ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 94, कुल 518 में से
संदर्भ में पढ़ेंꣳशस्य विष्टुतिं उपासते नित्यं प्रयुञ्जते । तस्मात्ते सर्वे शतवर्षलक्षणं
कृत्स्नमायुर्यन्ति प्राप्नुवन्ति ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे द्वितीयाध्यायस्य पञ्चदशः खण्डः ।
अथ षोडशः खण्डः ।
अथास्यैव स्तोमस्य प्रतिष्ठुतिर्नाम तृतीया विष्टुतिः प्रदर्श्यते—
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स ति-
सृभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एक-
या, सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृ-
भिः प्रतिष्ठुतिः ॥ १ ॥
त्रिवृदादिस्तोमचतुष्टयप्रतिरूपकत्वात् अस्याः प्रतिष्ठुतिरिति
संज्ञा यौगिकी ॥ १ ॥
एतदेव दर्शयति—
नवभिस्त्रिवृतं प्रतिष्ठौति पञ्चभिः पञ्चदशꣳ सप्तभिः
सप्तदशꣳ स्वयमेकविꣳशः सम्पन्नः ॥ २ ॥
अस्या विष्टुतेः प्रथमपर्यायगताभिर्नवभिर्ऋग्भिस्त्रिवृतं स्तोमं प्र-
तिष्ठौति त्रिवृत्स्तोमेन स्तुतवान् भवतीत्यर्थः । एवमुत्तरत्रापि यो-
ज्यम् ॥ २ ॥
एतां विष्टुतिं प्रशꣳसति—
य एव स्तोमा यज्ञं वहन्ति तानुत्तमे स्तोत्रे सन्तर्पयति
यथाऽनडुहो वाह्वान्वाह्वतरान्वोहुषः सन्तर्पयेदेवमेत-
दुत्तमे स्तोत्रे स्तोमान् सन्तर्पयति तृप्यति प्रजया पशु-
भिर्य एतया स्तुते ॥ ३ ॥
य एव स्तोमास्त्रिवृत्पञ्चदशसप्तदशैकविꣳशाख्ययज्ञमाग्निष्टोमं वह-
न्ति तान् स्तोमान् सर्व्वान् तर्पयति अन्तिमे यज्ञायज्ञीयस्तोत्रे अनया
विष्टुत्या स्तुवन्नुद्गाता सन्तर्पयति उक्तक्रमेण ताननुस्मरन् संतृप्तान्
करोति । एतदेव दृष्टान्तेन समर्थयते । ऊहुषः वहेः क्सि प्रत्यये शसि
रूपमेतत् । ऊहुषः ऊढवतः ऊढभारान् अनडुहादीन् यथा संतर्पयेत्
उत्तमे स्तोत्रे स्तोमान् सन्तर्पयति यत् एवमेतत् य एतया स्तौति अयं
तर्पयतीत्यन्वयः ॥ ३ ॥