सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 97, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 97

तृतीयाध्याये प्रथमखण्डः । ७७
च्छति प्राप्नोति एनं यजमानं शमलं पापमेव ऋच्छति प्राप्नोति । यैव
सा वाक् एनमश्लीलमश्रीकरनिन्दारूपं वदति अस्य यजमानस्य
अश्लीलवादिनीं वाचं अस्यां विष्टुतौ प्रयुज्यमानावुभयतस्त्रिवृतौ
निष्पतो निर्द्दहतः अश्लीलवादिन्यो वाचो निर्द्दहो यजमानो निर्दोषो
जायत इत्यर्थः । अन्योपि यो यजमान एतया स्तुते स्तावयति सोपि
तेजस्वी भवतीति ॥ ४ ॥
वेदार्थस्य प्रकाशेन तमोहार्द्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकबुक्कभूपालसाम्राज्य-
धुरन्धरेण सायनाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे
ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य सप्तदशः खण्डः ।
द्वितीयाध्यायः समाप्तिङ्गमत् ।
तृतीयोऽध्यायः ।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
द्वितीये दशरात्रस्य चतुर्णां विष्टुतिक्रमः ।
प्रदर्शितस्तृतीयेऽथ वक्ष्यन्ते त्रिणवादयः ॥ २ ॥
त्रिणवस्य स्तोमस्य द्वे विष्टुती प्रतिष्ठिता उद्यती चेति । तत्र
प्रतिष्ठितां विष्टुतिं प्रदर्शयति—
नवभ्यो हिङ्करोति स तिसृभिः स पञ्चाभिः स ए-
कया, नवभ्यो हिङ्करोति स एकया स तिसृभिः स प-
ञ्चाभिर्नवभ्यो हिङ्करोति स पञ्चाभिः स एकया स
तिसृभिः ॥ १ ॥
सर्व्वस्य स्तोमस्य त्रयस्त्रयः पर्यायास्तत्र प्रथमपर्यायस्य या
प्रथमा सा तृचभागेत्यन्वर्थसंज्ञका अतस्तस्यास्त्रिर्वचनं कार्य्यम् । तस्यैक