सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 326, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 326

नोक्थानि प्रणयेयुरूपक्रमेरन् । उष्णहि उष्णिक्छन्दस्कासु ‘तं ते मदम्’-
इत्यादिषु सौभरं ब्रह्मसाम कुर्युः। अनुष्टुभि नार्मेधमच्छावाकसाम
पूर्ववदेव सैषोष्णिगनुष्टुप् विराड् सम्पद्यते। उक्थान्येकविंशस्तोमानी-
त्युक्तम्। अत एकविंशत्युष्णिहस्तावत्य एवानुष्टुभः त्रिपदाया विरा-
जस्त्रिंशदक्षरत्वात् द्वयेनोनावुष्णिहः। अक्षरद्वयाधिकात्स्वराडनुष्टुभश्च
प्रत्येकं द्वे द्वे उष्णिगनुष्टुभौ मिलित्वा द्वे द्वे विराजौ भवत इत्येवं विरा-
ट्त्वसम्पत्तिः॥ ७॥
अस्त्वेवं किं तत ? इत्याह—
अन्नं विवराडन्नाद्यमेवा ऽवरुन्धे ॥ ८ ॥
अन्नस्य दशेन्द्रियतृप्तिहेतुत्वादन्नं विराडित्युच्यते। विराट्स्वपि
दशसंख्यासद्भावात्। तथा च मन्त्रवर्णः ‘सन्द्रामाहे दश तयस्य धासेर्द्विः
र्यत् पञ्च बिभ्रतो यत्पञ्च’ । इति यद्वा लोके अन्नसमृद्ध एव विराजति’
इत्यन्नं विराडित्युच्यते। स्पष्टमन्यत् ॥ ८॥
अथ ज्यैष्ठ्यत्वकामायोक्थान्याह—
अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुरु-
ष्णिहि ब्रह्मसामा ऽनुष्टुभ्यच्छावाकसाम सैषानुष्टुप् स-
म्पद्यते ॥ ९ ॥
अक्षरपङ्क्तिषु पञ्चाक्षरात्मकपञ्चपादोपेतासु ‘अग्ने तमद्य’ इत्यादिषु
ज्यैष्ठ्यकामाय साकमश्वेनोक्थानि प्रणयेयुरुष्णिष्वनुष्टुप्सु च सौभर-
नार्मेधौ ब्रह्माच्छावाकसामनी पूर्ववत् कर्त्तव्ये । अक्षरपङ्क्तिषूष्णिक्स-
म्पत्या ऽनुष्टुभौ कर्त्तव्ये । अत्राक्षरपङ्क्तीनामुष्णिहाश्चानुष्टुप्त्वसम्पाद-
नमित्थं ज्ञातव्यम्—अक्षरपङ्क्तिषु ‘अग्ने तमद्य’ इत्यादिष्वाद्यन्ते ‘अग्ने
तमद्य’ एभिनों अर्कैः’ इत्येते प्रत्येकं पञ्चविंशत्यक्षरे मध्यमा ‘अधा ह्यग्ने’
इत्येषा। प्रथमे पादे द्वयक्षरस्य विभज्य परिगणनायां षड्विंशत्यक्षरा भव-
ति। तथा सति कृत्स्नस्य स्तोमस्यैकविंशत्वात् स्तोत्रीयास्तिस्रो-
ऽपि प्रत्येकं सप्त सप्त भवन्ति। तत्राद्यन्तयोः स्तोत्रीययोः सप्तवारावृत्त-
योस्तु मिलित्वा पञ्चविंशत्यक्षरात्मकाश्चतुर्दशपदपङ्क्तयो भवन्ति।
तत्रा ऽद्यन्तयोः स्तोत्रीययोस्तासामक्षराणि परिगणितानि पञ्चविंशद-
धिकत्रिशतानि भवन्ति। तानि च द्वात्रिंशदक्षरेण विभक्तानि दशानु-
ष्टुभो भवन्ति। त्रिंशदक्षराणि शिष्यन्ते। तथा मध्यमायाः षड्विंशत्यक्ष-
राया ‘अधा ह्यग्न’ इत्यस्याः सप्तमध्यावृत्तायाः द्व्यशीत्यधिकशताक्षराणि
स्युः। तेषामपि द्वात्रिंशदक्षरविभागे सति पञ्चाऽनुष्टुभः स्युः। द्वाविंश-