ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 337, कुल 518 में से
संदर्भ में पढ़ेंनवमाध्याये द्वितीयः खण्डः । ३१७
त एव पुनरिमं लोकमभ्यकामयन्त । ते कामयित्वा ‘इह’इति निधनप्रयो-
गसामर्थ्येन भूलोक॑ एव प्रतिष्ठिता अभवन् । स्पष्टमन्यत् ॥ ९ ॥
होतुरेव वैकल्पिकं स्तोत्रमाह—
ऊर्ध्वसद्मनमपि शर्वरीषु प्रोहन्ति ॥ १० ॥
अपि शर्वरीष्वपि गतासु प्राप्तासु, शर्वरीष्वातिरात्रेषु पर्यायोष्वि-
त्यर्थः । प्रयोगबहुत्वापेक्षया बहुवचनम् । तत्र चोर्ध्वसद्मनं साम प्रोहन्ति
कुर्युः । अत्र प्रतीकान्तरस्याऽश्रवणात् ‘अयं त इन्द्र’ इत्याद्या एवास्य
स्तोत्रीया इति बोद्धव्यम् ॥ १० ॥
एतत्प्रशंसति—
असुरा वा एषु लोकेष्वासंस्तान्देवा ऊर्ध्वसद्मनेनै-
भ्यो लोकेभ्यः प्राणुदन्त ॥ ११ ॥
स्पष्टोऽर्थः ॥ ११ ॥
उक्तार्थवेदनं प्रशंसति—
तद्य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आ-
यतने सत्रमास्ते ॥ १२ ॥
अत्र ‘यो वेद’ ‘आस्त’ इत्युभयत्राप्येकवचनमविवक्षितम् । ये
जानन्त्येवं ते सर्वे सत्रानुष्ठायिनो भवन्तीत्यर्थः । अत्र दैवोदासौ-
र्ध्वसद्मनयोः साम्नोः प्रयोगविषये निदानकार आह(१)‘मध्यमस्य
रात्रिपर्यायस्य होतृषामणी विचारयन्ति--दैवोदासं वा स्यादौर्ध्व-
सद्मनं वेति विकल्पो वा स्यादपि वा दैवोदासमहीने कुर्यात् पूर्वा-
ध्यायं पूर्वे यज्ञस्थाने और्ध्वसद्मनं सत्रेषूत्तराध्यायमुत्तरे यज्ञस्था-
नेऽथाप्यस्मिन् सत्रवादरूपो भवत्यौर्ध्वसद्मनमपि शर्वरीषु प्रोहन्ती’-
ति । अस्याऽयमर्थः-मध्यमस्य रात्रिपर्यायस्य सम्बन्धिनी विहिते
होतृषामणी विचारयन्ति । विचारप्रकार उच्यते--दैवोदासं वा स्या-
दौर्ध्वसद्मनं वेति विकल्पो वा स्यादिति । व्यवस्थया कल्पो विकल्पः ।
येन यजमानेन यत् पूर्वं दैवोदासमहीन इति सत्रापेक्षया यत् पूर्वं
यज्ञस्थाने ते अहीने स्यादिति । एतेनोत्तराध्यायमित्याद्यापि व्याख्यात-
म् । अथाप्यस्मिन्नित्यादेरयमर्थः,-अस्मिन्नौर्ध्वसद्मनविषये सत्रवादरूपो
भवति । प्रोहन्तीति बहुवचनेनाऽभिधानमेव । अथ वा प्रतीकोपादा-
नमिदम् । सत्रवादस्तु स्व आयतने सत्रमास्त इत्ययमपि ॥ १२ ॥
१. नि. सू. प्र. ८. खं. १.