सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 87, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 87

द्वितीयाध्याये दशमखण्डः । ६७

भ्यो हिङ्करोतीति हिङ्कृत्य स्तौतीति यो द्वितीयो हिङ्कारस्सोऽपि तस्याः
स्थाने भवति यदेतत् हिङ्कारद्वयमृक्स्थानीयं यत्तेन हिंकारद्वयेन सह
पर्यायत्रये उत्तमविष्टावेषु क्रमेणैकैके तिस्रश्चेत्यावर्त्यमाना पञ्चेति सप्त-
संख्यां भजते । इयं तिसृणां सप्तसंख्यासाम्यसम्पत्तेः सर्वानैवैनान्
यजमानान्समावद्वाजः समानफलयुक्तान् करोति उद्गाता ॥ ३ ॥
एषापि केषाञ्चित्येत्याह—
तामेतामभिप्रतारिण उपासते तस्मात्त ओजि-
ष्ठा स्वानाम् ॥ ४ ॥
अभिप्रतारी नाम कश्चिद्राजर्षिस्तद्गोत्रजाः आभिप्रतारिणः ते आ-
भिप्रतारिणः तामेतां सप्तास्थितां विष्टुतिमुपासते कर्म्मसु नित्यं प्रयु-
ञ्जते । अतस्ते स्वानां ज्ञातीनां मध्ये ओजिष्ठा ओजसि स्थिता भव-
न्ति । स्वशब्दस्य ज्ञातिवचनत्वेन स्वं ज्ञातिधनाख्यायामिति सर्व्वनाम-
संज्ञां पर्युदस्य आमः सुडभावः ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य नवमः खण्डः ।


अथ दशमः खण्डः ।
सप्तदशस्तोमस्य सप्तास्थिताया विष्टुतेर्व्यूहनप्रकारान्तरमाह—
एष एव व्यूह उभयत्सप्तैकमध्या निर्मध्या ॥ १ ॥
उक्तायाः सप्तास्थिताया एष वक्ष्यमाणो व्यूहो विभागप्रकारः ।
कथमिति तदुच्यते--प्रथमोत्तमयोः पर्याययोर्विद्यमाना उभयः उभ-
यविधाः सप्तर्च एकमध्याः कार्याः स 'तिसृभिस्स तिसृभिस्स एक-
ये'ति हि प्रथमे पर्याये समाम्नाता । स एकया स तिसृभिः स तिसृ-
भिरिति हि उत्तमे । तत्रोभयोः पर्याययोः स तिसृभिः स एकया स
तिसृभिरिति मध्यमा एकैव यथा स्यात् तथा कुर्य्यादित्यर्थः । एवं-
सति तथा सति त्रिष्वपि पर्यायेषु मध्यमायाः स्तोत्रीयाया ऋच
आवृत्त्यभावादेषां निर्मध्या निर्गतमध्यस्थौल्या तनुमध्येत्यर्थः ॥ १ ॥
अस्यामधिकारिणमाह—
आनुजावर स्तुवीतालोको वा एष यदानुजावरो
यत् सप्तप्रथमास्सप्तोत्तमास्तिस्रो मध्ये त्र्यक्षरः पुरुषो