ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 91, कुल 518 में से
संदर्भ में पढ़ेंद्वितीयाध्याये त्रयोदशः खण्डः । ७१
अथ त्रयोदशः खण्डः ।
सप्तदशस्यैव भस्त्राख्या परा विष्टुतिः प्रदर्श्यते--
सप्तभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स ए-
कया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स ए-
कया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृ-
भिर्भस्त्रावाचीनबिला ॥ १ ॥
प्रथमे पर्याये सप्त इतरयोः पञ्च पञ्चेति हीनसंख्ययोत्तरत्वादवा-
चीनबिलत्वादवाङ्मुखद्वारा भस्त्रा तत्साम्यात् भस्त्रा एतत्संज्ञा एषा स-
प्तदशस्तोमस्य विष्टुतिः । अत एवावाचीनबिलत्वादेवानिकृष्टा ॥ १ ॥
अस्यां विष्टुतावधिकारिणमाह-
यं द्विष्यात्तस्य कुर्याद्यथावाचीनबिलया भस्त्रया
प्रधूनुयादेवं यजमानस्य पशून् प्रधूनोत्यपक्रामन्ती वि-
ष्टुतिस्तथा यजमानस्य पशवोऽपक्रामन्ति पापीयान्
भवति य एतया स्तुते ॥ २ ॥
यं यजमानमुद्गाता द्विष्यात् तस्य यजमानस्यैतां भस्त्राख्यां विष्टु-
तिं कुर्यात् , तथासति अवाचीनबिलया भस्त्रया स्तुत्या यथा अयस्का-
रः प्रधूनुयात् प्रकम्पयेत् प्रधमयेदित्यर्थः । एवमेव एतया विष्टुत्या
यजमानस्य पशून् प्रधूनोति प्रगमयति । तथेयं विष्टुतिरपक्रामन्ती उत्त-
रोत्तरहीनसंख्यात्वेनापगच्छन्ती तथा विष्टुत्या यजमानस्य पशवोऽप-
क्रामन्ति यजमानान्निर्गच्छन्ति यो यजमान एतया स्तुते यस्यैतयोद्गा-
ता स्तौतीत्यर्थः । स यजमानः पापीयान् अन्यैरपि फलैर्विहीनो
भवति ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य त्रयोदशः खण्डः ।
अथ चतुर्दशः खण्डः ।
एकविंशस्तोमस्य चतस्रो विष्टुतयः । तत्र सप्त सप्तिन्याख्यां प्रथ-
मां विष्टुतिं दर्शयति-
सप्तभ्यो हिङ्करोति स तिसृभिस्स तिसृभिस्स एक-
या सप्तभ्यो हिङ्करोति स एकया स तिसृभिस्स तिसृ-