सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पूर्वं ‘मुखत एव त्रिवृतमसृजत तं गायत्रीच्छन्दोऽन्वसृज्यते’त्यादिना
च्छन्दश्चतुष्टयस्य सृष्टिरुक्ता तत्रादितस्त्रयाणामेव सवनत्रयसम्बन्धो
दृश्यते कथन्तुरीयस्य तत्सम्बन्ध इति ब्रह्मवादिनः शङ्कामुपक्षिपन्ति—
यद्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनꣳ
सवनञ्जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दोऽनुष्टु-
बिति ॥ ११ ॥
यद्यदि तु इदानीमिति वक्ष्यमाणप्रकारेणाहुर्ब्रह्मवादिनः तेषामुक्ति-
प्रकारमाह—गायत्रं गायत्र्या सम्बद्धं प्रातःसवनं, प्रातःसवने गायत्र्या
सम्बन्धो दृश्यत इत्यर्थः । एवमुत्तरयोरपि योज्यम् । तर्हि एवं सति तुरी-
यञ्चतुर्थमनुष्टुप् छन्दः क कुतः सवनं सम्बध्यत इत्येवं यद्याहुरिति
समन्वयः । तदा वक्ष्यमाणमुत्तरं ब्रूयादिति शेषः ॥ ११ ॥
अनुष्टुप्सम्बन्धः किमर्थं पृच्छ्यत इति तत्राह—
छन्दसां वा अन्ववल्गुप्तिं यजमानोऽन्ववलुप्यते ॥ १२॥
छन्दसां गायत्र्यादीनां चतुर्णाम्मध्ये यस्यापि छन्दसोऽवलुप्तिं
नाशमनु यजमानोऽप्यनुक्रमेणानुलुप्यते नश्यति । अत उक्तः प्रश्नो
युक्त इत्यर्थः ॥ १२ ॥
अथ तस्योत्तरमाह—
अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा
त्रिष्टुब् द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभमा-
प्नोति यजमानस्यानावलोपाय ॥ १३ ॥
गायत्र्याः पादस्य स्वतोऽष्टावक्षराणि हिङ्कारो बहिष्पवमानस्याद्यो-
ऽक्षरः तेन सह नव सम्पद्यन्ते । माध्यन्दिनस्य पवमानस्यान्त्यायां त्रि-
ष्टुभि एकादशाक्षराणि । आर्भवपवमानस्यान्त्यायां जगत्यां द्वादशाक्ष-
राणि सहिङ्कारच्छन्दस्त्रयगताक्षराणि मिलित्वा द्वात्रिंशतिः सम्पद्यते ।
अनुष्टुबपि द्वात्रिंशदक्षरा तथा सति त्रिभिरेव छन्दोभिः सहिङ्कारैरनु-
ष्टुभमाप्नोति स्तोताऽसावनुष्टुप् स्वावयवैस्त्रिभिः सहिङ्कारैः अष्टाक्षरा-
दिरूपैश्छन्दस्त्रयं व्याप्य तद्वारा सवनत्रयमथाप्नोतीत्युक्तं भवति । असा-
वाप्तिर्यजमानस्थानवलोपायाविनाशाय भवति एवन्तुरीयस्य छन्दसः
सवनत्रयसम्बन्धन्तूत्तरं ब्रूयुरित्यभिप्रायः ॥ १३ ॥
उक्तार्थविज्ञानं सङ्कोचविस्तराभ्यां प्रशंसति—
यो वा अनुष्टुभꣳ सर्व्वत्रापिꣳ सवनान्यन्वायत्तां

१८६ ताण्ड्यमहाब्राह्मणे
व्वेद॑ स॒र्व्वत्रा॒प्त्यापि॑ र्भ॑वत्ये॒षा वा॒ अनु॒ष्टुप् स॒र्व्वत्रा॑पिः
सवनान्यन्वायत्ता तद्य॒ एव॒ं व्वेद॑ स॒र्व्वत्रा॒प्त्यापि॑ र्भ-
वति ॥ १४ ॥
योवा यः कश्चिदपि पुरुषः अनुष्टुभं सर्व्वत्रापिं सर्वत्र यज्ञे आप्तिर्व्याप्तिः
तां वेद जानाति । कथन्तस्या व्याप्तिरिति तामाह—सवनानि त्रीण्यपि
अनुक्रमेणायत्तां गायत्र्याद्यक्षरद्वारेण संख्याप्राप्तां वेद अस्य वेदितुः
सर्वत्र आप्तिर्व्यापनं अप्रतिहतसञ्चारो भवति । का सा अनुष्टुप् एषा
वै छन्दोऽक्षरसमाहारसिद्धा खल्वनुष्टुप् उक्तलक्षणोपेता । तद्य एवमि-
त्यादेरुपसंहारार्थत्वादपुनरुक्तिः ॥ १४ ॥
अथ पूर्वविहितं स्तोमचतुष्टयं यज्ञनिर्वाहकत्वेन प्रशंसति—
यद्वै राजा॑नोऽध्वानं॑ धावय॒न्ति येऽश्वा॑ना ँ॑वीर्य्य॑व-
त्तमास्तान् यु॒ञ्जते॑ त्रि॒वृतप॑ञ्चद॒शः स॑प्तद॒श ए॑कविं॒श ए॒ते
वै स्तोमा॑ना ँ॑वीर्य्य॑वत्तमास्ताने॒व यु॑ङ्क्ते स्व॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै ॥ १५ ॥
यद्वै यदा वा खलु राजानः संग्रामकर्त्तारः अध्वानं आजिमार्गं धाव-
यन्ति गमयन्ति रथान् तदा ते ये अश्वानाम्मध्ये वीर्य्यवत्तमा अतिश-
येन वीर्य्योपेता अश्वाः सन्ति तान् युञ्जते योजयन्ति रथेषु । अयं दृष्टा-
न्तः । एवमुद्गाता स्तोमानाम्मध्ये त्रिवृदादयोऽतिशयेन वीर्य्यवत्तमाः
अतस्तानेव युङ्क्ते स्वर्गप्राप्तिसाधने यज्ञे । तत्तेषां योजनं स्वर्गस्य लोकस्य
समष्ट्यै सम्यक् प्राप्तये सम्पद्यते ॥ १५ ॥
एवं प्रशस्य स्तोमचतुष्टयमग्निष्टोमस्य प्रतिष्ठासाधनविधत्ते—
चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्याै ॥१६॥
अग्निष्टोमश्चतुष्टोमो भवति विहितत्रिवृदादिस्तोमचतुष्टयं निर्वर्त्य
कर्त्तव्यः। स चतुष्टोमः प्रतिष्ठा वै प्रतिष्ठारूपः खलु यथा पादचतुष्टयोपे-
तोऽश्वादिः प्रतिष्ठितो भवति तद्वदयमपीति भावः। सा चतुष्टोमक्लृप्तिः
प्रतिष्ठित्त्यै यजमानस्य स्थैर्याय भवति ॥ १६ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य तृतीयः खण्डः ॥ ६ ॥ ३ ॥
अथ चतुर्थः खण्डः ।
अथोद्गातृव्यापारात्मकं प्रथमं कर्म ज्ञापनार्थमौदुम्बर्य्युच्छ्रय णन्त-

Wait, what does Sayana write here?
"इति समुद्रः सन् तस्य हृदये" or "इति समुद्रः सन्, तस्य"?
Wait, is it "समुद्रः सन्"? In Sanskrit, "समुद्रः सन्" = "being the samudra".
Wait, look at the letters in line 29:
समुद्रः सन् तस्य - wait, the letter after स has a vertical line, a horizontal line, and two dots.
Wait, is it स + न्? Look at न् in गच्छतो वा यज्ञस्य सदने स्थाने सादया- (line 26-27).
Wait, look at स in line 29:
It is स then a letter, wait, is it स न् ः?
Wait, no, look at the two dots: they are aligned vertically, like a visarga: :.
Is it सद्ः? No word सद्ः exists.
Wait, could it be समुद्रः सन्:? No, why visarga after सन्?
Wait! Could it be समुद्रः सन् where the two dots are just colon or broken danda?
Wait, look at line 13: जपे'न्नमः समुद्राये'ति ॥ १ ॥
Look at line 29: समुद्रः सन् - wait, could it be समुद्रः सन् तस्य

१८८ । ताण्ड्यमहाब्राह्मणे ।

मन्त्रगतमायुःशब्दं व्याचष्टे—
यज्ञो वा आयुस्तस्य तत्सदनं क्रियते ॥ ४ ॥
य आयुः स यज्ञो वै । अत्रायुःशब्देन यज्ञोऽभिधीयत इत्यर्थः । अस्य
व्युत्पत्तिर्म्मन्त्रव्याख्यानावसरे प्रदर्शिता। तत्तेन मन्त्रेण आयुःशब्दप्रयो-
गेण तस्य यज्ञस्यैव सदनं क्रियते ॥ ४ ॥
अथावतश्छायायामिति मन्त्रभागं व्याचष्टे—
यज्ञो वा अवति तस्य सा च्छाया क्रियते ॥ ५ ॥
योऽयं यज्ञः स खलु अवति रक्षति यजमानमतोऽवनात् यज्ञस्यैव
च्छाया कृता भवति ॥ ५ ॥
समुद्रस्येति भागस्य सदोरूपतां दर्शयति—
मध्यतो वा आत्मनो हृदयन्तस्मान्मध्ये सदस औदु-
म्बरी मीयते ॥ ६ ॥
आत्मनो यजमानस्य हृदयम्मध्यतो वै मध्ये खलु तस्मात्तदानुरू-
प्याय सदसो मध्यदेशे औदुम्बरी मीयते प्रक्षिप्यते । मन्त्रेसमुद्रशब्दा-
भिधेयस्य ब्राह्मणे सदःशब्देन व्यवहारात्तस्य सदश एवार्थो विवक्षित
इत्युक्तं भवति ॥ ६ ॥
अथौदुम्बर्य्यनुमन्त्रणे योऽयं मन्त्रः ‘नमः समुद्राय नमः समुद्रस्य
चक्षुषे मामा यूनर्व्वाहासीदूर्ग्गस्यूर्जोदा ऊर्ज्जम्मे देह्यूर्ज्जम्मे धेह्यन्नम्मे
देह्यन्नम्मे धेही’त्यादि मन्त्रोऽस्ति तत्र नमः समुद्रायेति वाक्यद्वयं व्याचष्टे-
“नमः समुद्राय नमः समुद्रस्य चक्षुष” इत्याह व्वाग्वै
समुद्रो मनः समुद्रस्य चक्षुस्ताभ्यामेव तन्नमस्करोति ॥७॥
वाचो निरवधिकत्वात्समुद्र इत्युच्यते, वाग्रूपसमुद्रस्य मनसः पूर्व्व-
रूपत्वात् समुद्रचक्षुरित्यनेन मन उच्यते। ‘मनः पूर्वरूपं वागुत्तररूप’-
मिति हि श्रुतिः कौषीतकिनः, तत्तथा सत्यमुं भागं पठन्नुद्गाता वाचो
मनसश्च नमस्कारं कृतवान् भवति ॥ ७ ॥
मामा यूनर्व्वैत्यमुं भागं व्याचष्टे—
“मामा यूनर्व्वाहासीदि”त्याह साम वै यूनर्वा सा-
म्न एव तन्नमस्करोत्यार्त्विज्यं करिष्यन् ॥ ८ ॥
यूनर्वा यूनर्व्वर्चः पुरुषं यूनक्ति प्राप्नोतीति यूनर्वा साम वै तत्-
था सत्येतत् पाठेन साम्न एव नमस्करोति ॥ ८ ॥
आर्त्विज्यं करिष्यन्नुद्गाता एतदेव विवृणोति—
“यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति

षष्ठाध्याये चतुर्थः खण्डः । १८९
न साम्नो हीयते नैनꣳ सामापहते ॥ ९ ॥
यः पुमान् एवमुक्तरीत्या साम्ने नमस्कृत्य साम्ना सामगाननिमि-
त्तेनार्त्विज्यं करोति स साम्नः सकाशान्न हीयते न वियुक्तो भवति। एन-
मुद्गातारं साम न अपहते न परित्यजति सामाप्यनेन न दुष्टं भवति।
तच्चैवं परार्थे प्रयुक्तवानिति न हिनस्तीत्यर्थः ॥ ९ ॥
न केवलमस्य सामकृतबाधाभावः किन्तु अन्यदीयानिन्दापि न प्राप्नो-
तीत्याह—
य एनमनुव्याहरति स आर्त्तिमार्च्छति ॥ १० ॥
योऽन्यः पुमानेनमुक्तप्रकारेणार्त्विज्यकारिणमनुव्याहरति अधि-
क्षिपति स एवार्त्तिमधिक्षेपप्रयुक्तामार्च्छति सर्वतः प्राप्नोति ॥ ११ ॥
अथोर्गसीत्यादि मन्त्रभागमुपादाय तत्तात्पर्य्यमाह—
"ऊर्गस्यूर्जोदा ऊर्जं मे देह्यूर्जं मे धेह्यन्नं मे देह्यन्नं
मे धेहि" प्रजापतेर्व्वा एतदुदरं यत्सद् ऊर्गुदुम्बरो यदौ-
दुम्बरी मध्ये सदसो मीयते मध्यत एव तत्प्रजाभ्योऽ-
न्नमूर्जन्दधाति ॥ ११ ॥
मन्त्रभागस्यायमर्थः, हे उदुम्बरि त्वम् ऊर्गसि अन्नमसि देवानाम्-
हविर्भागे उत्पन्नत्वादत ऊर्जोदा अन्नस्य दात्री भवसि, ऊर्जम्मे मह्यं
देहि, तथाच मे मयि ऊर्जन्धेहि स्थापय। मे इति 'सुपांसुलुग्'त्यादिना
सप्तम्याः शेभावे रूपसिद्धिः। उक्तएवार्थः। अन्नम्मे देहीति शब्दान्तरेणो-
क्त–सद इति। यत एतत् प्रजापतेः उदरं खलु उदुम्बर इति यत्तत् ऊर्ग्
अन्नमेवात एव मध्यदेश उदर एव प्रजननात् अन्नसिद्ध्यर्थमन्नम् ऊर्जं द-
धाति स्थापितवान् भवतीत्यर्थः। तथा सति यदौदुम्बरी सदसो मध्ये
मीयते तत् मध्ये ऊर्ग्स्थापनमेव प्रजानां जीवनाय तेषामुदरे अन्नं
स्थापितं भवतीत्यर्थः। अन्नमित्यूर्जमित्यस्य व्याख्यानम् ॥ ११ ॥
एतदेव व्यतिरेके दोषप्रदर्शनेन द्रढयति—
तस्माद्यत्रैषा यातयामा क्रियते तत् प्रजा अशना-
यवो भवन्ति ॥ १२ ॥
तस्मान्मन्त्रेण स्थापनादन्नं दधाति। यस्मादेवमतः। यत्रैषा औदु-
म्बरी यातयामा मन्त्रराहित्येन गतरसा सती क्रियते तत्तत्र देशे प्रजा
अशनायवः क्षुधिता भवन्ति। यस्मादेवं तस्मान्मन्त्रेण स्थापनादन्नं द-
धातीति सम्बन्धः ॥ १२ ॥

१९० ताण्ड्यमहाब्राह्मणे
मध्यतोऽन्नं दधातीत्युक्तं किं तन्मध्यमत्र विवक्षितं कथं वा तत्रा-
न्ननिधाने प्रजानां तृप्तिर्भवतीति तत्राह—
साम दे॒वानामन्न॑ꣳ साम्न्ये॒व तद्दे॒वेभ्यो॒ऽन्न॒मूर्ज्जन्द॑-
धाति॒ स ए॒व तदूर्जिꣳ श्रितः प्र॒जाभ्य॒ ऊर्जं॒ विभ॑जति॥१३॥
तस्य सामोपजीवनं प्रायच्छदिति, सामविधाने उक्तत्वादन्नवत्
प्रीतिकरत्वाद्वा देवानामन्रं साम तत्तथा सति साम्न्येव देवानामन्रभूते
सामनि ऊर्जमन्नन्दधाति किमर्थं ? देवेभ्यः देवांस्तर्पयितुम् । स इति श्रित
इति च लिङ्गव्यत्ययः । तत्तथा स एव तदेव देवानामन्रभूतम् ऊर्जि अन्ने
श्रितं साम प्रजाभ्य एषामर्थाय ऊर्जं विभजति प्रयच्छति ॥ १३ ॥
अथौदुम्बरिप्रसङ्गात् उद्गात्रादी

प्रपाठक ११-१५ (दशरात्र एवं संवत्सर सत्र निरूपण)

षष्ठाध्याये पञ्चमः खण्डः । १९१
दिशामभिष्ट्यै दिशामभिप्रीतया इति ब्रूयादित्यस्मात् सर्वासु दिक्ष्वन्नं
विद्यते सर्वा ह्यभीष्टाः प्रीता इति सर्वासु दिक्षु पूर्वरीत्या आर्त्वि-
ज्यकरणन्दिशामभीष्ट्यै तिसृणामपि दिशामभितो यागाय पूजनाया-
भिप्राप्तये वा भवति तथा दिशां सर्वासामभिप्रीतये अभिप्रीणनाय
भवति एकाामपि दिशमनतिहाय सम्भावनायेत्यर्थः । एवमुत्तरं ब्रूयात्,
यस्मादेवं तस्मात् सर्वासु दिक्षु अन्नं विद्यते लभ्यत इत्यर्थः । उक्तार्थ-
स्थैयोपपादनं सर्वा हीति । यस्मात् सर्वा अपि दिशः अभीष्टाश्च
प्रीताश्च तस्मात्सर्वासु दिक्षु अन्नं विद्यत इति युक्तम् ॥ १५ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथ समन्त्रकं द्रोणकलशस्य प्रोहणं विवक्षुस्तस्योत्पत्तिमाह-
प्रजापतिरकामयत बहु स्यां प्रजायेयेति सोऽशो-
चत्तस्य शोचत आदित्यो मूर्ध्नोऽसृज्यत सोऽस्य मूर्द्धा-
नमुदहन् स द्रोणकलशोऽभवत्तस्मिन् देवाः शुक्रमगृह्णत
तां वै स आयुषाऽर्त्तिमत्यजीवत् ॥ १ ॥
प्रजापतिरकामयतेत्युक्तार्थम्। तस्य शोचतः आदित्यो मूर्ध्नोऽसृ-
ज्यत सृष्टोऽभूत् । स सृष्ट आदित्यः तस्य प्रजापतेर्मूर्द्धानं मस्तकप्रदेशं
स्वोत्पत्त्यर्थं उदहन् ऊर्द्ध्वे घातितवान् । स भिन्नो मूर्द्धा द्रोणकलशोऽभ-
वत् । तस्मिन् कलशे देवाः शुक्रं शुक्लं दीप्तं सोमरसं प्रत्यगृह्णत गृहीत-
वन्तः । स प्रजापतिः । आयुषा शिरोभङ्गात् क्षीणेनायुष्येण या आर्त्तिर-
भूत् तामार्त्तिमत्यजीवत् अतिक्रम्य चिरकालं जीवितवान् स्वशिरोभा-
गकपाले आप्यायकस्य सोमरसस्य धारणेन आर्त्तिं पर्यहरदित्यर्थः ॥१॥
अथोक्तार्थवेदनं प्रशंसति-
आयुषाऽर्त्तिमतिजीवति य एव ँवेद ॥ २ ॥
योऽन्य एवमुक्तमर्थं जानाति स आयुषा नैमित्तिकायुःक्षयेण जनिता
या आर्त्तिः तामतिजीवति अतिक्रम्य शतवर्षं जीवति ॥ ३ ॥
इदानीं समन्त्रकं द्रोणकलशप्रोहणं विधत्ते-
तं प्रोहे "द्वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि
प्रजापतेर्मूर्द्धाऽस्यत्यायुपात्रमसीदमहम्मां प्राञ्चं प्रोहामि
तेजसे ब्रह्मवर्चसाये"ति ॥ ३ ॥

१९२ ताण्ड्यमहाब्राह्मणे
तं प्रजापतिशिरस्त उत्पन्नं कलशं वानस्पत्य इत्यादिना मन्त्रेण प्राञ्चं
प्रोहेत् प्रेरयेत् । एतत्प्रोहणमध्वर्य्वादिभिस्त्रिभिरपि कर्त्तव्यं, तथा च
सूत्रम् 'ऋतमसीति द्रोणकलशमालभ्य ऽवानस्पत्योऽसीति प्रोहेयुरि'ति
अयं मन्त्रः पूर्वं व्याख्यातः ॥ ३ ॥
अथ मन्त्रस्य प्रथमभागस्य तात्पर्यं व्याचष्टे—
यदाह ऽवानस्पत्य इति सत्येनैवैतं तत्प्रोहति ॥ ४ ॥
मन्त्रे उद्गाता वानस्पत्य इति यदाह तत्तेन एनं द्रोणकलशं सत्ये-
नैव प्रोहति । वस्तुतो द्रोणकलशस्य वनस्पतिविकारत्वात् सत्य इति
'बृहस्पतिर्वै देवानामुद्गाता तमेव तद्युनक्ती'ति एतेन मन्त्रभागेनैव प्रो-
हणं कृतवान् भवति ॥ ४ ॥
अथ द्वितीयभागस्य तात्पर्यमाह—
यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानामुद्गाता
तमेव तद्युनक्ति ॥ ५ ॥
तं बृहस्पतिमेव युनक्ति प्रेरयति ॥ ५ ॥
अथ तृतीयचतुर्थभागयोस्तात्पर्यमाह—
यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया
यद्द्रोणकलशो यदाह प्रजापतेर्मूर्द्धेति प्रजापतेर्ह्येष मूर्द्ध
उदहन्यत ॥ ६ ॥
द्रोणकलशस्य प्रजापतेर्मूर्द्धरूपत्वमुक्तप्रकारेण स्पष्टन्तत्सम्बन्धा
देव स प्राजापत्य इत्युच्यते ॥ ६ ॥
अथ पञ्चमस्य तात्पर्यमाह—
यदाहा"त्यायु

षष्ठाध्याये पञ्चमः खण्डः । १९३
इति विदुषः फलमाह—
देवपात्री भवति य एव ँवेद ॥ ८ ॥
य उक्तार्थज्ञः स देवपात्री देवपात्रं द्रोणकलशस्तद्वान् भवति। सोम-
यागानुष्ठाता भवतीत्यर्थः ॥ ८ ॥
अथ प्रासङ्गिकं किञ्चिदाह—
ब्राह्मणं पात्रे न मीमाँसेत यं ब्राह्मणमिव मन्यते
प्र देवपात्रमाप्नोति न मनुष्यपात्राच्छिद्यते ॥ ९ ॥
ब्राह्मणं पात्रे पात्रभावे अयं पात्रं भवति न वेति न मीमांसेत विचार-
न्न कुर्यात्। किं ब्राह्मणब्रुवमात्रेण न मीमांसितव्यं नेत्याह-यं पुरुषं ब्राह्म-
णमिव मन्येत। इव शब्द एवकारार्थः। जात्या ब्राह्मणमेव यदि निश्चिनु-
यात् तदा तद्विषयं वृत्तविद्यादिसद्भावासद्भावान्न मीमांसेतेत्यर्थः। तथा
च स्मृतिः 'न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा। हृदये कल्पयेद्देवं
सर्वदेवमयोद्विज' इति। एवं यस्मिन्विचारमकृत्वा पात्रमेवेति यो निश्चयं
करोति तस्य तदेव पात्रमन्वेति विद्यातपोयुक्ते यत्फलं भवति तत्तस्मि-
न्नपि भवतीत्यर्थः। किञ्च स पुमान् मनुष्यपात्रान्न छिद्यते मनुष्याणां
पात्रं भवतीत्यर्थः ॥ ९ ॥
उक्तं द्रोणकलशप्रोहणं हविर्द्धानादधः कर्त्तव्यं तत्राक्षगतवागवरो-
धनायेति वक्ष्यति। अतो वागक्षरसम्बन्धं वक्तुमाख्यायिकामाह—
वाग्वै देवेभ्योऽपक्रामत्सापः प्राविशत्तां देवाः पुन-
रयाचँस्ता अब्रुवन्यत्पुनर्द्द्याम किन्नस्ततः स्यादिति
यत्कामयध्व इत्यब्रुवँस्ता अब्रुवन्देवास्मासु मनुष्या
अपूतं प्रवेशयाँस्तेनासँमृष्टा असामेति ॥ १० ॥
पुरा देवेभ्यः सकाशात् स्वयमात्मानं प्रकाशयन्ती वाक् अपक्रामत्
आत्मानमप्रकाश्यापगताभूत् 'वै शब्दः श्रुत्यन्तरप्रसिद्ध्यर्थः' तथाच तै-
त्तिरीयकं' वाग्वै देवेभ्योऽपक्रामत् यज्ञायातिष्ठमानेत्यादि। सापगता
अपः प्राविशत् तां वाचं पुनर्यज्ञार्थमयाचन् प्रार्थयन् ताश्च पुनरब्रुवन्
किमिति यत्पुनर्द्द्याम यच्छाम नोऽस्माकं ततः किं फलं स्यादिति पृ-
ष्टास्ते देवाः तर्हि यत्फलं कामयध्व इत्यब्रुवन् ताश्च पृष्टाः पुनरब्रुवन्
हे देवाः अपूतमपूतादिकं अस्मासु मनुष्याः तदुपलक्षिताः सर्वे प्राणि-
नः प्रवेशयान् प्रवेशयेयुः। लोडूबहुवचनस्येदं रूपम्। तेनापूतेन असंमृ-
ष्टाः संसर्गरहिताः। असाम भवेम ॥ १० ॥
१७ ता०

१९४ ताण्ड्यमहाब्राह्मणे

उक्तार्थब्रह्मविदः फलमाह-
शुद्धा अस्मा आपः पूता भवन्ति य एव ँवेद॥११॥
स्पष्टोऽर्थः ॥ ११ ॥
अथाप्राप्ताया वाचो वनस्पतीन् प्रवेशमाह-
सा पुनर्त्तार्त्यक्रामत् सा ऽवनस्पतीन् प्राविशत्तान्दे-
वाः पुनरयाचँस्तान्न पुनरददुस्तानशपन् स्वेन वः कि-
ष्कुणा ऽवज्रेण वृश्चान्निति तस्माद्वनस्पतीन् स्वेन किष्कु-
णा ऽवज्रेण वृश्चन्ति देवशप्ता हि ॥ १२ ॥
पुनर्त्तार्ति अद्भिः पुनर्हता सा अत्यक्रामत् । अतिक्रम्य सा वनस्पतीन्
प्राविशत् । प्रविष्टां तां देवाः इत्यादि अशपन्नित्यन्तः स्पष्टः । शापप्रका-
रमाह-वो युष्मान् स्वेन स्वसम्बन्धिना वानस्पत्येन किष्कुणा दण्डेन
युक्तेन वज्रेण परश्वादिना वृश्चान् वृश्च्युरिति । यस्मादेवन्तस्मादिदा-
नीमपि स्वेन किष्कुणा वज्रेण वृश्चन्ति । हि यस्माद्वनस्पतयो देवैः श-
प्ताः । अत इत्यभिप्रायः ॥ १२ ॥
इदानीमक्षसम्बन्धं वक्तुं प्रविष्टाया वाचश्चतुर्द्धा विभागमाह-
ता ँवनस्पतयश्चतुर्द्धा ऽवाचं व्यँन्यदधुर्दुन्दुभौ ऽवीणा-
यामक्षे तूणवे तस्मादेषा ऽवदिष्ठैषा ऽवल्गुतमा ऽवाग्वा
ऽवनस्पतीनां देवाना ँ ह्येषा ऽवागासीत् ॥ १३ ॥
तान्तेषु प्रविष्टां वाचं वनस्पतयश्चतुर्द्धा चतुःप्रकारं व्यन्यदधुः वि-
भज्य निधनमकुर्वन् । केष्विति उच्यते-दुन्दुभौ भेर्य्यां वीणायां वेणु-
निर्म्मिततन्तुसम्बद्धायां विपञ्च्याम्। अक्षे रथादिचक्रयोर्मध्यवर्त्तिनि ति-
र्यग्दण्डे। तूणवे धनुषि गुणे। तस्मादुक्तपदार्थप्रवेशादेषैव वाक् वदिष्ठा
अतिशयेन वक्त्री। अत एषैव वल्गुतमा चारुतमा वाक् या श्रोतृमनोहादि-
नीत्यर्थः । एषेत्युक्तं केत्याह-या वनस्पतीनां वनस्पतिविकाराणां दुन्दु-
भ्यादीनां सम्बन्धिनी। उक्तस्यैव विवरणं देवानां हीति । यस्मात् दुन्दु-
भ्यादिषु प्रविष्टा वाक् वदिष्ठा वल्गुतमा च अतः खलु देवानां
योग्यासीत् ॥ १३ ॥
इदानीमक्षस्थवागवरोधनाय तदधः कलशप्रोहणन्तदुपरि दशाप-
वित्रस्थापनञ्च विधत्ते-
अधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति तस्या ऽवाचो ऽवरु-
ध्या उपर्युपर्यक्षं पवित्रं प्रयच्छन्त्युभयत एव ऽवाचं प-
रिगृह्णन्ति ॥ १४ ॥

षष्ठाध्याये पञ्चमः खण्डः । १९५
अक्षमधोऽधः । अक्षस्याव्यवहितेऽधःप्रदेशे । द्रोणकलशं प्रोहन्त्युद्गा-
तारः । तच्च प्रोहणं तस्या अक्षप्रविष्टाया वाचोऽवरुध्या अवरोधनाय
भवति । तथा उपर्युपर्यक्षम् अक्षस्याव्यवहिते उपरि भागे । पवित्रं प्रय-
च्छन्ति । तथा सति उभयत एव वाचमक्षस्थां परिगृह्णन्ति स्वायत्तां
कुर्वन्ति ॥ १४ ॥
अथाक्षस्पर्शननिन्दापूर्वकं तस्यास्पर्शं विधत्ते—
यस्य॒ कामये॑तासु॒र्य॑मस्य य॒ज्ञं कु॑र्याँ॒ वाच॑ँ वृ॒ञ्जीये॑-
ति द्रो॑णकल॒शं प्रोह॑न्बा॒हुभ्या॒मक्ष॒मुप॑स्पृशे॒दसु॑र्य॒मस्य
य॒ज्ञङ्क॑रोति॒ वाच॑ँ वृङ्क्ते॒ योऽस्य॑ प्रि॒यः स्या॒दनु॑पस्पृश॒न्नक्षं॑
प्रोहेत्प्रा॒णा वै द्रो॑णकल॒शः प्रा॒णाने॒वास्य॑ कल्पयति॥१५॥
अस्य यजमानस्य यज्ञम् । असुर्यमसुरेभ्यो हितं देवानाम्प्रतीकरं
कुर्याम् । अस्य वाचञ्च वृञ्जीय जयेयं प्रतिहतवचनं करोमीति यस्य य-
स्मै यजमानाय कामयेतोद्गाता तस्मै द्रोणकलशं प्रोहन् बाहुभ्यामक्ष-
मुपस्पृशेत् । तथा सति अस्य यज्ञमसुर्य्यं करोति । अस्य वाचं वृङ्क्ते वर्ज-
यति । अथाऽक्षोपस्पर्शनं तत्र निषिद्धमित्यभिप्रायः । अथोक्तवैलक्षण्येन
यो यजमानोऽस्योद्गातुः प्रियः स्यात्तस्योक्तदोषद्वयाभावायाक्षमनुपस्पृ-
शन् प्रोहेत् । तथा सति योऽयं द्रोणकलशः सः। प्राणो वै प्राणाख्योऽभू-
त् । प्रजापतेः शिरस्त उत्पन्नत्वात् । अतः अनुपस्पृशन् द्रोणकलशं प्रोह-
न्नुद्गाता अस्य यजमानस्य प्राणानेव कल्पयति यजमाने स्थापितवान्
भवति । अतोऽक्षस्पर्शनमकृत्वा प्रोहेदिति तात्पर्यम् । नन्वक्षस्पर्शाभावेन
यजमाने वा ख्यापनमुचितं तदकृत्वा कथं प्राणकल्पनं विरुद्धमिति ?
नैषदोषः,यजमाने प्राणेन वा ध्रियते यदा च प्राणस्य तदतो व्याप्रीयते।
तथा च तैत्तिरीयकं 'यत्रैतदधीते वा भाषते वा व्वाचि
तदा प्राणो भवति व्वाक् तदा प्राणं रेढि । अथ यत्र तूष्णीं
वा भवति स्वपिति वा प्राणे तदा व्वाग्भवति प्राणस्तदा व्वाचं रेढी-
ति' नत्वितरेषामिवोद्गातॄणाम्मन्त्रेण वरणाभावात् ॥ १५ ॥
कथमेषामात्विज्यकरणमिति ब्रह्मवादिनः प्रश्नमुपक्षिपति—
य॒न्न्वित्या॑हु॒र्व्वाचा॒न्यानृत्विजो॑ वृण॒ते कस्मा॑दुद्गा॒-
तारो॑ वृ॒ता आ॑र्त्वि॒ज्यं कु॒र्व्वन्तीति॑ ॥ १६ ॥
यन्नु यद्यन्या नित्याहुरेवं साक्षेपं यदि ब्रूयुः । वचनप्रकारमेव प्र-
दर्शयति 'व्वाचा इन्द्रं हौत्रात् मरुतः पोत्रादि' त्यादि रूपया अन्यान् होत्रा-
दीन् ऋत्विजो वृणते । अध्वर्य्यवो वा कस्मादित्यादि स्पष्टम् ॥ १६ ॥

१९६ ताण्ड्यमहाब्राह्मणे
तेषामेवमुत्तरं ब्रूयादित्याह--
यद्द्रोणकलशमुपसीदन्ति तेनोद्गातारो वृताः ॥१७॥
यस्मादेते द्रोणकलशमुपसीदन्ति प्रोहन्ति तेन ते वृता एवमार्त्वि-
ज्यं कुर्वन्ति ॥ १७ ॥
कथं द्रोणकलशेनैषां वृतिरिरिति तत्राह--
प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो
द्रोणकलश एवैनानार्त्विज्याय वृणीते ॥ १८ ॥
यज्ञात्मकप्रजापतिसम्बन्धाद्वा 'प्रजापतिः सामे'ति श्रुतेः । तत्सम्ब-
न्धाद्वा उद्गातारः प्राजापत्याः । द्रोणकलशश्च तन्मूर्द्धत उत्पत्तेः प्राजा-
पत्यः । तथा सत्युभयोः समानसम्बन्धात्तेन तेषां वरणमिति ॥ १८ ॥
अथ द्रोणकलशस्य प्राङ्मुखप्रोहणस्यायमाशय इत्याह-
प्राञ्च उपसीदन्ति प्राञ्चो यज्ञस्याग्रे करवामेति ॥ १९ ॥
इतः पूर्वमेतेषामुद्गातॄणाङ्गाने प्राङ्मुखत्वासम्भवात् द्रोणकलश-
प्रोहणे प्राङ्मुखा एवोपसीदन्ति । कया बुद्ध्येति ? यज्ञस्याग्रे आदौ प्रथमं
कर्म प्राञ्चः सन्तः करवामेति ॥ १९ ॥
अथ द्रोणकलशं प्राङ्मुखः प्रोहेत्प्राच्या दिशोऽभिजयायेत्याह-
अनभिज्रिता वा एषोद्गातॄणां दिग्यत्प्राची यद्द्रो-
णकलशं प्राञ्चं प्रोहन्ति दिशोऽभिजित्यै ॥ २० ॥
प्राच्या अनभिजितत्वमौदुम्बरे गाने उद्गातॄणां प्राङ्मुखगानाभा-
वाभिप्रायकं स्पष्टम् । न तु रथादिकमश्वादयो युक्ता वहन्ति ॥ २० ॥
कथमुद्गातॄणां यज्ञे योग इति प्रश्नमवतार्य द्रोणकलशोपसम्पत्तिरे-
व तेषां योग इत्याह-
यन्न्वित्याहुरन्तराश्वः प्रासेवौ युज्यतेऽन्तरा श-
म्य अनड्वान्क उद्गातॄणां योग इति यद्द्रोणकलशमु-
पसीदन्ति स एषां योगस्तस्माद्युक्तैरेवोपसद्यन्न ह्ययु-
क्तो वहति ॥ २१ ॥
प्रासेवौ रथयुगस्य सुषिरगतोभयपार्श्वरज्जू तयोर्मध्ये अश्वो यु-
ज्यते । शम्ये शकटयुगस्योभयपार्श्वकीलके तयोर्मध्येऽनड्वान् । तथा
सति यज्ञाख्ये रथे कथमुद्गातॄणां योग इति प्रश्नः ? यदेते द्रोणकलशं
हविर्द्धानाक्षाधःस्थितमुपसीदन्ति स एवैषां योग इति तस्योत्तरम् । त-
स्माद्युक्तैरेवानन्यचित्तैरेव उपसद्यं कलशोपसदनं कर्त्तव्यम्। तथा सति न
ह्ययुक्तो वहत्ययमुद्गातृवर्गः ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य पञ्चमः खण्डः ॥ ६ ॥ ५ ॥

[header] षष्ठाध्याये षष्ठः खण्डः । १९७

अथ षष्ठः खण्डः ।
अथ ग्राव्णामुपरि द्रोणकलशाव्यूहनं विधत्ते—
ग्राव्णः संऽसाद्य द्रोणकलशमध्यूहन्ति विड्वै ग्रा-
वाणोऽन्नँ सोमो राष्ट्रं द्रोणकलशो यद्ग्रावसु द्रोणक-
लशमध्यूहन्ति विश्येव तद्राष्ट्रमध्यूहन्ति ॥ १ ॥
द्रोणकलशाव्यूहनकर्तृभिरुद्गातृभिः प्रथममभिषवसाधनान् ग्राव्णः
संसाद्य पश्चात् द्रोणकलशाव्यूहनं कर्त्तव्यम् । तथा सति ये ग्रावाणः स-
न्ति ते विड्वै बहुत्वसंख्यायोगात् तेषां विड्व्यवहारः । सोमस्यान्नत्वं
प्रसिद्धम् । यो द्रोणकलशः स राष्ट्रं राष्ट्रमिति राजेति केचिद्राज्यमित्यपरे ।
तथा सति यद्ग्रावसु सोमरसाधारं द्रोणकलशमध्यूहन्ति तत्तेन विश्ये-
व राष्ट्रम् अन्नस्येदमध्यूहन्ति स्थापितवन्तो भवन्ति ॥ १ ॥
अथ यजमानस्य पापं कामयमान उद्गाता एवं कुर्यादित्याह—
यं द्विष्याद्विमुखान् ग्राव्णः कृत्वेदमहममुममुष्याय-
णममुष्याः पुत्रममुष्या विशोऽमुष्मादन्नाद्यान्निरूहामी-
ति निरूहेद्विश एवैनमन्नाद्यान्निरूहति ॥ २ ॥
उद्गाता यं यजमानं द्विष्यात् द्वेष्टि तस्मै ग्राव्णः । अभिषवोपलाभिमु-
खान् परस्परनिवृत्तमुखान् कृत्वा इदमिदानीमहममुं द्वेष्यं यजमानं ‘अ-
मुमित्यत्र तन्नामनिर्देशात्’ कथममुष्यायणं अमुष्यगोत्रोत्पन्नम् अमुष्याः
पुत्रम् अमुष्या विशः सकाशात् ‘अत्राप्यमुष्या इति पञ्चम्या विशो नाम
निर्देशात्’ एवमहममुं द्वेष्यं यजमानं विशोऽन्नाद्याच्च निरूहामि नाश-
यामि इत्येवं मन्त्रमुच्चार्य्य निरूहेत् । एवं कुर्वन्नुद्गाता विशोऽन्नाद्या-
च्चैनं यजमानं निरूहति ॥ २ ॥
अथ यजमानस्य भद्रं कामयमान एवं कुर्यादित्याह--
योऽस्य प्रियः स्यात्सम्मुखान् ग्राव्णः कृत्वेदमहममु-
ष्यायणममुष्याः पुत्रममुष्यां विश्यमुष्मिन्नन्नाद्येऽव्यूहामी-
त्यव्यूहेद्विश्येवैनमन्नाद्येऽव्यूहति ॥ ३ ॥
पूर्ववाक्येनैव व्याख्यातप्रायमिदम् ॥ ३ ॥
द्वेष्यस्य च प्रियस्य चोभयस्य प्रयोगमनादृत्यात्मन एव श्रेयःकाम-
यमान आह--
अथो तदुभयमनादृत्येदमहं मां तेजसि ब्रह्मवर्च-

have a horizontal line?
Wait, look at नि in अभिनिदध्यात् (line 8):
द भि नि द ध्या दि द म ह म मु या
Look at नि: it has a horizontal line at the bottom, a loop, and a vertical stem.
Now look at the letter in line 6:
It has: ि matra, then a vertical line, with a horizontal line at the bottom, and a loop?
WAIT! That's नि!
Wait, if that is नि, then what is the letter after it?
Is the letter after it शा?
Wait! Where is व?
Wait, is the letter वि just printed with a broken type, or is it a specific ligature?
Wait, look at line 8:
अमुया विशाऽदो
Look at विशाऽदो: the letter before शा is IDENTICAL to the one in line 6 and line 9!
And in commentary line 12:
अमुया विशा अमूभिः परिजनैः
The commentary clearly says: अमुया विशा!
And the mantra in line 8 is quoting: इदमहममुया विशाऽदो राष्ट्रं हन्मीति!

षष्ठाध्याये षष्ठः खण्डः । १९९

पुनन्त्वेतानि वै दैवानि पवित्राणि पूतो यज्ञियो भव-
तिय एवँवेद ॥ ७ ॥
सिद्धा मन्त्रार्थाः, सम्मृजन्त्विति मन्त्राम्नाने सिद्धे पुनन्तु इदानीं
वर्णनं संमृजन्त्वित्यस्य व्याख्यानार्थमिति मन्तव्यम् । अथवा मन्त्रपाठा-
देव तस्मिन् सिद्धे पुनन्त्विति वा प्रयोक्तव्यमिति वैकल्पिकत्वबोधनार्थम्।
मन्त्रब्राह्मणयोरप्युभयोरपि प्रमाणत्वाविशेषात् । यथेन्द्रं गीर्भिर्हवामह
इत्येव स्वाध्याये सिद्धे इन्द्रं गीर्भिर्हवामह इत्यनुवर्णनं हवामह इति वा
प्रयोक्तव्यमित्येवमर्थमिति तद्वदिहापीति मन्तव्यम् । एवं जातीयकेषु वि-
कल्पो द्रष्टव्य इति निदाने निर्णीतत्वात् ॥ ७ ॥
अपूर्वमेव दशापवित्रस्य शुक्लत्वं विधातुमाख्यायिकामाह—
स्वर्भानुर्वा आसुर आदित्यन्तमसाविध्यत्तं देवा
न व्यजानँस्तेऽत्रिमुपाधावँस्तस्यात्रिर्भासेन तमो-
पाहन्यत् प्रथममपाहन् सा कृष्णाविरभवद्यद्द्वितीयꣳ
सा रजता यत्तृतीयꣳ सा लोहिनी यया वर्णमभ्यतृणत्
सा शुक्लासीत् ॥ ८ ॥
पूर्वं स्वर्भानुर्नामकोऽसुर आदित्यं तमसान्धकारेणाविध्यदातत-
वान्। तं सर्वे देवा नाज्ञासिषुः। ते देवा अत्रिं महर्षिमुपाधावन्नादित्यस्या-
वरणान्धकारमपजहीति। तस्य तमोऽत्रिर्भासेनापाहन्नपजघान। तत् यत्त-
मोभागं प्रथममपाहन् सा कृष्णा कृष्णवर्णाऽऽविरभवत्, यद्द्वितीयꣳ
सा रजतवर्णा आविर्भवत्, यत्तृतीयꣳ सा लोहिनी लोहिताऽऽविरभ-
वत्। यया अन्त्योपादेयलिङ्गेन स्त्रीलिङ्गता येन प्रयोगेणेत्यर्थः । वर्णमत्र
रोहितम् अभ्यतृणत् प्रकाशं चकार। अत्र तृदिः प्रकाशनकर्मा। तस्मादु-
पपदिका यत्र क च स्वनति तदपामितृन्दन्तीत्यादिषु तथा दर्शनात् । सा
शुक्ला मेध्यासीत् ॥ ८ ॥
इदानीं तद्विधत्ते—
तस्माच्छुक्लँ पवित्रꣳ शुक्रः सोमः स शुक्रत्वाय ॥९॥
तस्मात्तिरोहितवर्णस्यैव शुक्लाविरूपेण परिणतत्वात् शुक्लं शुक्लावि-
रोममयं दशापवित्रं कर्त्तव्यम् । तथा हि सोमोऽपि शुक्रः सोमः निर्म्मलः ।
अतः स शुक्रत्वाय शुक्रसोमानुगुण्याय भवति ॥ ९ ॥
एवं पवित्रस्य शुक्लत्वं विधाय तदेवान्वयव्यतिरेकाभ्यां दृढयति—
यं द्विष्यात्तस्यैतेषां वर्णानामपि पवित्रे कुर्यात्पा-

[Header]
२०० ताण्ड्यमहाब्राह्मणे

प्म॒नैवै॑नं॒ तम॑सा॒ वि॒वि॑ध्यति कृ॒ष्णमि॑व॒ हि तमो॑ योऽस्य॑ प्रि॒-
यः स्यादास॑क्तिशु॒क्लं कु॑र्या॒ज्ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒-
वास्मि॑न्दधाति ॥ १० ॥
यं यजमानमुद्गाता द्विष्यात्तस्य प्रयोगः । एतेषां शुक्लव्यतिरिक्ताना-
मन्यतमवर्णमपि पवित्रे कुर्यात् । तथा सति कृष्णादित्रयस्यापि पाप-
रूपत्वात् पाप्मनैवेनं यजमानं तमसा विध्यति पापभूयिष्ठं करोतीत्यर्थः ।
कृष्णमिव हि कृष्णं तमः शुक्लव्यतिरिक्तवर्णमिव हि पापमिव हि वर्त्तते
विरोधित्वसाम्यात् । यश्च यजमानोऽस्योद्गातुः प्रियः स्यात्तस्य प्रयोगे
पवित्रमाशक्तिशुक्लं कृष्णवर्णान्तरस्य लेशतोऽपि संसर्गाभावेन शुक्लवर्णं
कुर्यात् । हिरण्यशब्देनात्र तत्रत्यं तेजो लक्ष्यते । पवित्रगतं य

षष्ठाध्याये षष्ठः खण्डः । २०१
पवित्रप्रसारणे तत्सङ्कोचाभावाय किञ्चिद्वक्तव्यमित्याह—
तं ब्रूयाद्वेपमानः प्रमेष्यस इति ब्वेपमान एव प्रमीयते॥ १५॥
तम् उद्गातारं पवित्रं प्रसारयन्तं ब्रूयात्किमिति ? उच्यते—वेपमानः क-
म्पमानः प्रमेष्यसे। नित्यमपि वेपमान एव प्रमीयते स इति। तथा स प्र्रि-
योऽत उक्तं पवित्रविग्रहणं सूत्रकार आह “अवधूय पवित्रमुद्गदशमवा-
ङ्नाभि वितनुयुः पवित्रन्त इति ऋचैक” इति ॥ १५ ॥
अथोद्गातृद्धारानुमन्त्रणं समन्त्रैकदेशोपादानं विधत्ते—
प्र शुकैतु देवी मनीषास्मद्रथः सुतष्टो न वाजीत्यु-
द्गाता धारामनुमन्त्रयते ॥ १६ ॥
मन्त्रैकदेशः पूर्वं व्याख्यातः। इत्यनेन मन्त्रेण शोध्यमानसोमधारा-
मनुमन्त्रयते ॥ १६ ॥
अथानुमन्त्रणमन्त्र

२०२ ताण्ड्यमहाब्राह्मणे
अथ सप्तमः खण्डः ।
अथ प्रवृत्तहोमस्य यौ "सूर्यो मा बेकुरे"त्यादिकौ मन्त्रौ तयोर्द्वितीय-
मन्त्रसाध्यहोमं विधातुमाख्यायिकामाह—
बृहस्पतिर्व्वै देवानामुदगायत्तꣳ रक्षाꣳस्यजिघाꣳ-
सन् स य एषां लोकानामधिपतयस्तान् भागधेयेनोपा-
धावत् ॥ १ ॥
बृहस्पतिर्मन्त्राभिमानी एतन्नामको देवः देवानां यज्ञे पूर्वमुद्गा-
यत् औद्गात्रमकरोत् तं तथा कुर्वाणं रक्षांस्यजिघांसन् हन्तुमैच्छन्
स बृहस्पतिः एषां पृथिव्यादीनां लोकानां येऽधिपतयोऽभ्यायँस्तान्
भागधेयेन वक्ष्यमाणमन्त्रसाध्यहोमलक्षणेन भागधेयेनोपाधावत् अप्री-
णयदित्यर्थः ॥ १ ॥
इदानीं समन्त्रकं होमं विधत्ते—
सूर्य्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु व्वायुरन्तरिक्षा-
भ्योऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति ॥ २ ॥
मन्त्रस्तु पूर्वमेव व्याख्यातः । उक्तमन्त्रो भागत्रयेण कर्त्तव्यः ॥ २ ॥
अथ मन्त्रस्य तात्पर्य्यमाह—
एते वा एषां लोकानामधिपतयस्तान् भागधेयेनो-
पासरत् ॥ ३ ॥
य एषां भूरादीनां लोकानामधिपतयः त एते वै निर्द्दिष्टाः सूर्य्या-
दयः खलु । तथाहि तिस्र एव देवताः क्षित्यन्तरिक्षद्युस्थानाः अग्निर्व्वायुः
सूर्य्य इति तान् भागधेयेन तदुचितभागप्रदानेन उपासरत् अनुसृतवान्
भवति । यतस्ते प्रीता रक्षःकृतोपद्रवं पर्य्याहरन् । अत इदानीमप्युद्गातृभि-
रेतत्कर्त्तव्यमित्यभिप्रायः ॥ ३ ॥
वेदितुः फलमाह—
करोति व्वाचा व्वीर्य्यन्न सदस्यामार्त्तिमार्च्छति य
एवँव्वेद ॥ ४ ॥
वाचा वीर्य्यकरणन्नाम वेदशास्त्रादिना स्वसामर्थ्यप्रकटनम् ॥ ४ ॥
अथ बेकुरेत्यनेनाप्युक्तं प्रवृत्तहोमं विधातुमाख्यायिकामाह—
वाग्वै देवेभ्योऽपाक्रामत्तां देवा अन्वमन्त्रयन्त सा
ऽब्रवीद्भागास्मि भागधेयम्मेऽस्त्विति कस्ते भागधेयं

षष्ठाध्याये सप्तमः खण्डः । - २०३
कु॒र्या॑दि॒त्युद्गातार इत्य॒ब्रवी॑दु॒द्गाता॑रो॒ वै वा॒चे भा॒गधे॑यं
कु॒र्व्वन्ति॑ ॥ ५ ॥
पुरा वाग्देवता देवेभ्यः सकाशात् अपाक्रामत् मन्त्रात्मिका वाक् दे-
वान् गुणैः प्रकाशयन्ती अपगताभूदित्यर्थः । तां वाचं देवा अन्वमन्त्रयन्त
अनुमन्त्रणमाह्वानमकुर्वन् । सा आहूता वागब्रवीत् किमिति ? अभागाऽ-
स्मि यथा भवतां यज्ञे भागोऽस्ति तद्वत् मह्यन्नास्ति इति । तथोक्ता देवा-
स्तर्हि ते कः भागधेयं कुर्यादित्यब्रुवन् । सा च पुनरुद्गातार इत्यब्रवीत् ।
तेषां तद्भागप्रदानयोग्यतोच्यते । उद्गातारः खलु वाचे देव्यै भागधेयं कु-
र्व्वन्ति तेषामध्वर्य्यादिवदङ्गस्तनव्यापारलक्षणक्रियाया अभावाद्वागेकव्यापा-
रत्वाच्चेत्यभिप्रायः ॥ ५ ॥
इदानीं समन्त्रकहोमं विधत्ते-
तस्यै॑ जुहुयाद् बेकुराना॑मासि जु॒ष्टा दे॒वेभ्यो॒ नमो॑
वा॒चे नमो॑ वा॒चस्पत॑ये दे॒वि वा॒ग्यत्ते॑ वा॒चो मधु॑मत्त॒-
स्मिन् मा धाः सर॑स्वत्यै॒ स्वाहेति॑ ॥ ६ ॥
अयम्मन्त्रः पूर्वं व्याख्यातः । अनेन यो यः सर्पति स स जुहुयात् ॥६॥
मन्त्रगतयोर्वाक्सरस्वतीशब्दयोरैक्यार्थमाह-
वाग्वै सर॑स्वती तामे॒व तद्भा॑गधेये॒नार॑भते ॥ ७ ॥
आलम्बते उद्गात्रादिकमित्यर्थः ॥ ७ ॥
अद्वेष्यस्य वाग्ध्यानात्मप्रयोगकथनव्याजेन अद्वेष्ययजमानप्रयोगेण
वाग्ध्यानमात्रप्रयोगेण नालं किन्तु मन्त्रपाठः कर्त्तव्य इत्याह-
यं द्वि॒ष्यात्तस्यै॒तामाहु॑तिञ्जुहुयाद्वा॒चं मन॑सा ध्यायेद्वा॒-
च॑मे॒वास्य॒ वृङ्क्ते॑ ॥ ८ ॥
यं यजमानं द्विष्यादुद्गाता तस्य प्रयोगे एतामाहुतिं जुह्वद्धोमं कुर्व्व-
न् वाचंमनसाध्यायेन्मन्त्रं ब्रूते । कुतः ? अद्वेष्यस्य प्रयोगे मन्त्र उच्चार-
यितव्य इत्यभिप्रायः । अत्र मन्त्रसमाम्नाये बेकुरानामासीति मन्त्रः प्रथ-
मं समाम्नातः सूर्योमेति पश्चात् । अत्र क्रमविपर्य्यासः किमर्थः ? मन्त्रेषु
स्तुतिमात्रमेव विवक्षितं न क्रम इति केचित् । अपरे तु स्तुतिमात्रविवक्षा-
यामपि क्रमविलङ्घनस्यान्न्याय्यत्वादेवं वा क्रमः स्यादिति क्रमविकल्पा-
र्थमिति ॥ ८ ॥
अथ बहिष्पवमानार्थं प्रसर्पणं विधत्ते-
ब॒हि॒ष्प॒व॒मानꣳ॑ सर्पन्ति स्व॒र्गमे॒व तल्लो॒कꣳ सर्प॑न्ति ॥ ९ ॥

ये अध्वर्युप्रमुखाः बहिष्पवमानार्थं सदः सकाशाच्चात्वालं प्रति
सर्पन्ति तत्तेन स्वर्गं लोकमेव प्रति सर्पन्ति । यजमानस्य एतत् कर्तृक-
प्रसर्पणाभावे स्वर्गासिद्धेस्तस्य स्वर्गार्थमेवैते प्रसर्पन्ति ॥ ९ ॥
प्रसर्पणे किञ्चिन्नियमद्वयं विधत्ते—
प्रक्वाणा इव सर्पन्ति प्रतिकूलमिव हीतः स्वर्गो लोकः
त्सरन्त इव सर्पन्ति मृगधर्म्मा वै यज्ञो यज्ञस्य शान्त्या
अपत्रासाय ॥ १० ॥
बहिष्पवमानस्य स्वर्गत्त्वेनोपन्यासात्तदर्थं प्रसर्पणं प्रक्वाणैरिव कर्त्त-
व्यम् । यद्यपि स्वर्गः सर्वान् प्रत्यविशिष्टत्वादनुकूल एव तथापि मृगवृत्त्य-
नन्तरभावित्वात्प्रतिकूलमिवोच्यते । किञ्च त्सरन्त इव 'त्सरच्छद्मगतौ'
यथा पादप्रसारणध्वनिर्नोत्पद्यते तथा मृदुपदन्यासैर्गन्तव्यम् । यथा मृग-
ग्राहिभिस्तद्वत् 'त्सरद्गमने'कारणमाह—यो यज्ञः स मृगधर्म्मा वै मृगस्य
यः पलायनधर्म्मः स तद्धर्म्मयुक्तः खलु । किमर्थमेवं कृतिरिति चेदुच्यते—
यज्ञस्य शान्त्यै शमनाय स्थैर्याय । तदेवाह—अपत्रासाय। प्रसर्पणे हि त्रा-
सो भवति ॥ १० ॥
अथ तत्र वाङ्नियमं तदभावे दोषं कथयन् विधत्ते—
वाचं यच्छन्ति यज्ञमेव तद्यच्छन्ति यद्यववदेयुर्यज्ञं
निर्ब्रूयुस्तस्मान्न व्यववद्यम् ॥ ११ ॥
तदेतत् प्रसर्पकाः वाचं यच्छन्ति नियमयन्ति तत्तेन यज्ञमेव यच्छ-
न्ति । यज्ञस्य मन्त्रादिलक्षणवाक्पूर्वकत्वाद्वागेव यज्ञः। यद्यपि व्यवहरे-
युर्विविधं दुष्टां वाचं ब्रूयुस्तर्हि यज्ञमेव निर्ब्रूयुः नितरां ब्रूयुः । अयमिति
प्रकाशयेयुरित्यर्थः । तस्मात्तैर्न व्यववद्यम् ॥ ११ ॥
अथाध्वर्युप्रभृतिब्रह्मान्तानां पञ्चर्त्विजां तत्र समारम्भणं विधत्ते—
पञ्चर्त्विजः सꣳरब्धाः सर्पन्ति पाङ्क्तो यज्ञो यावान्
यज्ञस्तमेव सन्तन्वन्ति ॥ १२ ॥
यजमानवर्ज्जिताः पञ्चर्त्विजः । सꣳरब्धाः सम्यक् परस्परं सङ्गताः
सर्पन्ति । तत्रत्यपञ्चसंख्या स्तूयते—पाङ्क्तो यज्ञः। यज्ञस्य पाङ्क्तत्वं तैत्तिरीये
प्रश्नमुखेन स्पष्टीकृतम् । “नर्च्चा न यजुषा पङ्क्तिराप्यते यत्किञ्च यज्ञस्य
पाङ्क्तत्वमि”ति धानाः करम्भः परिवापः पुरोडाशः पयस्याशेन पङ्क्तिरुच्यते
तेन यज्ञस्य पाङ्क्तत्वमिति । एतैरेव तु हविष्पङ्क्त्यक्षरपङ्क्तिनराशंसपङ्क्ति-
सवनपङ्क्तीनां प्रदर्शनेन यज्ञस्य पाङ्क्तत्वमुपवर्णितम् ॥ १२ ॥