सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

द्वितीयाध्याये षष्ठखण्डः । ६१
भवति । अन्योपि यजमानः एतया 'स्तुते' स्तौति स तेजस्वी ब्रह्मव-
र्चस्वी भवति । शारीरं लौकिकसामर्थ्यं तेजः श्रुताध्ययनादिजन्यं
ब्रह्मवर्चसम् ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
अथ पञ्चदशस्यापरामुद्यताख्यां विष्टुतिं दर्शयति—
तिसृभ्यो हिंकरोति सपराचीभिः, पञ्चभ्यो हिं-
ङ्करोति स एकया स तिसृभिस्स एकया, सप्तभ्यो हिङ्क-
रोति स तिसृभिस्स एकया स तिसृभिरुद्यती पञ्चद-
शस्य विष्टुतिः ॥ १ ॥
त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेतीत्युद्यती पञ्चदशस्य विष्टुतिरि-
ति । त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेतीत्युद्यतीत्युच्यते ॥ १ ॥
तस्याः फलमाह--
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवी-
त स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तु-
ष्टुवानः ॥ २ ॥
यस्मादेतया विष्टुत्या स्तुत्वा देवाः स्वर्गमायन्नगमन् तस्मादन्यो-
पि यः स्वर्गं कामयते स एतया स्तुवीत । स स्तुवन् यजमानः स्वर्ग-
लोकस्य समष्ट्यै समाप्त्यै इति पाठान्तरं पुस्तकान्तरे । सम्यक् व्या-
पनायावकल्पते । स च स्वर्गं प्राप्य तस्मात्पुनर्न च्यवते नाधः पतति
यतोऽयन्तुष्टुवानः तिसृभ्यः पञ्चभ्यः सप्तम्य इत्यानुपूर्व्यात् स्तौति अ-
तोऽयं न परावर्त्तते इत्यर्थः । लक्षणहेत्वोः क्रियाया इति हेतोः शानच्-
प्रत्ययः लुकि प्राप्ते व्यत्ययेन स्युः ॥ २ ॥
यद्वा फलान्तरमाह—
अभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन
हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृध्या एव ॥३॥
त्रिवृत् उद्यत्यामेतत् सर्व्वं व्याख्यातम् तद्वदत्रापि व्याख्येयम् ॥३॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य षष्ठः खण्डः ।
६

: क्र has the diagonal slash from top-right to bottom-left across the vertical stem.
In अतिका-: does it have the diagonal slash?
Look at का in line 14: क्रामति has it.
At the end of line 17: अ ति का? Wait, look at क: no diagonal slash! It looks like अतिका-!
Wait, but why अतिकान्तो? Could it be a printing typo for अतिक्रान्तो?
Yes, in old Indian letterpress printing, typesetters sometimes missed the 'ra' ligature or it broke off.
Wait, let me look really closely at the end of line 17:
अ ति then क with ा:
Wait, is there a tiny faint diagonal? No, it looks purely like का.
Wait, let me look again. Under the left curve of क, there is nothing. Under the right, nothing.
So it is printed as अतिका- / न्तो ভবति.
Wait, let's keep what's printed: अतिका- (or अतिक्रा-? Usually best to print what is visible, or अतिक्रा-? Wait, let's look at क्र in अतिक्रामति just 2 words before: अतिक्रामति has a very prominent diagonal slash across the left

द्वितीयाध्याये सप्तमखण्डः । ६३
ति तत्सामान्येन गर्भिणीस्तुतिः । अतो यो यजमान एतया स्तुते स
प्रजया प्रजापतेः पुत्रपौत्रादिभिः प्रवृद्धो भवति, तथा पशुभिश्च प्रजा-
पतेः गवाश्वादिभिश्च प्रवृद्धो भवति ॥ ४ ॥
पुनरपि प्रकारान्तरेण प्रशꣳसति—
वि॒ड्वै॑ स॒प्तद॒शस्तस्या राजा॒ गर्भो॒ विश॑ ए॒व तद्रा॒-
जानङ्गभीङ्करोति ॥ ५ ॥
योऽयं सप्तदशस्तोमः स विड्वैश्य एवेति परिजन एव उभयोः
प्रजापतेर्मध्यभागादुत्पत्तेः सम्बन्धः । तस्याः परिजनभूताया विशः
राजा गर्भः गर्भवन्मध्ये वा स्थितो भवति विट्त्वेन संस्तुतस्य सप्तद-
शस्तोमस्य मध्ये प्रजायतनभूता मध्यमा स्तोत्रीया भवति गर्भङ्करो-
तीति यत् तत् राजानं क्षत्रियमेव विशो गर्भङ्करोति । मध्यस्तोत्रीया-
या

६४ ताण्ड्यमहाब्राह्मणे
हितो भवति । तद्देशवर्त्तिन्यो अन्या अपि प्रजाः अनशनायुकाः अश-
नायारहिता भवन्ति ॥ ७ ॥
तथा पशुसाधनत्वेनैतां प्रशꣳसति--
वैराजो वै पुरुषः सप्त ग्राम्याः पशवो यद्दशपूर्व्वा
भवन्ति सप्तोत्तमा यजमानमेव तत् पशुषु प्रतिष्ठा-
पयति ॥ ८ ॥
पर्यायद्वयगता दशसंख्याः पूर्व्वोत्तमा भवन्ति, प्रथमतृतीयपर्या-
यगता ऋचो भवन्तीति यत्, तत्तेन यजमानमेव पशुषु प्रतिष्ठापयति ।
कथमेतत् यतो वैराजः पुरुषः विराट्पादेन च दशसंख्या विद्यते ।
'नव वै पुरुषे प्राणा दशमी नाभि'रिति श्रुत्यन्तरात् पुरुषेष्वस्ति दशर्च-
स्य स्तुतिः । सप्तसंख्याका ग्रामे भवाः पशवो गवाश्वादया अवशिष्टस-
प्तर्चस्थानीयाः । अतो यजमानं पुरुषमुद्गाता सप्तसंख्याकेषु स्थापयती-
त्येतदुपपन्नम् ॥ ८ ॥
एवमुक्तेन प्रकारेणेयं विष्टुतिः प्रतिष्ठाहेतुरिति दर्शयति--
एषा वै प्रतिष्ठिता सप्तदशस्य विष्टुतिः प्रतितिष्ठ-
ति य एतया स्तुते ॥ ९ ॥
स्पष्टोऽर्थः ॥ ९ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य सप्तमः खण्डः ।
अथ अष्टमः खण्डः ।
उक्ताया एव दशसप्ताया विष्टुतेर्विधानान्तरमाह--
एष एव व्यूहः सप्तैकमध्या ॥ १ ॥
दशसप्ताया विष्टुत्या यस्तृतीयः पर्यायः--'सप्तभ्यो हिङ्करोति स
एकया स तिसृभिस्स तिसृभि'--रित्युक्तः एष एव पर्यायो व्यूहः व्यूहे
विभजनीयः । कथमिति तदुच्यते । उत्तमपर्यायगता याः सप्तर्च स्तता
एकमध्याः कुर्य्यात् । स एकया स तिसृभिस्स तिसृभिरिति पूर्व्वमुक्तः
स तिसृभिरिति कुर्य्यात् । आद्यां तृतीयां च त्रिरावर्त्तयेदित्यर्थः ॥ १ ॥
एतां प्रशꣳसति--
ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश
उत्तमा यत्प्रथमा भूयिष्ठा भाजयति ब्रह्मण्येव तदो-

द्वितीयाध्याये नवमखण्डः । ६५
जोवीर्य्यं दधाति ब्रह्मण एव तत् क्षत्रं च विशञ्चानुगे
करोति क्षत्रस्येवास्य प्रकाशो भवति य एतया स्तुते॥२॥
प्रथमा स्तोत्रीयत्यृचस्याद्या या सा ब्रह्मणो ब्राह्मणजातेरायतनं
स्थानं, उभयोः प्राथम्येन सम्बन्धात् । या मध्यमा द्वितीया सा क्षत्रि-
यस्य क्षत्रियजातेः । योत्तमा तृतीया सा विशो वैश्यजातेरायतनम् ।
तथासति प्रथमां ब्राह्मणजातेरायतनभूतां आद्यामृचं भूयिष्ठा बहुतरा
संख्या भाजयति प्रापयति । तत् कथमित्युच्यते । पूर्वस्यां विष्टुतौ
द्वयोः पर्याययोः सा प्रथमा एकैका आवृत्त्या तिस्रश्चेति पञ्चसंख्यायु-
क्ताऽभूत् । सैवेदानीं तृतीयेऽपि पर्याये त्रिरावर्त्तनात् सप्तंसंख्योपेता
भवति । मध्यमोत्तमे तु पञ्चसंख्योपेते एवं प्रथमामधिकसंख्यां करो-
तीति यत् तत् तेन ब्रह्मणि ब्राह्मणजा

६६ ताण्ड्यमहाब्राह्मणे
अस्यामधिकारिणमाह—
भ्रातृव्यवॉँस्तुवीत यथा सप्तास्थितेन मत्येन समी-
करोत्येवं पाप्मानं भ्रातृव्यं प्ररुजति ॥ २ ॥
भ्रातृव्यः शत्रुः तद्वान्यजमानः पतया सप्तास्थितया विष्टुत्या
स्तुवीत स्तावयेत् । यथा लोके सप्तास्थितेन सप्तभिरनडुद्भिः सप्तभि-
स्तीक्ष्णभागैः शङ्कुभिर्वा अधिष्ठितेन मत्येन मत्यन्नाम कृष्टस्य क्षेत्रस्य
समीकरणादिसाधनफलकं तेन समीकरोति समीकरणार्थं कर्षकः प्रव-
जति क्षेत्रम्, एवं पाप्मानं पापकर्षणहेतुं भ्रातृव्यं शत्रुं अनया प्रथ-
मतः सप्तसंख्यया विष्टुत्या स्तुवानः प्ररुजति प्रभुनक्ति । रुजो भङ्ग
इति धातुः ॥ २ ॥
फलसाम्यहेतुत्वेन बहुयजमानकेष्वपि प्रयोगेषु प्रयोक्तव्येत्याह—
एतामेव बहुभ्यो यजमानेभ्यः कुर्य्याद्यः प्रथमो हि-
ङ्कारः स प्रथमाया यत्ताꣳ सप्तभ्यो हिङ्करोति तेन सा
सप्त भजते यत्सप्तैव मध्ये सम्पद्यन्ते तेन सा सप्त भजते
य उत्तमो हिङ्कारः स उत्तमाया यत्ताꣳ सप्तभ्यो हिङ्क-
रोति तेन सा सप्त भजते सर्व्वानेवैनान् समाव-
द्भाजः करोति नान्योन्यमपघ्नते सर्वे समावदिन्द्रिया
भवन्ति ॥ ३ ॥
बहुयजमानार्थं एतां विष्टुतिकुर्य्यात् । तथासति तृचगतानां ति-
सृणामृचां समसंख्यात्वसम्पादनात् सर्व्वे यजमानाः समानफला भव-
न्तीति समुदायार्थः । कथं सप्तदशे तिसृणामृचां प्रत्येकं सप्तसंख्या-
योग इत्याशंक्य तत्प्रकारं सम्पत्त्या दर्शयति–यः प्रथमो हिङ्कारः स
प्रथमाया ऋचः स्थाने भवति उभयोः प्राथम्यात् तां प्रथमामुद्दिश्य स-
प्तभ्यो हिङ्करोति हिङ्कृत्य स्तौति यत् तत् तेन ऋक्स्थानीयेन हिङ्कार-
द्वयेन सहसा प्रथमपर्यायविष्टावसंनिवेशेन पञ्चधा आवर्त्यमाना
सती सा सप्तसंख्यां भजते । प्रथमपर्याये प्रथमविष्टावे तिस्रः इतर-
योस्तु पर्याययोः प्रथमविष्टावगता एकैकेति तस्याः पञ्चधा आवृत्तिः
यत्सप्तैव मध्ये सम्पद्यते त्रयाणामपि पर्यायाणां मध्यमेषु विष्टावेषु
क्रमेण तिस्र एका तिस्र इति सप्तानां संपत्तिः तेन तेनैव सा मध्यमा
सप्तसंख्यां भजते । य उत्तमस्तृतीयपर्यायगतो हिंकारः स उत्तमा-
यास्तृतीयास्थाने उभयोस्तृतीयत्वसाम्यात् यत्तामुत्तमामुद्दिश्य सप्त-

द्वितीयाध्याये दशमखण्डः । ६७

भ्यो हिङ्करोतीति हिङ्कृत्य स्तौतीति यो द्वितीयो हिङ्कारस्सोऽपि तस्याः
स्थाने भवति यदेतत् हिङ्कारद्वयमृक्स्थानीयं यत्तेन हिंकारद्वयेन सह
पर्यायत्रये उत्तमविष्टावेषु क्रमेणैकैके तिस्रश्चेत्यावर्त्यमाना पञ्चेति सप्त-
संख्यां भजते । इयं तिसृणां सप्तसंख्यासाम्यसम्पत्तेः सर्वानैवैनान्
यजमानान्समावद्वाजः समानफलयुक्तान् करोति उद्गाता ॥ ३ ॥
एषापि केषाञ्चित्येत्याह—
तामेतामभिप्रतारिण उपासते तस्मात्त ओजि-
ष्ठा स्वानाम् ॥ ४ ॥
अभिप्रतारी नाम कश्चिद्राजर्षिस्तद्गोत्रजाः आभिप्रतारिणः ते आ-
भिप्रतारिणः तामेतां सप्तास्थितां विष्टुतिमुपासते कर्म्मसु नित्यं प्रयु-
ञ्जते । अतस्ते स्वानां ज्ञातीनां मध्ये ओजिष्ठा ओजसि स्थिता भव-
न्ति । स्वशब्दस्य ज्ञातिवचनत्वेन स्वं ज्ञातिधनाख्यायामिति सर्व्वनाम-
संज्ञां पर्युदस्य आमः सुडभावः ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य नवमः खण्डः ।


अथ दशमः खण्डः ।
सप्तदशस्तोमस्य सप्तास्थिताया विष्टुतेर्व्यूहनप्रकारान्तरमाह—
एष एव व्यूह उभयत्सप्तैकमध्या निर्मध्या ॥ १ ॥
उक्तायाः सप्तास्थिताया एष वक्ष्यमाणो व्यूहो विभागप्रकारः ।
कथमिति तदुच्यते--प्रथमोत्तमयोः पर्याययोर्विद्यमाना उभयः उभ-
यविधाः सप्तर्च एकमध्याः कार्याः स 'तिसृभिस्स तिसृभिस्स एक-
ये'ति हि प्रथमे पर्याये समाम्नाता । स एकया स तिसृभिः स तिसृ-
भिरिति हि उत्तमे । तत्रोभयोः पर्याययोः स तिसृभिः स एकया स
तिसृभिरिति मध्यमा एकैव यथा स्यात् तथा कुर्य्यादित्यर्थः । एवं-
सति तथा सति त्रिष्वपि पर्यायेषु मध्यमायाः स्तोत्रीयाया ऋच
आवृत्त्यभावादेषां निर्मध्या निर्गतमध्यस्थौल्या तनुमध्येत्यर्थः ॥ १ ॥
अस्यामधिकारिणमाह—
आनुजावर स्तुवीतालोको वा एष यदानुजावरो
यत् सप्तप्रथमास्सप्तोत्तमास्तिस्रो मध्ये त्र्यक्षरः पुरुषो

६८ ताण्ड्यमहाब्राह्मणे
लोकमेवास्मै तन्मध्यतः करोति तस्मिँल्लोके प्रति-
तिष्ठति ॥ २ ॥
एतया विष्टुत्या आनुजावरेति कनिष्ठो यजमानः स्तुवीत यत
यन्न आनुजावरः स एष अलोको वै लोकः स्थानं तद्रहितः खलु
जनैरपरिगृहीतत्वात् , तथासति यत् यस्मात्प्रथमाः प्रथमपर्यायस्थाः
सप्तर्च उत्तमाः उत्तमपर्यायगताश्च सप्तर्चः मध्ये मध्यमपर्याये तिस्रः ।
यद्वा त्रिषु पर्यायेषु प्रथमोत्तमाविष्टवावगताः सप्तसप्तर्चो भवन्ति । मध्य-
मविष्टवावगास्तु तिस्रः पुरुषस्तु त्र्यक्षरवाच्यो भवत्यानुजावरोऽपि पुरुषः
यस्मादेव तस्मात् त्र्यक्षराभिधेयपुरुषस्थानीयमृचत्रयमध्ये प्रयुञ्जानः
स्तोता अस्मा आनुजावराय लोकं स्थानमेव मध्यतो मध्ये करोति ।
अनया विष्टुत्या तस्य लोको लभ्यत इत्यर्थः । तस्मिँल्लोके प्रति-
ष्ठितश्च भवति ॥ २ ॥
अधिकार्यन्तरमाह—
एतामेव प्रजाकामाय कुर्यान्मध्यतो वा एष संरू-
ढो यः प्रजान्न विन्दते लोकमेवास्मै तं मध्यतः करोति
तं लोकं प्रजया च पशुभिश्चानु प्रजायते ॥ ३ ॥
एतामेव विष्टुतिं प्रजां पुत्रभृत्यादिकां कामयमानायोद्गाता कु-
र्यात् । यः प्रजान्न विन्दते न लभते एषः पुत्रपश्वादीनां मध्यतो मध्य-
देशात् संरूढः सम्यगुत्थितः प्रजावान्हि पुत्रभृत्यादीनां मध्ये तिष्ठ-
ति तत्तथा ततोस्मै प्रजाकामाय तिस्रो मध्ये प्रयुञ्जानः स्तोता मध्य-
तो मध्यं लोकं स्थानं करोत्येवं तल्लोकमनुलोकं सम्पत्तेरूर्ध्वं प्रजया
पशुभिश्च प्रजायते प्रवृद्धो भवति अतः पशुकामोऽप्यत्राधिकारी-
त्युक्तं भवति ॥ ३ ॥
पुनरप्यधिकारिविशेषं दर्शयति—
एतामेवापरुद्धराजन्याय कुर्याद्विड्वै सप्तदशस्त-
स्या राजा गर्भो विश एव तद्राजानन्निर्हन्त्यपावगतो
रुध्यतेऽवगच्छत्यपरुद्धः ॥ ४ ॥
एतामेव विष्टुतिं अपरुद्धः परिजनैर्निरुद्धस्तादृशाय राजन्याय अ-
भिषिक्ताय राज्ञे एतामेव विष्टुतिं प्रयुञ्जीत योऽयं सप्तदशस्तोम उक्तः
स विड्वै राज्ञः परिजनभूता वैश्यजातिरेव । अनयोः प्रजापतेर्मध्य-
देहादुत्पत्तेः परस्परं सम्बन्ध इति पूर्वमेवोक्तम् तस्य विशो राजा

द्वितीयाध्याये एकादशखण्डः । ६९
गर्भस्थानीयो भवति गर्भत्वन्मध्येऽवस्थानात्तथासति सप्तकयोर्म्मध्ये
तिस्रः प्रयुञ्जान उद्गाता विशो वैश्यजातेरेव मध्ये पुरुष ज्ञाते अक्षराभि-
धेयं राजानं निर्हन्ति अपराधकारिणं निष्कृष्य हन्ति गमयति स्थापय-
तीत्यर्थः। अन्यत् पूर्व्ववद्व्याख्येयम् ॥ ४ ॥
पुनरप्यधिकारान्तरप्राह—
एतामेवाभिचर्य्यमाणाय कुर्य्यात्प्रजापतिर्वै सप्तदशः
प्रजापतिमेव मध्यतः प्रविशत्यस्तृत्यै ॥ ५ ॥
यो यजमानोऽभिचर्य्यमाणो द्वेष्टृभिः कृतमभिचारं प्राप्तो भवति
तस्मै एतामेव विष्टुतिं कुर्य्यात् योयं सप्तदशस्तोमः स प्रजापतिर्वै
प्रजापतिरेव उभयोः सप्तदशसंख्यासाम्यात् । प्रजापतेः सप्तदशत्वं
ऐतरेयके समाम्नातम् ‘द्वादशमासाः पञ्चर्त्तवो हेमन्तशिशिरयोः स-
मासेन तावान् संवत्सरः संवत्सरः प्रजापति’रिति । तथासति प्रजा-
पत्यात्मनः सप्तदशस्य मध्ये यास्तिस्रः प्रयुज्यन्ते तेन त्र्यक्षरवा-
च्यः पुरुषोऽभिचर्य्यमाणः प्रजापतिमेव मध्यतः प्रजापतेरेव मध्यदेशे
प्रविशति अस्तृत्यै अहिꣳसायै । स्तृञ् हिंसायामिति धातुः ॥ ५ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य दशमः खण्डः ।
अथ एकादशः खण्डः ।
तस्य सप्तदशस्तोमस्यैवापरा विष्टुतिः प्रदर्श्यते—
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स ए-
कया, तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करो-
ति स तिसृभिः स तिसृभिः स तिसृभिः ॥ १ ॥
स्पष्टार्थः ॥ १ ॥
उक्तां विष्टुतिं स्तोमचतुष्टयरूपेण प्रशंसन् ब्रह्मवर्चसका-
मस्यैवेत्याह—
चतुरस्तोमान् प्रतिविहिता ब्रह्मवर्चसकामः स्तुवी-
त पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतन्नवभिस्त्रिणवं
स्वयꣳसप्तदशः सम्पन्नो वीर्य्यं वै स्तोमा वीर्य्यमेव तदे-
कधा समूहेते ब्रह्मवर्चसस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी
भवति य एतया स्तुते ॥ २ ॥

७० ताण्ड्यमहाब्राह्मणे
क्रमेण त्रिभिः पर्यायैः पञ्चदशादिस्तोमत्रयपर्यायसाम्यात् स्वस्य
च सप्तदशत्वादियं विष्टुतिः स्तोमचतुष्टयप्रतिनिधित्वेन कृतया ए-
तया ब्रह्मवर्च्चसकामः स्तुवीत । कुत एतत्-य एते चत्वारः स्तोमा-
स्तद्वीर्य्यं वै वीर्य्यं खलु स्तूयमानाया देवतया वीर्यहेतुत्वात् तत्
तथासति वीर्य्यमेव एकधा समूहते एकत्र समूहीकरोति तच्च समू-
हनं ब्रह्मवर्च्चसस्य लाभाय भवति । अन्योपि यो यजमान एतया स्तु-
ते तेजस्व्येव सन् ब्रह्मवर्च्चसी भवति ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य एकादशः खण्डः ।
अथ द्वादशः खण्डः ।
अथोद्यत्याख्यां सप्तदशस्यापरां विष्टुतिमाह—
तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करो-
ति स एकया स तिसृभिः स एकया नवभ्यो हिङ्करो-
ति स तिसृभिस्स तिसृभिस्स तिसृभिरुद्यती सप्तद-
शस्य विष्टुतिः ॥ १ ॥
तिसृभ्यः पञ्चभ्यो नवभ्य इति क्रमेण सङ्ख्याया ऊर्ध्वगमनादुद्यती
ऊर्ध्वगच्छन्ती एतत्संज्ञा एषा सप्तदशस्तोमस्य विष्टुतिः ॥ १ ॥
अथैतां स्वर्गादिसाधनतया प्रशंसति--
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत
स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवा-
नोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन
हि यज्ञमृध्नोति तस्मादेतया स्तोतव्यमृध्या एव ॥ २ ॥
एतया वा इत्यादि तुष्टुवान इत्यन्तं पञ्चदशस्तोमस्योद्यत्यां व्या-
ख्यातं सर्व्वमन्यत् त्रिवृदुद्यत्याम् । तद्वदत्रापि व्याख्येयम् ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य द्वादशः खण्डः ।

द्वितीयाध्याये त्रयोदशः खण्डः । ७१
अथ त्रयोदशः खण्डः ।
सप्तदशस्यैव भस्त्राख्या परा विष्टुतिः प्रदर्श्यते--
सप्तभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स ए-
कया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स ए-
कया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृ-
भिर्भस्त्रावाचीनबिला ॥ १ ॥
प्रथमे पर्याये सप्त इतरयोः पञ्च पञ्चेति हीनसंख्ययोत्तरत्वादवा-
चीनबिलत्वादवाङ्मुखद्वारा भस्त्रा तत्साम्यात् भस्त्रा एतत्संज्ञा एषा स-
प्तदशस्तोमस्य विष्टुतिः । अत एवावाचीनबिलत्वादेवानिकृष्टा ॥ १ ॥
अस्यां विष्टुतावधिकारिणमाह-
यं द्विष्यात्तस्य कुर्याद्यथावाचीनबिलया भस्त्रया
प्रधूनुयादेवं यजमानस्य पशून् प्रधूनोत्यपक्रामन्ती वि-
ष्टुतिस्तथा यजमानस्य पशवोऽपक्रामन्ति पापीयान्
भवति य एतया स्तुते ॥ २ ॥
यं यजमानमुद्गाता द्विष्यात् तस्य यजमानस्यैतां भस्त्राख्यां विष्टु-
तिं कुर्यात् , तथासति अवाचीनबिलया भस्त्रया स्तुत्या यथा अयस्का-
रः प्रधूनुयात् प्रकम्पयेत् प्रधमयेदित्यर्थः । एवमेव एतया विष्टुत्या
यजमानस्य पशून् प्रधूनोति प्रगमयति । तथेयं विष्टुतिरपक्रामन्ती उत्त-
रोत्तरहीनसंख्यात्वेनापगच्छन्ती तथा विष्टुत्या यजमानस्य पशवोऽप-
क्रामन्ति यजमानान्निर्गच्छन्ति यो यजमान एतया स्तुते यस्यैतयोद्गा-
ता स्तौतीत्यर्थः । स यजमानः पापीयान् अन्यैरपि फलैर्विहीनो
भवति ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य त्रयोदशः खण्डः ।
अथ चतुर्दशः खण्डः ।
एकविंशस्तोमस्य चतस्रो विष्टुतयः । तत्र सप्त सप्तिन्याख्यां प्रथ-
मां विष्टुतिं दर्शयति-
सप्तभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स एक-
या सप्तभ्यो हिङ्करोति स एकया स तिसृभिस्स तिसृ-

भिसस्सप्तभ्यो हिङ्करोति स तिसृभिस्स एकया स तिसृ-
भिः सप्तसप्तिन्येकविꣳशस्य विष्टुतिः ॥ १ ॥
स्पष्टोर्थः ॥ २ ॥
अथैतां स्तौति--
सप्त ग्राम्याः पशवस्तानेतया स्पृणोति सप्त शिर-
सि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतयाप्नोति ॥२॥
पुरुषो गौरविरजो गर्दभोऽश्वोऽश्वतर इति ग्राम्याः सप्त पशवस्ता-
नेतया 'स्पृणोति' प्राप्नोति । स्पृ प्रीतिचलनयोरत्र प्राप्त्यर्थः, धातुना-
मनेकार्थत्वात् । किञ्च सप्तशीर्षण्याः प्राणाः मुखनासिके अक्षिणी कर्णा-
विति इन्द्रियाणि तदधिष्ठानत्वात् । अत इन्द्रियाण्येवैतया सप्तसप्ति-
न्याप्नोति ॥ २ ॥
अथैतां पुनरपि स्तौति—
एषा वै प्रतिष्ठितैकाविꣳशस्य विष्टुतिः प्रतितिष्ठति
य एतया स्तुते ॥ ३ ॥
त्रिष्वपि पर्यायेषु समसंख्यासद्भावादस्याः प्रतिष्ठितत्वम् । त-
थासति एतां प्रयुञ्जानः पश्वादिभिः प्रतिष्ठितो भवति ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य चतुर्दशः खण्डः ।
अथ पञ्चदशः खण्डः ।
अथास्यैव स्तोमस्य उद्यत्याख्यां द्वितीयां विष्टुतिमाह-
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स
एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिस्स ति-
सृभिर्नवभ्यो हिङ्करोति स तिसृभिस्स तिसृभिः स
तिसृभिरुद्यत्येकविꣳशस्य विष्टुतिः ॥ १ ॥
स्पष्टोर्थः ॥ १ ॥
एतां विष्टुतिं प्रशंसति-
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवी-
त स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवा-
नोऽभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन

Here is the complete, line-by-line transcription of the Sanskrit page in Markdown format:

द्वितीयाध्याये पञ्चदशखण्डः । ७३
हि यज्ञं सृध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव ॥ २ ॥
एतत्सर्वं पूर्ववद्योज्यम् ॥ २ ॥
प्रकारान्तरेण प्रशꣳसति—
सैषा त्रिवृत्प्रायणा त्रिवृदुदयना यत्त्रिवृद्बहिष्पव-
मानं भवति नवैता एकविꣳशस्योत्तमा भवन्ति प्राणा
वै त्रिवृत्प्राणानेव तदुभयतो दधाति तस्मादयमर्धभाग-
वाक् प्राण उत्तरेषां प्राणानाꣳ सर्व्वमायुरेति न पुरा-
युषः प्रमायते य एतया स्तुते ॥ ३ ॥
अग्निष्टोमसंस्थस्य यज्ञायज्ञीयस्तोत्रे अस्या विष्टुतेः प्रयोज्यत्वादे-
कविꣳशस्तोमस्याग्निष्टोमत्वमारोप्य स्तूयते । सैषा विष्टुतिः त्रिवृत्प्रा-
यणा त्रिवृत् ऋङ्

ꣳशस्य विष्टुतिं उपासते नित्यं प्रयुञ्जते । तस्मात्ते सर्वे शतवर्षलक्षणं
कृत्स्नमायुर्यन्ति प्राप्नुवन्ति ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य पञ्चदशः खण्डः ।

अथ षोडशः खण्डः ।
अथास्यैव स्तोमस्य प्रतिष्ठुतिर्नाम तृतीया विष्टुतिः प्रदर्श्यते—
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स ति-
सृभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एक-
या, सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृ-
भिः प्रतिष्ठुतिः ॥ १ ॥
त्रिवृदादिस्तोमचतुष्टयप्रतिरूपकत्वात् अस्याः प्रतिष्ठुतिरिति
संज्ञा यौगिकी ॥ १ ॥
एतदेव दर्शयति—
नवभिस्त्रिवृतं प्रतिष्ठौति पञ्चभिः पञ्चदशꣳ सप्तभिः
सप्तदशꣳ स्वयमेकविꣳशः सम्पन्नः ॥ २ ॥
अस्या विष्टुतेः प्रथमपर्यायगताभिर्नवभिर्ऋग्भिस्त्रिवृतं स्तोमं प्र-
तिष्ठौति त्रिवृत्स्तोमेन स्तुतवान् भवतीत्यर्थः । एवमुत्तरत्रापि यो-
ज्यम् ॥ २ ॥
एतां विष्टुतिं प्रशꣳसति—
य एव स्तोमा यज्ञं वहन्ति तानुत्तमे स्तोत्रे सन्तर्पयति
यथाऽनडुहो वाह्वान्वाह्वतरान्वोहुषः सन्तर्पयेदेवमेत-
दुत्तमे स्तोत्रे स्तोमान् सन्तर्पयति तृप्यति प्रजया पशु-
भिर्य एतया स्तुते ॥ ३ ॥
य एव स्तोमास्त्रिवृत्पञ्चदशसप्तदशैकविꣳशाख्ययज्ञमाग्निष्टोमं वह-
न्ति तान् स्तोमान् सर्व्वान् तर्पयति अन्तिमे यज्ञायज्ञीयस्तोत्रे अनया
विष्टुत्या स्तुवन्नुद्गाता सन्तर्पयति उक्तक्रमेण ताननुस्मरन् संतृप्तान्
करोति । एतदेव दृष्टान्तेन समर्थयते । ऊहुषः वहेः क्सि प्रत्यये शसि
रूपमेतत् । ऊहुषः ऊढवतः ऊढभारान् अनडुहादीन् यथा संतर्पयेत्
उत्तमे स्तोत्रे स्तोमान् सन्तर्पयति यत् एवमेतत् य एतया स्तौति अयं
तर्पयतीत्यन्वयः ॥ ३ ॥

द्वितीयाध्याये सप्तदशखण्डः । ७५
पौरोहित्यं कामयमानस्यैषा विष्टुतिः प्रयोज्येत्याह—
एतामेव पुरोधाकामाय कुर्याद्ब्रह्म वै त्रिवृत्
क्षत्रमेकविꣳशो यत्त्रिवृतैकविꣳशं प्रतिपद्यते ब्रह्म
तत् क्षत्रस्य पुरस्तान्निदधाति गच्छति पुरोधान्न पुरो-
धायाश्च्यवते य एतया स्तुते ॥ ४ ॥
पुरोधा पौरोहित्यं तत्कामः यजमानो यस्तस्मै यजमानाय एकवि-
ꣳशस्यैतामेव विष्टुतिं कुर्यात् । योऽयं त्रिवृत्स्तोमः ब्रह्म वै ब्राह्मण-
जातिः खलु उभयोः प्रजापतिमुखजन्यत्वात् । एकविꣳशस्तोमः प्रति-
ष्ठाहेतुत्वात् क्षत्रं क्षत्रियजातिः । एवं सति त्रिवृता ऋक्नवके एकवि-
ꣳशस्तोमं प्रतिपद्यते प्रारभत इति यत्तत्तेन क्षत्रस्य क्षत्रियजातेः पुर-
स्ताद्ब्रह्म ब्राह्मणजातिं निदधाति अतः कारणात्स यजमानः पुरोधां
पौरोहित्यं गच्छति प्राप्नोति कदाचिदपि तस्याः पुरोधाया न च्यवते
न प्रच्युतो भवति ॥ ४ ॥
एषापि केषाञ्चिन्नित्येति दर्शयति—
तामेतां प्रावाहणय उपासते तस्मात्ते पुरोधाया न
च्यवन्ते ॥ ५ ॥
प्रावाहणयः प्रवाहणो नाम कश्चित् ऋषिः तस्य सन्तानभूताः प्रावा-
हणयः । स्पष्टमन्यत् ॥ ५ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य षोडशः खण्डः ।
अथ सप्तदशः खण्डः ।
अथास्यैव स्तोमस्य सूर्म्माख्याञ्चतुर्थीं विष्टुतिं दर्शयति—
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स
तिसृभिस्तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्क-
रोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्म्युभयत
आदिप्ता ॥ १ ॥
उभयत आद्यन्तयोः पर्याययोर्ऋक्नवकान्तेन त्रिवृत्त्वादुभयत आ-
दीप्ता, त्रिवृतश्चाग्नेश्च प्रजापतिमुखात् सहोत्पत्तेरादीप्ता, सूर्म्मी कृशा-
मध्ये स्थूलेतरा तत्सादृश्यादस्या अप्येषा संज्ञा । अस्या अपि मध्यम-
पर्यायस्य ऋक्त्रयात्मकत्वेन ऋक्नवकाभ्यामल्पत्वात् ॥ १ ॥

७६ ताण्ड्यमहाब्राह्मणे
अस्यामधिकारिणमाह—
ब्रह्मवर्चसकामः स्तुवीत तेजो वै त्रिवृत् त्र्यक्षरः
पुरुषो यत् त्रिवृतावभितो भवतस्तिस्रो मध्ये यथा हि-
हिरण्यं निष्टपेदेवमेनं त्रिवृतौ निष्टपतस्तेजसे ब्रह्म-
वर्चसाय ॥ २ ॥
अनया ब्रह्मवर्चसकामः स्तुवीत यः त्रिवृत् स्तोमोऽस्ति स तेजो वै
तेजोरूपः खलु पुरुषो यजमानोऽपि त्र्यक्षरः पुरुषः इति त्र्यक्षरैर्वाच्यस्त-
थासति यत् यस्मात्त्रिवृतौ तेजोरूपावुभयतः प्रथमतृतीयपर्याययोर्भव-
वतः मध्ये मध्यमे पर्याये तिस्रः त्र्यक्षरात्मकपुरुषस्थानीयास्तिस्र ऋचो
भवन्ति । तस्य यथा हिरण्यमग्निमध्ये वर्णोत्कर्षाय निष्टपेत् नितरां ता-
पयति स्वर्णकारः एवमेनं अक्षरत्रयाभिधेययजमानं एतौ त्रिवृतौ उभ-
यतस्त्रिवृतौ निष्टपतः निकष्य दीपयतः एवं सति यजमानस्तेजसे ब्रह्म-
वर्चसाय भवति ॥ २ ॥
अस्यां विष्टुतौ दोषद्वयमप्यस्ति—
अपशव्येव तु वा ईश्वरा पशून्निर्देहः किलासत्त्वान्नू-
भयमति हि निष्टपतः ॥ ३ ॥
तु शब्दः फलवैलक्षण्यद्योतनार्थः । अपशव्येव वै पशूनां वृद्धि-
विघातिनी खलु अत एवैषा पशून्निर्देहो निर्दग्धुमीश्वरा समर्था ‘ईश्वरे
तोसुन् कसुना’ विति दहेः कसुन् । तथा किलासत्त्वात् किलासः सिद्धः
त्वग्रोगविशेषः तद्धेतुत्वात् चैषा दुष्टा । उभयत्र हेतुः उभयमति हीति ।
हि हेतौ यस्मादाद्यन्तयोः प्रयुक्तौ त्रिवृतौ त्रिवृतौ त्र्यक्षराभिधेयस्य
पुरुषस्य यजमानस्योभयपार्श्वद्वयन्निष्टपतः निःशेषेण दहतः अत ऊर्ध्वं
दोषद्वयं सम्पद्यत इत्यर्थः ॥ ३ ॥
अधिकार्यन्तरमाह—
एतामेवाभिशस्यमानाय कुर्याच्छमलं वा एतमृ-
च्छति यमश्लीला वागृच्छति यैवेनमसावश्लीलं वाग्व-
दति तामस्य त्रिवृतौ निष्टपतस्तेजस्वी भवति य एतया
स्तुते ॥ ४ ॥
एतामेव सूम्र्याख्यां विष्टुतिं अभिशस्यमानाय परैर्निन्द्यमानाय
यजमानायोद्गाता कुर्यात् यं यजमानमश्लीला निन्दारूपा वाक् ऋ-

तृतीयाध्याये प्रथमखण्डः । ७७
च्छति प्राप्नोति एनं यजमानं शमलं पापमेव ऋच्छति प्राप्नोति । यैव
सा वाक् एनमश्लीलमश्रीकरनिन्दारूपं वदति अस्य यजमानस्य
अश्लीलवादिनीं वाचं अस्यां विष्टुतौ प्रयुज्यमानावुभयतस्त्रिवृतौ
निष्पतो निर्द्दहतः अश्लीलवादिन्यो वाचो निर्द्दहो यजमानो निर्दोषो
जायत इत्यर्थः । अन्योपि यो यजमान एतया स्तुते स्तावयति सोपि
तेजस्वी भवतीति ॥ ४ ॥
वेदार्थस्य प्रकाशेन तमोहार्द्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकबुक्कभूपालसाम्राज्य-
धुरन्धरेण सायनाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे
ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य सप्तदशः खण्डः ।
द्वितीयाध्यायः समाप्तिङ्गमत् ।
तृतीयोऽध्यायः ।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
द्वितीये दशरात्रस्य चतुर्णां विष्टुतिक्रमः ।
प्रदर्शितस्तृतीयेऽथ वक्ष्यन्ते त्रिणवादयः ॥ २ ॥
त्रिणवस्य स्तोमस्य द्वे विष्टुती प्रतिष्ठिता उद्यती चेति । तत्र
प्रतिष्ठितां विष्टुतिं प्रदर्शयति—
नवभ्यो हिङ्करोति स तिसृभिः स पञ्चाभिः स ए-
कया, नवभ्यो हिङ्करोति स एकया स तिसृभिः स प-
ञ्चाभिर्नवभ्यो हिङ्करोति स पञ्चाभिः स एकया स
तिसृभिः ॥ १ ॥
सर्व्वस्य स्तोमस्य त्रयस्त्रयः पर्यायास्तत्र प्रथमपर्यायस्य या
प्रथमा सा तृचभागेत्यन्वर्थसंज्ञका अतस्तस्यास्त्रिर्वचनं कार्य्यम् । तस्यैक

७८ ताण्ड्यमहाब्राह्मणे
पर्यायस्य या मध्यमा तस्या आवापस्थानमिति संज्ञा। अतः त्रिर्वच-
नावशिष्टाः प्रथमपर्यायसम्बन्धिनो येऽभ्यासा अन्त्यवर्जितास्तेषां
तेषामियमावापस्थानभूतेत्यर्थः। या तृतीया सा परिचरासंज्ञका सकृ-
द्वचनेनैव प्रायेण परितः सर्वतश्चरणात्तन्नामसम्पन्नम्। तथा मध्यमप-
र्याये ता एव तिस्रः स्तोत्रीया परिचरा तृचभागा आवापस्थानमिति
क्रमेण संज्ञां लभन्ते। उत्तमे पर्याये आवापस्थानं परिचरा तृचभागेति
संज्ञां लभन्ते अतः स्तोमवृद्धौ तृचभागायाः सर्वत्र त्रिर्वचनमेव। अनावृ-
त्तैकेव परिचरा यावताभ्यासेन पर्याये संख्या पूर्यते तावत्कृत्वो म-
ध्यमावर्त्तनीयेत्यर्थः । तदुक्तं सूत्रकारेण—‘वर्द्धमानेषु स्तोमेषु प्र-
थमस्य पर्यायस्य प्रथमा तृचभागा तस्यास्त्रिर्वचनं मध्यमावाप-
स्थानमुत्तमा परिचरा तृचभागावापस्थानमिति मध्यमे आवापस्थानं
परिचरा तृचभागेत्युत्तम’ इत्यादिना। अतोऽस्यां विष्टुतावपि पर्याय-
त्रये तृचभागापरिचरयोः पूर्वोक्तसंख्यैव आवापस्थानभूता तु पञ्चकृ-
त्वाऽभ्यस्यते। एषैव संख्याभिधेयत्वेन स्तोतव्या ॥ १ ॥
तं प्रशंसिष्यन्नुक्तं व्यूहनं प्रशंऽसति—
वज्रो वै त्रिणवो वज्रमेव तद्व्यूहति शान्त्यै ॥ २ ॥
त्रयो हि त्रिवृत्स्तोमा मिलित्वा त्रिणवः तस्य त्रिवृत एकैकस्य
पर्यायस्य त्रित्वसंख्योपेतत्वात् ‘वज्रस्य चेन्द्रो वृत्राय वज्रं प्राहरत्
स त्रेधा व्यभजदिति’ श्रुत्यन्तरात् त्रेधा भावदर्शनात्, तदुभयत्र सं-
ख्यासाम्येन त्रिवृतो वज्रत्वं तत्समुदायात्मकः त्रिणवोपि वज्रमेव वज्र-
वदिह संक्रमेव तथासति उक्तप्रकारेण यद्व्यूहनं त्रित्वसंख्याविभजनं
तत्तेन वज्रमेव तद्व्यूहति वज्रमेव अपनयतीत्यर्थः। तद्व्यूहनं यजमान-
स्य शान्त्यै उपद्रवशमनाय भवति ॥ २ ॥
अथ विहितां पञ्चसंख्यां प्रशंसति ।
पञ्चभिर्विहितैका परिचरा पाङ्क्ताः पशवो यजमा-
नः परिचरा यत्पञ्चभिर्विदधात्येका परिचरा भवति
यजमानमेव तत्पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता
त्रिणवस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते ॥ ३ ॥
एषा विष्टुतिः पञ्चभिर्ऋग्भिर्विहिता विशेषेणोपदिष्टा आवापस्थान-
गतायाः पञ्चता एव विधेया अप्राप्तत्वात्परिचरातृचभागयोस्तु संख्या-
नियमस्योक्तेन प्रकारेण सर्वतः प्राप्तस्तस्मादावापस्थानभूता पञ्चसं-
ख्योपेता परिचरा चैका। पशवश्चत्वारः पादाः पुच्छञ्चेति च त्वङ्मांसं

तृतीयाध्याये तृतीयखण्डः । ७९
स्नायु चास्थि मज्जेत्येवं वा पञ्चसम्बन्धात् पाङ्क्ताः । अत आवापस्था-
नीयाः पञ्चर्चः पशव इत्युपचर्य्यते । परिचरा च यजमानस्थानीया एक-
त्वसाम्यात् । एवं स पञ्चभिर्ऋग्भिरावापस्थानगताभिरिमां विष्टुतिं वि-
दधाति परिचरा चैका भवति तत्तेन यजमानमेव पशुष्ववस्थापयति ।
एषा तु त्रिणवस्य विष्टुतिः प्रतिष्ठिता उक्तप्रकारेण पशुषु यजमान-
स्यावस्थितिहेतुत्वात् अतो य एतया स्तुते स प्रतितिष्ठति ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ त्रिणवस्योद्यत्याख्यां द्वितीयां विष्टुतिमाह—
सप्तभ्यो हिङ्करोति स तिसृभिस्स एकया नवभ्यो
हिङ्करोति स एकया स तिसृभिस्स पञ्चभिरेकादश-
भ्यो हिङ्करोति स पञ्चभिस्स तिसृभिः स तिसृभिरु-
द्यती त्रिणवस्य विष्टुतिः ॥ १ ॥
तत्र सप्तभ्यो नवभ्य एकादशभ्यः प्रतिसंख्यारोहणम्, उद्यत्येषा
विष्टुतिस्त्रिणवस्य ॥ १ ॥
अथ एतां प्रशंसति—
एतया वै देवाः स्वर्गं लोकमयन् स्वर्गकामः स्तु-
वीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभि-
क्रान्तेन हि यज्ञसृध्नोति तस्मादेतया स्तोतव्यमृ-
ध्या एव ॥ २ ॥
त्रिवृत्पञ्चदशयोरुद्यत्यर्थवादवदेतत्सर्व्वं ज्ञेयम् ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
त्रयस्त्रिꣳशस्तोमस्य विष्टुतयः पञ्च तत्राद्यां समङ्कशाख्यां दर्शयति—
एकादशभ्यो हिङ्करोति स तिसृभिस्स सप्तभिस्स
एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिस्स

८० ताण्ड्यमहाब्राह्मणे
सप्तभिरेकादशभ्यो हिङ्करोति स सप्तभिस्स एकया
स तिसृभिः ॥ १ ॥
त्रयाणां पर्यायाणां समसंख्यात्वात् समञ्चैषा विष्टुतिः ॥ १ ॥
अथैतां विष्टुतिं स्तौति—
अन्तो वै त्रयस्त्रिꣳशः परमो वै त्रयस्त्रिꣳशस्तो-
मानाꣳ सप्तभिर्विहितैका परिचरा सप्त ग्राम्याः पश-
वो यजमानः परिचरा यत्सप्तभिर्विदधात्येका परिचरा
भवति यजमानमेव तदन्ततः पशुषु प्रतिष्ठापयत्येषा
वै प्रतिष्ठिता त्रयस्त्रिꣳशस्य विष्टुतिः प्रतितिष्ठति य
एतया स्तुते ॥ २ ॥
यस्त्रयस्त्रिꣳशस्तोमोऽस्ति एष अन्तो वै चरमः खलु पृष्ठ्यषडहस्तो-
मापेक्षयास्यान्तत्वं तदेवमाह--परमो वै अयं त्रयस्त्रिꣳशः परमो वै
पृष्ठ्यानामुत्तमः खलु । शिष्टं त्रिणवस्याद्यविष्टुत्यर्थवादवद्व्याख्येयम् ।
अन्तत इति षडहस्यान्तत इत्यर्थः ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य तृतीयः खण्डः॥

अथ चतुर्थ खण्डः ।
अथैवानेदीयःसंक्रमाख्यां द्वितीयां विष्टुतिमाह—
एकादशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स
तिसृभिरेकादशभ्यो हिङ्करोति स तिसृभिः स तिसृ-
भिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स
तिसृभिः स तिसृभिर्नेदीयःसंक्रमा ॥ १ ॥
नेदीयसि अन्तिकतमे संख्याविशेषे संक्रामतीति नेदीयःसंक्रमा ।
तथा हि प्रथमे पर्याये आरोहावरोहाभ्यां तिसृभ्यः पञ्चसु पञ्चभ्यः ति-
सृष्वित्येवमन्तरिताः अयुक्संख्यास्तेषां संक्रामति । द्वितीयतृतीययो-
रपि यथासंख्यमारोहावरोहाभ्यां अन्तिकतमामेवायुक्संख्यां क्रामति ।
यथा पूर्व्वा विष्टुतिः तिसृभ्यस्सप्तसु सप्तभ्य एकस्यामिति व्यवहित-
संक्रमा तद्वैलक्षण्यादेषा नेदीयःसंक्रमा ॥ १ ॥