तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 130, कुल 368 में से
संदर्भ में पढ़ें१२० श्रीतन्त्रालोकः ।
इत्युक्तम् । अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् ।
अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया
दीक्ष्यं योजयति इति न काचित्क्षतिः ॥७६॥
ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु
अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति-
नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन
शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरी-
भावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह
रसाद्यनध्यक्षत्वेऽपि
रूपादेव यथा तरुम् ।
विकल्पो वेत्ति तद्वत्तु
नादबिन्द्वादिना शिवम् ॥७७॥
विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः ।
तेन स १ तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव
गृह्णाति न रसाद्यात्मनापि निय २ तत्त्वात्तद् ३ ग्रहणस्य,
१ स, विकल्पः ।
२ रसस्य हि जिह्वेन्द्रियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति ।
३ रसरूपादेरित्यर्थः ।
पं० १ ख० पु० अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः ।
पं० ६ क० पु० नियताभिनिवेशित्वादिति पाठः ।