तुतः शक्ति-
पं० १ ख० पु० परिकल्पते इति, क० पु० पदान्तरमिति च पाठः ।
पं० ५ क० पु० फलाभेदारोपितभेद इति पाठः ।
पं० ८ क० पु० एव भवति शक्तीनां पुनरिति पाठः ।