ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 86, कुल 518 में से
संदर्भ में पढ़ें६६ ताण्ड्यमहाब्राह्मणे
अस्यामधिकारिणमाह—
भ्रातृव्यवॉँस्तुवीत यथा सप्तास्थितेन मत्येन समी-
करोत्येवं पाप्मानं भ्रातृव्यं प्ररुजति ॥ २ ॥
भ्रातृव्यः शत्रुः तद्वान्यजमानः पतया सप्तास्थितया विष्टुत्या
स्तुवीत स्तावयेत् । यथा लोके सप्तास्थितेन सप्तभिरनडुद्भिः सप्तभि-
स्तीक्ष्णभागैः शङ्कुभिर्वा अधिष्ठितेन मत्येन मत्यन्नाम कृष्टस्य क्षेत्रस्य
समीकरणादिसाधनफलकं तेन समीकरोति समीकरणार्थं कर्षकः प्रव-
जति क्षेत्रम्, एवं पाप्मानं पापकर्षणहेतुं भ्रातृव्यं शत्रुं अनया प्रथ-
मतः सप्तसंख्यया विष्टुत्या स्तुवानः प्ररुजति प्रभुनक्ति । रुजो भङ्ग
इति धातुः ॥ २ ॥
फलसाम्यहेतुत्वेन बहुयजमानकेष्वपि प्रयोगेषु प्रयोक्तव्येत्याह—
एतामेव बहुभ्यो यजमानेभ्यः कुर्य्याद्यः प्रथमो हि-
ङ्कारः स प्रथमाया यत्ताꣳ सप्तभ्यो हिङ्करोति तेन सा
सप्त भजते यत्सप्तैव मध्ये सम्पद्यन्ते तेन सा सप्त भजते
य उत्तमो हिङ्कारः स उत्तमाया यत्ताꣳ सप्तभ्यो हिङ्क-
रोति तेन सा सप्त भजते सर्व्वानेवैनान् समाव-
द्भाजः करोति नान्योन्यमपघ्नते सर्वे समावदिन्द्रिया
भवन्ति ॥ ३ ॥
बहुयजमानार्थं एतां विष्टुतिकुर्य्यात् । तथासति तृचगतानां ति-
सृणामृचां समसंख्यात्वसम्पादनात् सर्व्वे यजमानाः समानफला भव-
न्तीति समुदायार्थः । कथं सप्तदशे तिसृणामृचां प्रत्येकं सप्तसंख्या-
योग इत्याशंक्य तत्प्रकारं सम्पत्त्या दर्शयति–यः प्रथमो हिङ्कारः स
प्रथमाया ऋचः स्थाने भवति उभयोः प्राथम्यात् तां प्रथमामुद्दिश्य स-
प्तभ्यो हिङ्करोति हिङ्कृत्य स्तौति यत् तत् तेन ऋक्स्थानीयेन हिङ्कार-
द्वयेन सहसा प्रथमपर्यायविष्टावसंनिवेशेन पञ्चधा आवर्त्यमाना
सती सा सप्तसंख्यां भजते । प्रथमपर्याये प्रथमविष्टावे तिस्रः इतर-
योस्तु पर्याययोः प्रथमविष्टावगता एकैकेति तस्याः पञ्चधा आवृत्तिः
यत्सप्तैव मध्ये सम्पद्यते त्रयाणामपि पर्यायाणां मध्यमेषु विष्टावेषु
क्रमेण तिस्र एका तिस्र इति सप्तानां संपत्तिः तेन तेनैव सा मध्यमा
सप्तसंख्यां भजते । य उत्तमस्तृतीयपर्यायगतो हिंकारः स उत्तमा-
यास्तृतीयास्थाने उभयोस्तृतीयत्वसाम्यात् यत्तामुत्तमामुद्दिश्य सप्त-