सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

अष्टमाध्याये नवमः खण्डः । ३०१
द्वा एतत्पुरा सजाताय नाक्रन् पापवसीयसो विवृत्त्यै॥७॥
उद्वंशीयमिति यदस्त्येतदुक्तरीत्या सर्वेषां पृष्ठानां तेजः खलु
तस्मादेव कारणादेतत्साम पुरा सजाताय ज्ञाताय यजमानाय नाक्रन्
नाकुर्युः। किमर्थं? पापपुण्ययोःसाङ्कर्याय यस्मादुद्वंशीयं करोति स
वसीयान् भवत्येव। अतस्तथां ज्ञातीनां भवेदिति वृद्धेरभिप्रायः॥ ७॥
अथ सजाताप्रयोगनिमित्तं प्राशस्त्यमस्य दर्शयति—
एष ह्येव पृष्ठैस्तुष्टुवानो य उद्वंशीयेन स्तुवते ॥ ८॥
उद्वंशीयस्तुतैः सर्वैः पृष्ठै रथन्तरादिभिरपि स्तुतवान् भवतीत्यर्थः ।
अतोऽस्य प्राशस्त्यम् ॥८॥
अस्य सर्व्वपृष्ठतेजोरूपत्वं प्रतिज्ञातम्, तत् कथमित्याशङ्क्य तेषां रू-
पाण्यत्र सन्तीत्याह—
सर्वाणि वै रूपाण्युद्वंᳵशीयम् ॥ ९॥
यानि रथन्तरादीनां रूपाणि सन्ति सर्वाण्येवोद्वंशीयं तेषां समु-
दायात्मकमेतदित्यर्थः ॥९॥
रथन्तररूपं तावद्दर्शयति—
गायन्ति त्वा गायत्रिण एति रथन्तरस्य रूपमेति
हि रथन्तरम् ॥ १० ॥
‘गायन्ति त्वा गायत्रिणः’ इत्याकारान्तोऽत्र प्रस्तावभाग एतद्रथ-
न्तरस्य रूपम्। तथा हि ‘आ’ इति हि रथन्तरं रथन्तरस्य योनौ
‘अभि त्वा शूर’ इत्यत्र ‘आभि त्वा’इति हि गायन्ति । अत उभयोराका-
रसादृश्यात्तद्रूपत्वम् ॥ १० ॥
बृहतो रूपमत्र दर्शयति—
आदिर्बृहत ऊर्ध्वमिव हि बृहत् ॥ ११ ॥
आदि रुद्वंशीयस्याऽद्याक्षरमुकारस्तद्बृहतो रूपम् । तथा हि-यद्-
बृहत् सामाऽस्ति तदूर्ध्वमिव उपरि वर्त्तते । ‘असौ वै लोको बृह’दिति
पूर्वमुक्तत्वात् ॥ ११ ॥
अथ वैरूपस्य रूपं दर्शयति—
परिष्टोभो वैवैरूपस्य परिष्टुभं हि वैवैर

३०२ ताण्ड्यमहाब्राह्मणे

वैराजस्य रूपं दर्शयति—
अनुतोदो ऽवैराजस्यानुतुन्नं हि ऽवैराजम् ॥ १३ ॥
अनुतोदोऽभ्यासः स चोद्वंशीये दृश्यते । तथा हि 'उद्वंशमिव
येमिरे' इत्ययं पादो द्विरभ्यस्तः । स च वैराजस्य रूपं वैराजमप्यनुतुन्नं
भवति । तथा हि वैराजं 'पिबा सोममिन्द्र' 'इत्येत' दुदनुत्वादनुत्वा इत्य-
नुतोदयुक्तं भवति ॥ १३ ॥
अथ शाक्करैवतयोः स्वरूपमत्र दर्शयति —
अर्द्धेडा शक्करीणामतिस्वारो रेवतीनाम् ॥ १४ ॥
'उव्' इति याऽर्द्धेडा दृश्यते । अध्यर्द्धेडा शक्वरीषु विद्यते तथाऽत्र
विद्यमानोऽतिस्वारो रेवतीनां रूपम् ॥ १४ ॥
अथार्द्धेडातिस्वारौ स्तौति—
अर्द्धेडया वै देवा असुरानवहत्याऽतिस्वारेण स्वर्गं
ल्लोकमारोहन् ॥ १५ ॥
पूर्वमर्द्धेडया खल्वसुरान् स्वर्गगमनविरोधिनोऽवहत्याऽतिस्वा-
रेण स्वर्गं लोकमारोहन् । अर्द्धेडाया असुरहननहेतुत्वं शास्त्रगम्य-
मेव । अतिस्वारस्य तु ऊर्ध्वारोहात्मकत्वात् स्वर्गारोहणहेतुत्वम् ॥ १५॥
उक्तार्थज्ञं प्रशंसति—
तद्य एवं वेदाऽर्द्धेडयैव भ्रातृव्यमवहत्यातिस्वारेण
स्वर्गं लोकमारोहति ॥ १६ ॥
स्पष्टोऽर्थः ॥ १६ ॥
प्रकारान्तरेण प्रशंसति—
अर्द्धेडया वै पूर्वं यज्ञꣳ संस्थापयन्त्यतिस्वारेणो-
त्तरमारभन्ते ॥ १७ ॥
'उव्' इत्य

मे" / "पङ्क्त्यादिकं मे"?
Wait, look at "पङ्क्त्यादिकामे": between 'क' and 'मे', is that an 'ा' (ā-kāra)? Yes, exactly an 'ा'.
So it is printed as "पङ्क्त्यादिकामे".

Line 11 (L11):
प्रदर्शितम्। ततश्च किमिति ? तत्राह पाङ्क्ताः पशवः पशूनां पाङ्क्तत्वं
Wait, is there a space before question mark: "किमिति ?"
Yes, "किमिति ? तत्राह पाङ्क्ताः पशवः पशूनां पाङ्क्तत्वं".

Line 12 (L12):
लोमत्वङ्मांसास्थिमज्जाख्यैः पञ्चावयवैरुपेतत्वात् । एवं सति पाङ्क्तो-

Line 13 (L13):
द्वंशीयसाम पांक्ते यज्ञे पशुषु च प्रतिष्ठितो भवति ॥ १९ ॥
Wait, in line 13: "द्वंशीयसाम" - wait, does it have an anusvara?
Yes, "द्वंशीयसाम"!
And "पांक्ते": look at "पांक्ते", is it "पांक्ते" with bindu or "पाङ्क्ते"?
It has a dot on top: "पांक्ते" (with anusvara dot, not ङ्क).
In line 12

३०४ ताण्ड्यमहाब्राह्मणे
अतः समृद्धयर्थिभिरेते प्रयोक्तव्ये इत्युपसंहरति—
ऋषे॑र्वा ए॒तत्प्राशोद्भू॑तं॒ यदा॑ष्टादं॒ष्ट्रे॑ भवत
ऋध्या एव ॥ २२ ॥
ऋषेराष्टादंष्ट्रस्य प्राशोद्भूतं प्राशया पुत्रादिलक्षणया प्रकर्षेच्छयो-
द्भूतमेतत्सामद्वयम् । अतो यत् यदि आष्टादंष्ट्रे भवतस्तर्हि ते समृद्ध्या
एव भवतः ॥ २२ ॥
इति ताण्ड्यमहाब्राह्मणे ऽष्टमाध्यायस्य नवमः खण्डः ॥
दशमः खण्डः ॥
अथ वृद्धिकामनाप्रसङ्गादस्मिन् खण्डे कामनाभेदेनोक्थानि वि-
धास्यति । तत्र प्रथमं ब्रह्मवर्चसकामायाऽऽह—
गायत्रीषु ब्रह्मवर्चसकामायोक्थानि प्रणयेयुर्गा-
यत्र्यां ब्रह्मसामाऽनुष्टुभ्यच्छावाकसाम सैषा गायत्री
सम्पद्यते ॥ १ ॥
गायत्रीषु ऋक्षूक्थानि प्रणयेयुरुपाक्रमेरन् ब्रह्मवर्चसकामाय नि-
त्यार्था एव 'एह्यासवे'त्याद्यास्तिस्रो गायत्र्यः सौभराश्रयभूताः काम्यार्था
अभिभवेयुः । तथा गायत्र्यां गायत्रीच्छन्दसि गायत्रीष्वित्यर्थः । तास्वे-
व'इह्यासि वीरसुः' इत्यादिषु सौभरं ब्रह्मसाम कार्यम् । तथा अनुष्टुप्छ-
न्दस्कासु 'इन्द्रं विश्वा अवीवृधन्' इत्याद्यासु नार्मेधमच्छावाकसाम
कार्यम् । सैषानुष्टुप् गायत्री सम्पद्यते । तत्सम्पत्तिप्रकार इत्थं द्रष्टव्यः-
उक्थान्येकविंशस्तोमानि । तत्र तिसृष्विति तिसृभिरनुष्टुब्भिश्चतस्रो
गायत्र्यो भवन्ति । एकविंशत्यनुष्टुब्भिरष्टाविंशतिर्गायत्र्यः सम्पद्यन्ते ।
शिष्टास्तु स्वत एव गायत्र्यः ॥ १ ॥
अस्त्वेवं, किं तत ? इति, तत्राऽऽह—
तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमव-
रुन्धे ॥ २ ॥
ब्रह्मवर्चसं नाम तेजोविशेषः । गायत्र्याश्चाग्नेयत्वात् गायत्र्येव ब्रह्म-
वर्चसं तेजः । अथवा गायत्रीजपाद्ब्रह्मवर्चसाभिवृद्धिः श्रुतिस्मृतिपु-
राणादिषु प्रसिद्धा । अतस्तत्प्रयोक्ता ब्रह्मवर्चसलक्षणं तेजोऽवरुन्धे ॥२॥

Here is the complete, line-by-line transcription of the text from the image:

अष्टमाध्याये दशमः खण्डः । ३०६
अथ पशुकामस्याऽऽह-
गायत्रीषु पशुकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्म-
सामाऽनुष्टुभ्यच्छावाकसाम सैषोष्णिक सम्पद्यते ॥ ३ ॥
गायत्रीषु नित्यास्वेवोक्थानि प्रणयेयुरुष्णिहि उष्णिक्छन्दस्कास्वृ-
क्षु 'तं ते मदं गृणीमसि' इत्यादिषु सौभरं ब्रह्मसाम कर्त्तव्यम् । अनुष्टुभ्य-
च्छावाकसाम । पूर्ववदेव सैषा गायत्र्यनुष्टुप्सम्पत्योष्णिग्भवति ।
सप्त गायत्र्याः षडुष्णिहो भवन्त्येव । एकविंशतिस्तोमत्वादेकविंशतिगा-
यत्रीभिराद्योक्थगाभिरष्टादशोष्णिहः सम्पद्यन्ते । अच्छावाकसाम्नि तु
सप्त सप्तानुष्टुभोऽष्टावष्टावुष्णिहो भवन्तीत्येकविंशत्यनुष्टुब्भिश्चतुर्विं-
शतिरुष्णिहः सम्पद्यन्त इत्युष्ण

नोक्थानि प्रणयेयुरूपक्रमेरन् । उष्णहि उष्णिक्छन्दस्कासु ‘तं ते मदम्’-
इत्यादिषु सौभरं ब्रह्मसाम कुर्युः। अनुष्टुभि नार्मेधमच्छावाकसाम
पूर्ववदेव सैषोष्णिगनुष्टुप् विराड् सम्पद्यते। उक्थान्येकविंशस्तोमानी-
त्युक्तम्। अत एकविंशत्युष्णिहस्तावत्य एवानुष्टुभः त्रिपदाया विरा-
जस्त्रिंशदक्षरत्वात् द्वयेनोनावुष्णिहः। अक्षरद्वयाधिकात्स्वराडनुष्टुभश्च
प्रत्येकं द्वे द्वे उष्णिगनुष्टुभौ मिलित्वा द्वे द्वे विराजौ भवत इत्येवं विरा-
ट्त्वसम्पत्तिः॥ ७॥
अस्त्वेवं किं तत ? इत्याह—
अन्नं विवराडन्नाद्यमेवा ऽवरुन्धे ॥ ८ ॥
अन्नस्य दशेन्द्रियतृप्तिहेतुत्वादन्नं विराडित्युच्यते। विराट्स्वपि
दशसंख्यासद्भावात्। तथा च मन्त्रवर्णः ‘सन्द्रामाहे दश तयस्य धासेर्द्विः
र्यत् पञ्च बिभ्रतो यत्पञ्च’ । इति यद्वा लोके अन्नसमृद्ध एव विराजति’
इत्यन्नं विराडित्युच्यते। स्पष्टमन्यत् ॥ ८॥
अथ ज्यैष्ठ्यत्वकामायोक्थान्याह—
अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुरु-
ष्णिहि ब्रह्मसामा ऽनुष्टुभ्यच्छावाकसाम सैषानुष्टुप् स-
म्पद्यते ॥ ९ ॥
अक्षरपङ्क्तिषु पञ्चाक्षरात्मकपञ्चपादोपेतासु ‘अग्ने तमद्य’ इत्यादिषु
ज्यैष्ठ्यकामाय साकमश्वेनोक्थानि प्रणयेयुरुष्णिष्वनुष्टुप्सु च सौभर-
नार्मेधौ ब्रह्माच्छावाकसामनी पूर्ववत् कर्त्तव्ये । अक्षरपङ्क्तिषूष्णिक्स-
म्पत्या ऽनुष्टुभौ कर्त्तव्ये । अत्राक्षरपङ्क्तीनामुष्णिहाश्चानुष्टुप्त्वसम्पाद-
नमित्थं ज्ञातव्यम्—अक्षरपङ्क्तिषु ‘अग्ने तमद्य’ इत्यादिष्वाद्यन्ते ‘अग्ने
तमद्य’ एभिनों अर्कैः’ इत्येते प्रत्येकं पञ्चविंशत्यक्षरे मध्यमा ‘अधा ह्यग्ने’
इत्येषा। प्रथमे पादे द्वयक्षरस्य विभज्य परिगणनायां षड्विंशत्यक्षरा भव-
ति। तथा सति कृत्स्नस्य स्तोमस्यैकविंशत्वात् स्तोत्रीयास्तिस्रो-
ऽपि प्रत्येकं सप्त सप्त भवन्ति। तत्राद्यन्तयोः स्तोत्रीययोः सप्तवारावृत्त-
योस्तु मिलित्वा पञ्चविंशत्यक्षरात्मकाश्चतुर्दशपदपङ्क्तयो भवन्ति।
तत्रा ऽद्यन्तयोः स्तोत्रीययोस्तासामक्षराणि परिगणितानि पञ्चविंशद-
धिकत्रिशतानि भवन्ति। तानि च द्वात्रिंशदक्षरेण विभक्तानि दशानु-
ष्टुभो भवन्ति। त्रिंशदक्षराणि शिष्यन्ते। तथा मध्यमायाः षड्विंशत्यक्ष-
राया ‘अधा ह्यग्न’ इत्यस्याः सप्तमध्यावृत्तायाः द्व्यशीत्यधिकशताक्षराणि
स्युः। तेषामपि द्वात्रिंशदक्षरविभागे सति पञ्चाऽनुष्टुभः स्युः। द्वाविंश-

' in 'हिङ्कारो'!
Yes! It is unambiguously printed as 'च्छन्दोभिरोवानुष्टुभमाप्नोतीत्येवमेवोक्तः'!
Wait, is there an avagraha? "च्छन्दोभिरोवाऽनुष्टुभ..."?
Between 'वा' and 'नु':
No avagraha. 'नु' follows immediately.
Wait, what about line 9:
"ज्यैष्ठ्यं वा अनुष्टुब् ज्यैष्ठ्यमेवाऽवरुन्धे ॥ १० ॥"
There is an avagraha in "ज्यैष्ठ्यमेवाऽवरुन्धे".
And in line 4: "चतुर्दशाऽनुष्टुभः".
Line 5: "चतस्रोऽनु- / ष्टुभो".
Line 21: "नवमोऽध्यायः ।"
Line 23: "वेदेभ्योऽखिलं"
Line 26: "ह्यस्मिन्नतिरात्रादिरुच्यते" - no avagraha.

Let's check line 23:
"यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।"
Wait, in line 23, is it "निःश्वसितं" or "निःश्सितं"?
"निःश्वसितं".

Let's check line 16:
"इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्ग

ईर्यन्ते। द्वितीये त एव विव्रियन्ते। तत्रादौ रात्रिपर्यायान् विधित्सुराह—
देवा वा उक्थान्यभिजित्य रात्रिं नाशक्नुवन्नभि-
जेतुं, तेऽसुरा रात्रीं तमः प्रविष्टान्नाऽन्वपश्यंस्त एत-
मनुष्टुप्शिरसं प्रगाथमपश्यन् विराजं ज्योतिः, तान्
विराजा ज्योतिषाऽन्वपश्यन्तोऽनुष्टुभा वज्रेण रात्रे-
र्निराघ्नन् ॥ १ ॥
देवाः पूर्वमसुरेभ्यः सकाशादुक्थान्यभिजित्य रात्रिं रात्रिपर्याया-
नभिजेतुं नाशक्नुवन् । ते देवास्तमस्तमोरूपां रात्रिं प्रविष्टानसुरान्नान्वव्य-
पश्यन् अनुगम्य विविच्य द्रष्टुं नाऽशक्नुवन्। ते देवा असुरदर्शनोपायत्वे-
नाऽनुष्टुप्शिरसमनुष्टुबुपक्रमगायत्रीद्वयात्मकं 'पान्तमा' इति प्रगाथम-
पश्यन् सतोबार्हताः प्रगाथा इति प्रसिद्धम्। कथं? गायत्र्याः प्र

नवमाध्यायेऽप्रथमः खण्डः। ३०९
दन्त तत्पर्यायाणां पर्यायत्वम् ॥ ३ ॥
यद्यस्मात् समन्तं रात्रेः सर्व्वतः पर्यायं यत्र यत्राऽसुराः पराभूता-
स्तिष्ठन्ति तं तं देशं परीत्य परीत्य प्राणुदन्त प्रणोदनमकुर्व्वन् । तत्प-
र्य्यायाणां पर्यायत्वं सम्पन्नम् ॥ ३ ॥
प्रगाथमपश्यन्नित्युक्तम्, तस्य प्रथमपर्यायगतस्य प्रग्रथनप्रकारमाह—
प्रथमानि पदानि पुनरादीनि भवन्ति प्रथमस्य
पर्यायस्य ॥ ४ ॥
प्रथमपर्यायस्य प्रथमानि पदानि गायत्र्योरुत्तरयोर्ऋचो प्रथमपा-
दगतानि पदानि पुनरादीनि पुनरादीयन्तेऽभ्यस्यन्त इति। पुनरादीनि
तादृशानि भवन्ति। पुन्रहतं पुरुष्टुतमिति द्विरावर्त्तयेदित्यर्थः ॥ ४॥
उक्तनियमविधिसिद्ध्यर्थं देवैः पूर्व्वमनुष्ठितमिति दर्शयति—
प्रथमैर्हि पदैः पुनरादाय प्रथमरात्रात्प्राणुदन्त ॥ ५ ॥
यतो देवाः पूर्व्वमसुरान् प्रणोदनं प्रगाथगतप्रथमपदानि पुनरादाय
प्रथमरात्रादकुर्व्वन् । अत इदानीन्तनैरप्येवं कर्त्तव्यम् ॥ ५ ॥
अथाऽस्य प्रस्तावभागमाह—
पान्तमावो अन्धस इति प्रस्तौति ॥ ६ ॥
स्पष्टम् ॥ ६ ॥
एतत्प्रशंसति—
अहर्वै पान्तमन्धो रात्रिरहैव तद्रात्रिमारभन्ते ॥ ७ ॥
अतस्तु सामान्येन स्तुतिः क्रियते। पाति रक्षत्यालोकेनेति पान्त-
महः। अन्धीकरणादन्धो रात्रिः। एवं सति पान्तमिति क्रमेण युञ्जन्ति
तत्तेनाहैव रात्रिमारभन्त उपक्रमन्ते ॥ ७ ॥
प्रगाथं विधाय तत्र साम विधत्ते—
तासु ब्वैतहव्यम् ॥ ८ ॥
कर्त्तव्यमिति शेषः ॥ ८ ॥
अथैतस्य प्रवृत्तिनिमित्तं दर्शयन्नवगतिप्रतिष्ठयोर्हेतुत्वेन प्रशंसति—
ब्वीतहव्यः श्रायसो ज्योङ्निरुद्ध एतत्सामाऽपश्य-
त्सोऽवगच्छत्प्रत्यतिष्ठदवगच्छति प्रतितिष्ठत्येतेन-
तुष्टुवानः ॥ ९ ॥
श्रायसः श्रेयसः पुत्रो वीतहव्यो नाम ऋषिः ‘देविकाशिशपादित्य-
वाहार्थसत्रश्रेयसामादिति’ श्रेयःशब्दस्यादेराकारः। ज्योक् चिरकालं

३१० ताण्ड्यमहाब्राह्मणे
निरुद्धः शत्रुभिर्निरोधं प्रापितस्तन्निर्गमनायैतत्साम दृष्टवान्। स चाने-
नाऽवगच्छदवगतोऽभूत्। अन्यत् स्पष्टम् ॥ ९ ॥
अस्य साम्नो यदोको इति निधनं तत् प्रशंसति—
तम इव वा एते प्रविशन्ति ये रात्रिमुपयन्ति यदो-
को निधनꣳ रात्रेर्मुखे भवति प्रज्ञात्यै ॥ १० ॥
ये रात्रिं रात्रिपर्यायान् उपयन्ति प्रयुञ्जत उद्गातारः, एते तम इव
प्रविशन्ति खलु रात्रौ तमःसद्भावात्। अतो रात्रेः प्रथमे पर्याये ओ-
कोनिधनप्रयोगः प्रज्ञात्यै अनुष्ठेयपदार्थज्ञानाय भवति ॥ १० ॥
कथमस्य प्रज्ञातिहेतुत्वमित्याशङ्क्य तल्लोकप्रसिद्धिबलेन समर्थयति—
यदा वै पुरुषः स्वमोक आगच्छति सर्वँ तर्हि प्रजा-
नाति सर्व्वमस्मै दिवा भवति ॥ ११ ॥
यदा कश्चित् पुरुषो दूरमध्वनि गत्वा स्वमोकः स्वकीयं सद्म पुनरा-
गच्छति प्राप्नोति स्वचित्तं सर्व्वं धनादिकं तर्हि तदा प्रजानाति। तदेवो-
च्यतेऽस्मै सर्वं दिवा भवति प्रकाशितं भवतीत्यर्थः ॥ ११ ॥
एवं सङ्ग्रहेण प्रथमपर्यायं विधायोऽथ मध्यमं पर्यायं विधातुमाह—
ते मध्यमं पर्यायमश्रयन्त तेषामौर्ध्वसद्मनेन व्वा-
चमवृञ्जत ॥ १२ ॥
ते प्रथमेन पर्यायेण पूर्वरात्रात् प्रनुन्ना असुरा मध्यमं पर्यायमश्र-
यन्त आश्रयन्। तेषां वाचमौर्ध्वसद्मनेन साम्ना अवृञ्जत अवर्जयन् ॥१२॥
उक्तार्थस्य फलमाह—
व्वाचं भ्रातृव्यस्य व्वृङ्क्ते य एवँ व्वेद ॥ १३ ॥
स्पष्टोऽर्थः ॥ १३ ॥
अत्र त्रिनिधनं विधत्ते—
त्रिनिधनं भवति ॥ १४ ॥
‘सुवृक्तिभिः, नुमादनं, भरेषु वा’ इति निधनत्रयम् ॥ १४ ॥
उक्तं निधनत्रयं माध्यन्दिनसवनसाम्येन प्रशंसति--
यथा वा अह्नो माध्यन्दिनं सवनं त्रिनिधनायतन-
मेवमेष रात्रेर्मध्यमः पर्यायस्त्रिनिधनायतनः सलो-
मत्वाय ॥ १५ ॥
अह्न एकाहसाध्यस्य ज्योतिष्टोमस्य माध्यन्दिनं सवनं यथा त्रिणि-

नवमाध्याये प्रथमः खण्डः । ३११

धनायतभं निधनत्रयसद्भावेनाऽयतनत्रयोपेतम्। माध्यन्दिनसवने यौधाजये
'पुनान' इत्यत्र 'सास' इत्येकं 'दास'इति द्वितीयं 'प्याया'इति तृतीयमि-
ति हि निधनत्रयं तत्र प्रदर्शितम् । एवमेष रात्रेर्मध्यमः पर्यायस्त्रिणिध-
नायतनः । तत्र प्रथमे त्रिणिधनत्वं सलोमत्वायाऽऽनुलोम्याय ॥ १५ ॥
अथ साम्नां स्तोत्रीयासु 'अयं त' इत्यादिषूत्तरयोरनुष्टुप्त्वाय मध्यम-
पादावृत्तिपूर्वं देवैस्तथा कृतत्वात् कर्त्तव्येति विधित्सुराह—
मध्यमानि पदानि पुनरादीनि भवन्ति मध्यमस्य
पर्यायस्य मध्यमैर्हि पदैः पुनरादायमध्यमरात्रात्प्राणु-
दन्त ॥ १६ ॥
इदं वाक्यद्वयं प्रथमपर्यायवाक्यद्वयेनैवोक्तप्रायम् ॥ १६ ॥
अथोत्तमं पर्यायमाह—
त उत्तमं पर्यायमश्रयन्त तेषां घृतश्च्युन्निधनेन
पशूनवृञ्जत पशवो वै घृतश्च्युतः ॥ १७ ॥
घृतं पयः क्षरन्तीति पशव एव घृतच्युतः । अत एतन्निधनेनासु-
राणां पशुवर्जनं युक्तम् ॥ १७ ॥
उक्तार्थवेदितुः प्रशंसा—
पशून् भ्रातृव्यस्य वृङ्क्ते य एवँ वेद ॥ १८ ॥
इदं हन्वित्यत्र माधुच्छन्दसं सामोत्तरस्मिन्विधास्यते ॥ १८ ॥
ततः स्तोत्रीयासूत्तरयोरनुष्टुप्त्वायान्त्यपादावृत्तिं देवैः कृतत्वात्क-
र्त्तव्यत्वेन विधत्ते—
उत्तमानि पदानि पुनरादीनि भवन्त्युत्तमस्य पर्या-
यस्योत्तमैर्हि पदैः पुनरादायमुत्तमरात्रात्प्राणुदन्त ॥ १९॥
स्पष्टम् । अत्र त्रिष्वपि रात्रिपर्यायेषु होतुः सामान्‍येवोक्तानि । मैत्राव-
रुणादीनि सामान्युत्तरस्मिन् खण्डे निर्देशक्रमादेवाऽवगन्तव्यानि ॥ १९ ॥
एवं पर्यायत्रयमुक्त्वा सन्धिस्तोत्रस्य विधिमुन्नयति—
तान् सन्धिनाऽभिपलायन्त ॥ २० ॥
तान् त्रिभ्यो रात्रिभागेभ्योऽपगत्याऽहोरात्रयोर्यः सन्धिरस्ति तमा-
श्रितान् सन्धिना सन्धिस्तोत्रेणाऽभिपलायन्त 'अन्तर्णीतण्यर्थोऽयं' अभि
अनुसृत्य पलायनमकारयन्त। अतो यज्ञविघातिनां सन्धेरपगमाय सन्धि-
सामेदानीन्तनैरपि कर्त्तव्यमिति विधिर्द्रष्टव्यः ॥ २० ॥

व्यतिरेकेण पर्यायं होत्रादीनि..."?
In Sāyana on PB 9.3.24:
"रात्रिपर्यायेष्वपि संधिव्यतिरेकेण पर्याये होत्रादीनि चत्वारि चत्वारि स्तोत्राणीत्येवं साम्यम्"
Wait, some editions print पर्याये, some print पर्यायं.
Wait, look at the image again:
Look at the stroke above य:
It has a curve and a dot inside it! That is literally ँ!
Wait, but is there an e-matra?
No, the curve IS the crescent of the candrabindu, or an e-matra with an anusvara?
Wait, look at line 7: य एवँ वेद - compare the candrabindu in एवँ to the mark on पर्यायँ:
In एवँ (line 7): above 'व', there is a crescent and a dot inside it.
In line 16: above 'य', there is a crescent and a dot inside it!
It is EXACTLY the same type sort: candrabindu ँ!
Wait, is there an e-matra under it? No! It's just 'य' + 'ँ'!
Wait, why would it be पर्यायँ? Because the compositor used पर्यायं and applied the sandhi rule: -म् before ह becomes nasalized (ँ)!
Yes

अथ कामनाभेदेन सन्धिस्तोत्रं विवक्षुरादौ प्रतिष्ठाकामायऽऽह—
रथन्तरं प्रतिष्ठाकामाय सन्धिं कुर्यात् ॥ २८ ॥
(१) 'एना वो अग्निम्, (२) 'प्रत्युअदर्शि' (३) इमा उ वाम्' इति प्रगाथेषु
कर्त्तव्ये नित्य एव रथन्तरेऽभिसन्धिभेदात्प्रतिष्ठासाधनत्वमपि ॥ २८ ॥
एतत्प्रशंसति—
इयं वै रथन्तरमस्यामेव प्रतितिष्ठति ॥ २९ ॥
स्पष्टम् ॥ २९ ॥
अथ बृहत्स्वर्गायऽऽह—
बृहत् स्वर्गकामाय सन्धिं कुर्यात् ॥ ३० ॥
स्पष्टम् ॥ ३० ॥
बृहत्स्वर्गयोः साम्यमाह—
स्वर्गो लोको बृहत्स्वर्ग एव लोके प्रतितिष्ठति ॥३१॥
द्यावापृथिव्योः मध्ये स्वर्गो द्वितीयः। रथन्तरबृहतोर्मध्ये बृहत् द्विती-
यमिति तस्य तत्स्थानीयत्वम् ॥ ३१ ॥
पशुकामाय वैकल्पिकसन्धिसामानि दर्शयति—
०वारवन्तीयं वा ०वामदेव्यं वा श्रुद्ध्यं वैतेषामेकं
पशुकामाय सन्धिं कुर्यात् ॥ ३२ ॥
विकल्पवाचिनो वाशब्देनैव विकल्पे सिद्धेऽपि पुनरेतेषामेकमिति
वचनं विस्पष्टार्थम् ॥ ३२ ॥
एतानि प्रशंसति—
पशवो वा एतानि सामानि पशुष्वेव प्रतितिष्ठति ॥३३॥
एतेषां प्रयोगे पशवो लभ्यन्त इत्येतान्येव पशव उच्यन्ते । अत्रार्षेय-
कल्पः प्रतिष्ठाकामाय यत् क्लृप्तं रथन्तरसन्धिसामवत् स्वर्गकामस्य
बृहत्सन्धिसाम। तेष्वेव प्रगाथेषु वारवन्तीयं वा वामदेव्यं वा श्रुद्ध्यं वै-
तेषामेकं पशुकामस्य सन्धिं कुर्यादितेष्वेव प्रगाथेष्विति ॥ ३३ ॥
अथोक्तस्य सन्धिसाम्नोऽनुवचनरूपं होतुर्विधत्ते—
आश्विनꣳ होताऽनुशꣳसति ॥ ३४ ॥
आश्विनाख्यं सन्धिस्तुतं सन्धिस्तोत्रमनु होता शंसेत् । यद्यप्यस्य
१. सा. उ. १. २. १३. १. २. सा. उ. १. २. १४. १.
३. सा. उ. १. २. १४. १,
२७ ता० ब्रा०

३१४ ताण्ड्यमहाब्राह्मणे
विधानं बह्वृचब्राह्मण एवोचितम्, तथाऽप्यस्य वक्ष्यमाणरूपप्रशंसया प-
वमानदेवत्यत्वेन स्तोत्रस्य प्रशंसा भवतीति तदर्थमत्रापि विधानम्। उत्त-
रत्र सर्वाः खलु देवताः शस्यन्त(३७.) इति वक्ष्यति । अतोऽस्य वैश्वदे-
वत्वं युक्तम् ॥ ३४ ॥
कथमाश्विनमुच्यत इति तद्विवक्षुराह—
प्रजापतिर्वा एतत्स॒हस्र॑मसृजत तद्देवेभ्यः प्रायच्छत्त-
स्मिन्न समराध्नुꣳस्ते सूर्य्यं काष्ठां कृत्वाऽऽजिमधावन् ॥ ३५ ॥
पूर्वं प्रजापतिरेतत्सहस्रं सहस्रसंवत्सरमसृजत। तत्सृष्टं देवेभ्यः प्राय-
च्छदिदं स्वीकुरुतेति। तस्मिन् शस्त्रे न समराध्नुयन् विभागं कृत्वा संसि-
द्धा अभवन्। ते क उपायः ? इति सञ्चिन्त्य सूर्य्यं काष्ठामवधिं कृत्वा
ऽऽजिमधावन्नगच्छन् ॥ ३५ ॥
इदानीमाश्विनसम्बन्धं दर्शयति—
तेषामश्विनौ प्रथमावधावतां तावन्ववदन् सह नोऽ-
स्त्विति तावब्रूतां किं ततः स्यादिति यत्कामयेथे इत्य-
ब्रुवꣳस्तावाब्रूतामस्मद्देवत्यमिदमुक्थमुच्यता इति तस्मा-
दाश्विनमुच्यते ॥ ३६ ॥
तेषां देवानां मध्ये अश्विनौ प्रथमौ सन्तावधावतामाजिम् । तौ प्रथम-
गामिनावनुगत्य देवा अवदन् । किमिति ? तच्छस्त्रं नोऽस्माकमपि सहा-
स्त्विति। एवं देवैरुक्तौ भागप्रदानेनास्माकं किं फलमिति देवानुक्तवन्तौ ।
किमपेक्षितमिति तैः प्रत्युक्ताविदमुक्थमस्मद्देवत्यमिति देवानयाचताम् ।
यस्मादेवं तस्मादिदं शस्त्रमाश्विनमुच्यते ॥ ३६ ॥
सह नोऽस्त्वित्युक्तं शस्त्रसम्बन्धं दर्शयति—
सर्वाः खलु देवताः शस्यन्ते ॥ ३७ ॥
यस्माद्देवैः प्रार्थितं तस्मादाश्विनशस्त्रे सर्वा देवताः शस्यन्ते ।
तथा हि 'अग्नि, रुषा, अश्विनौ, सूर्य्य, इन्द्रो, मित्रावरुणौ, द्यावापृथि-
व्यो, निर्ऋति, वृहस्पतिः, इत्येतेऽत्र शस्यन्ते ॥ ३७ ॥
अथाऽस्य शंसने किञ्चिन्नियमद्वयमाह—
क्षिप्रꣳ शस्यमाजिमिव ह्येते धावन्त्यासूर्य्योदेतोः
शꣳसेत्सूर्य्यं हि काष्ठामकुर्व्वत ॥ ३८ ॥
लोक आजिं धावन्तः क्षिप्रमेव धावन्ति । एत ऋत्विज आजिं धा-

नवमाध्याये द्वितीयः खण्डः । ३१५
वन्तीव यज्ञं समापयन्ति । अत एतत्तैः क्षिप्रमविलम्बेन शंसनीयम् ।
तच्च शंसनमासूर्यस्योदेतोः सूर्योदयकालपर्यन्तं कर्त्तव्यम् । शिष्टं
स्पष्टम् ॥ ३८ ॥
इति ताण्ड्यमहाब्राह्मणे नवमाध्यायस्य प्रथमः खण्डः ॥ ९-१. ॥
द्वितीयः खण्डः ॥
उक्तास्संग्रहेण रात्रिपर्यायाः पूर्वस्मिन् खण्डे । अत्र तानेव सप्रप-
ञ्चमाह,-यद्यप्य 'नुष्टुप्शिरसं प्रगाथमपश्यन्' (९.१.१०.) 'तासु वैतह-
व्य, (९. १. ८. ) मित्यादिना स्तोत्रीयसामनी अपि विहिते तथापि
मैत्रावरुणादीनां पर्यायसम्बन्धीनि सामानि न विहितानि, अतस्तदर्थं
पुनविर्हितमपि होतुस्सामाऽनूद्य प्रशंसति--
(१)'पान्तमा वो अन्धस' इति वैतहव्यमन्यक्षेत्रं वा
एते प्रयन्ति ये रात्रिमुपयन्ति यदोकोनिधनꣳ रात्रेर्मुखे
भवत्योकसोऽप्रच्यावाय ॥ १ ॥
वीतहव्येन निरोधपरिहारार्थं दृष्टत्वादस्य वैतहव्यत्वं पूर्व्व(९. १. ९.)
मुक्तम् । य ऋत्विजो रात्रिं रात्रिपर्यायानुपयन्ति एते अन्यक्षेत्रमुपगताः
खलु । प्रयोक्तॄणामग्निष्टोमे दिवैव प्रयुज्यमानत्वात् प्रकृतित्वाच्च क्षेत्रम् ।
अतिरात्रस्तु तद्विलक्षणत्वादन्यक्षेत्रमेव । यद्वा देवैरुक्थवद्रात्रावसु-
रेभ्यो जितत्वादन्यक्षेत्रत्वम् , तत्र स्वक्षेत्रवदाश्रयाभावात् । अतो रात्रे-
र्मुखे पर्याये य 'दोक' इत्येतन्निधनं भवति, ओक इति निवासनाम,
तस्याऽप्रच्युत्यै भवति ॥ १ ॥
अथ मैत्रावरुणसाम विधत्ते—
(२)'प्र व इन्द्राय मादन'मिति गौरीवितम् ॥ २ ॥
'प्र व' इति स्तोत्रीयात्रयस्य प्रतीकोपादानम् । एवमुत्तरत्र प्रतीकं द्रष्टव्यम् ॥२॥
एतत्प्रशंसति—
ब्रह्म यद्देवा व्यकुर्व्वत ततो यदत्यरिच्यत तद्गौरी-
वितमभवत् ॥ ३ ॥
पूर्वे देवा यद्ब्रह्मसाम व्यकुर्व्वत व्यभजन् । अतो विभागात् परो
योऽशोऽत्यरिच्यत तद्गौरीवितमभवत् ॥ ३ ॥
१. सा. उ. १. २. १. १. २. सा. उ, १. २. २. १.

भवति ॥ ७ ॥

Line 18:
श्रुतकक्षेण क्षत्रियेण दृष्टं श्रौतकक्षम्। अतः क्षत्रसामैतत्। तत्प्रयोगे-

Line 19:
ण क्षत्रं प्रबलं भवति ॥ ७ ॥

Line 20:
अथ मध्यमे पर्याये होतुः साम विदधाति—

Line 21:
(३)‘अयं त इन्द्र सोम’ इति दैवोदासम् ॥ ८ ॥

Line 22:
दैवोदासं दिवोदासेन दृष्टं साम ॥ ८ ॥

Line 23:
एतन्निधनद्वारा प्रशंसति—

Line 24:
अग्निष्टोमेन वै देवा इमं लोकमभ्यजयन्नन्तरिक्षमु-

Line 25:
क्थेनाऽतिरात्रेणाऽमुं, त इमं लोकं पुनरभ्यकामयन्त त इ-

Line 26:
हेत्यास्मिँल्लोके प्रत्यतिष्ठन् यदेतत्साम भवति प्र-

Line 27:
तिष्ठित्यै ॥ ९ ॥

Line 28:
पूर्वे देवा अग्निष्टोमोक्थ्यातिरात्रैः क्रमेण भूरादिलोकत्रयं

नवमाध्याये द्वितीयः खण्डः । ३१७
त एव पुनरिमं लोकमभ्यकामयन्त । ते कामयित्वा ‘इह’इति निधनप्रयो-
गसामर्थ्येन भूलोक॑ एव प्रतिष्ठिता अभवन् । स्पष्टमन्यत् ॥ ९ ॥
होतुरेव वैकल्पिकं स्तोत्रमाह—
ऊर्ध्वसद्मनमपि शर्वरीषु प्रोहन्ति ॥ १० ॥
अपि शर्वरीष्वपि गतासु प्राप्तासु, शर्वरीष्वातिरात्रेषु पर्यायोष्वि-
त्यर्थः । प्रयोगबहुत्वापेक्षया बहुवचनम् । तत्र चोर्ध्वसद्मनं साम प्रोहन्ति
कुर्युः । अत्र प्रतीकान्तरस्याऽश्रवणात् ‘अयं त इन्द्र’ इत्याद्या एवास्य
स्तोत्रीया इति बोद्धव्यम् ॥ १० ॥
एतत्प्रशंसति—
असुरा वा एषु लोकेष्वासंस्तान‍्देवा ऊर्ध्वसद्मनेनै-
भ्यो लोकेभ्यः प्राणुदन्त ॥ ११ ॥
स्पष्टोऽर्थः ॥ ११ ॥
उक्तार्थवेदनं प्रशंसति—
तद्य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आ-
यतने सत्रमास्ते ॥ १२ ॥
अत्र ‘यो वेद’ ‘आस्त’ इत्युभयत्राप्येकवचनमविवक्षितम् । ये
जानन्त्येवं ते सर्वे सत्रानुष्ठायिनो भवन्तीत्यर्थः । अत्र दैवोदासौ-
र्ध्वसद्मनयोः साम्नोः प्रयोगविषये निदानकार आह(१)‘मध्यमस्य
रात्रिपर्यायस्य होतृषामणी विचारयन्ति--दैवोदासं वा स्यादौर्ध्व-
सद्मनं वेति विकल्पो वा स्यादपि वा दैवोदासमहीने कुर्यात् पूर्वा-
ध्यायं पूर्वे यज्ञस्थाने और्ध्वसद्मनं सत्रेषूत्तराध्यायमुत्तरे यज्ञस्था-
नेऽथाप्यस्मिन् सत्रवादरूपो भवत्यौर्ध्वसद्मनमपि शर्वरीषु प्रोहन्ती’-
ति । अस्याऽयमर्थः-मध्यमस्य रात्रिपर्यायस्य सम्बन्धिनी विहिते
होतृषामणी विचारयन्ति । विचारप्रकार उच्यते--दैवोदासं वा स्या-
दौर्ध्वसद्मनं वेति विकल्पो वा स्यादिति । व्यवस्थया कल्पो विकल्पः ।
येन यजमानेन यत् पूर्वं दैवोदासमहीन इति सत्रापेक्षया यत् पूर्वं
यज्ञस्थाने ते अहीने स्यादिति । एतेनोत्तराध्यायमित्याद्यापि व्याख्यात-
म् । अथाप्यस्मिन्नित्यादेरयमर्थः,-अस्मिन्नौर्ध्वसद्मनविषये सत्रवादरूपो
भवति । प्रोहन्तीति बहुवचनेनाऽभिधानमेव । अथ वा प्रतीकोपादा-
नमिदम् । सत्रवादस्तु स्व आयतने सत्रमास्त इत्ययमपि ॥ १२ ॥
१. नि. सू. प्र. ८. खं. १.

३१८ ताण्ड्यमहाब्राह्मणे

अथ मैत्रावरुणसाम विधत्ते—
(१)‘आ तू न इन्द्र क्षुमन्त’मित्याकूपारम् ॥ १३ ॥
स्पष्टम् ॥ १३ ॥
तत् प्रशंसति—
अकूपाराऽऽङ्गिरस्यासीत्तस्या यथा गोधायास्त्वगेवं
त्वगासीत्तामेतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्य्यत्वचसमक-
रोत्तद्भाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तु-
वते स एभ्यः कामः समृध्यते ॥ १४ ॥
अकूपारानामाऽऽङ्गिरस्यासीत् । तस्या यथा गोधायास्त्वक् तथा त्व-
गासीत् । सा गोधेव दुष्टत्वचा सतीन्द्रमस्तौषीत् । स तुष्ट इन्द्रः एनामेतेन
साम्ना त्रिवारं रथच्छिद्रादिना पावयित्वा सूर्य्यत्वचसमकरोत् । तथाच
मन्त्रवर्णः ‘(२)खे रथस्य खेऽनसः खे युगस्य शतक्रतो । अपालामि-
न्द्र त्रिः पूत्व्यऽकृणोः सूर्य्यत्वचमिति’ । एव

"?
Wait, look at the letters in L26:
"स इन्द्रः कुत्समुप-"
Wait, where is the hyphen?
The hyphen is at the very edge!
Before the hyphen is 'प'? No, before the hyphen is 'मु'!
Wait, is there a 'प' at all in L26?
Look at:
कु (ku)
त्स (tsa)
म (ma)
ु (u)
Wait, is there a letter between 'म' and the hyphen?
No! Wait, look at 'म':
It is 'म', with 'ु' below it. But wait, why is it wider than normal 'म'?
Wait, is it 'मु' or 'म'?
It is 'मु-'!
Wait, but if it is 'कुत्समुप-', then where is 'प'?
Wait, could it be:
कुत्सम (kutsam)
ु (u)? No, 'u' cannot stand alone!
Wait! "कुत्सम" + "उ"... in sandhi:
कुत्सम् + उपावर्त्तत = कुत्समूपावर्त्तत!
In Samaveda, is it: "कुत्समूपावर्त्तत"?
Wait! Let's check Vedic text:
Tandya Mahabrahmana 9.2.22:
"kutsaś ca ha vai luśaś cendram vyahvayetāṁ sa indraḥ kutsam upāvartata

३२० ताण्ड्यमहाब्राह्मणे
कुत्सश्च लुशश्चोभावृषी पूर्वे यज्ञे समकालमेवेन्द्रं व्यह्वयेतां पृथक्पृ-
थगाहूतवन्तौ । तयोर्मध्ये स इन्द्रः कुत्सं प्रत्येवाऽपागच्छत् । न पुनर्लुशम्।
यज्ञगमनशङ्कया शतसङ्ख्याभिर्वाध्रीभिश्चर्ममयीभीरज्जुभिराण्डयोर्-
बध्नात्। तमिन्द्रं लुश आगत्यैवमवादीत्-'हे इन्द्र प्रमुच्यस्वाऽऽत्मानं कुतस्-
सकाशात्? तदुच्यते-कुत्सात्परि परीति पञ्चम्यर्थानुवादी।कुत्ससकाशा-
न्मुक्तस्त्वमिहास्मिन्यज्ञ आगह्यागच्छ । किमु त्वावान् त्वत्सदृशः आण्ड-
योर्मुष्कयोर्बद्धः सन् आसातै आसीत् । अतो महानुभावस्य तव मुष्कब-
न्धनमनुचितम्। अतो मुञ्चस्वेत्यर्थः। अस्य पूर्वार्द्धे 'अव्रजं हित्वा' इत्या-
दिकोऽप्रयोजनत्वादत्र न पठितः । एवमुक्त इन्द्रस्ता वाध्रीः संच्छिद्य
प्राद्रवत् प्रकर्षेण शीघ्रं लुशमगच्छत् । स तु कुत्स एतत्सामोपश्यत् । तेन
साम्नैनमिन्द्रमन्ववदत् स्तुतवानित्यर्थः । स स्तुतः कुत्समुपावर्त्तत ।
अत एतदिन्द्रस्य प्रियतममिति स्तुतिः ॥ २२ ॥
अस्त्वेवम्, किं ततः? इत्याह—
यदेतत्साम भवति सेन्द्रत्वाय ॥ २३ ॥
स्पष्टम् ॥ २३ ॥
इति ताण्ड्यमहाब्राह्मणे नवमाध्यायस्य
द्वितीयः खण्डः ॥ ९-२ ॥
तृतीयः खण्डः ॥
एवमुक्तो ज्योतिष्टोमः सर्वप्रकृतिभूतः । स च यद्यपि चतुःसंस्थः
तथापि (१)न वै षोडशी नाम यज्ञोऽस्ती'त्यादि श्रुतिः षोडश्यपृथक्त्वादत्र
ब्राह्मणेऽग्निष्टोमादिसंस्थात्रयात्मक एवोक्तः। अथाऽवशिष्टेनाऽध्यायशेषे-
ण सोमविषयं प्रायश्चित्तमुच्यते । तत्रादौ साम्युत्थाने प्रायश्चित्तमाह—
यदि सत्राय दीक्षेरन्नथ साम्युत्तिष्ठेत्सोममपभज्य
(२)विश्वजिताऽतिरात्रेण यजेत सर्व्ववेदसेन सर्व्वस्मा
एव दीक्षते सर्व्वमाप्नोति ॥ १ ॥
यदि सत्राय तदनुष्ठातारो बहवो यजमानाः सह दीक्षेरन्, तेषु
कश्चित् साम्यर्द्धमनुष्ठायोत्त्तिष्ठेदसमाप्यैव केन चिद्व्याध्यादिना निमि-
१. तै. सं. ६. ६. ११. २. अयमेकाहकाण्डपठितात् भिन्नो विश्वजित् ।