ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 322, कुल 518 में से
संदर्भ में पढ़ें३०२ ताण्ड्यमहाब्राह्मणे
वैराजस्य रूपं दर्शयति—
अनुतोदो ऽवैराजस्यानुतुन्नं हि ऽवैराजम् ॥ १३ ॥
अनुतोदोऽभ्यासः स चोद्वंशीये दृश्यते । तथा हि 'उद्वंशमिव
येमिरे' इत्ययं पादो द्विरभ्यस्तः । स च वैराजस्य रूपं वैराजमप्यनुतुन्नं
भवति । तथा हि वैराजं 'पिबा सोममिन्द्र' 'इत्येत' दुदनुत्वादनुत्वा इत्य-
नुतोदयुक्तं भवति ॥ १३ ॥
अथ शाक्करैवतयोः स्वरूपमत्र दर्शयति —
अर्द्धेडा शक्करीणामतिस्वारो रेवतीनाम् ॥ १४ ॥
'उव्' इति याऽर्द्धेडा दृश्यते । अध्यर्द्धेडा शक्वरीषु विद्यते तथाऽत्र
विद्यमानोऽतिस्वारो रेवतीनां रूपम् ॥ १४ ॥
अथार्द्धेडातिस्वारौ स्तौति—
अर्द्धेडया वै देवा असुरानवहत्याऽतिस्वारेण स्वर्गं
ल्लोकमारोहन् ॥ १५ ॥
पूर्वमर्द्धेडया खल्वसुरान् स्वर्गगमनविरोधिनोऽवहत्याऽतिस्वा-
रेण स्वर्गं लोकमारोहन् । अर्द्धेडाया असुरहननहेतुत्वं शास्त्रगम्य-
मेव । अतिस्वारस्य तु ऊर्ध्वारोहात्मकत्वात् स्वर्गारोहणहेतुत्वम् ॥ १५॥
उक्तार्थज्ञं प्रशंसति—
तद्य एवं वेदाऽर्द्धेडयैव भ्रातृव्यमवहत्यातिस्वारेण
स्वर्गं लोकमारोहति ॥ १६ ॥
स्पष्टोऽर्थः ॥ १६ ॥
प्रकारान्तरेण प्रशंसति—
अर्द्धेडया वै पूर्वं यज्ञꣳ संस्थापयन्त्यतिस्वारेणो-
त्तरमारभन्ते ॥ १७ ॥
'उव्' इत्य