सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 208, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 208

१८८ । ताण्ड्यमहाब्राह्मणे ।

मन्त्रगतमायुःशब्दं व्याचष्टे—
यज्ञो वा आयुस्तस्य तत्सदनं क्रियते ॥ ४ ॥
य आयुः स यज्ञो वै । अत्रायुःशब्देन यज्ञोऽभिधीयत इत्यर्थः । अस्य
व्युत्पत्तिर्म्मन्त्रव्याख्यानावसरे प्रदर्शिता। तत्तेन मन्त्रेण आयुःशब्दप्रयो-
गेण तस्य यज्ञस्यैव सदनं क्रियते ॥ ४ ॥
अथावतश्छायायामिति मन्त्रभागं व्याचष्टे—
यज्ञो वा अवति तस्य सा च्छाया क्रियते ॥ ५ ॥
योऽयं यज्ञः स खलु अवति रक्षति यजमानमतोऽवनात् यज्ञस्यैव
च्छाया कृता भवति ॥ ५ ॥
समुद्रस्येति भागस्य सदोरूपतां दर्शयति—
मध्यतो वा आत्मनो हृदयन्तस्मान्मध्ये सदस औदु-
म्बरी मीयते ॥ ६ ॥
आत्मनो यजमानस्य हृदयम्मध्यतो वै मध्ये खलु तस्मात्तदानुरू-
प्याय सदसो मध्यदेशे औदुम्बरी मीयते प्रक्षिप्यते । मन्त्रेसमुद्रशब्दा-
भिधेयस्य ब्राह्मणे सदःशब्देन व्यवहारात्तस्य सदश एवार्थो विवक्षित
इत्युक्तं भवति ॥ ६ ॥
अथौदुम्बर्य्यनुमन्त्रणे योऽयं मन्त्रः ‘नमः समुद्राय नमः समुद्रस्य
चक्षुषे मामा यूनर्व्वाहासीदूर्ग्गस्यूर्जोदा ऊर्ज्जम्मे देह्यूर्ज्जम्मे धेह्यन्नम्मे
देह्यन्नम्मे धेही’त्यादि मन्त्रोऽस्ति तत्र नमः समुद्रायेति वाक्यद्वयं व्याचष्टे-
“नमः समुद्राय नमः समुद्रस्य चक्षुष” इत्याह व्वाग्वै
समुद्रो मनः समुद्रस्य चक्षुस्ताभ्यामेव तन्नमस्करोति ॥७॥
वाचो निरवधिकत्वात्समुद्र इत्युच्यते, वाग्रूपसमुद्रस्य मनसः पूर्व्व-
रूपत्वात् समुद्रचक्षुरित्यनेन मन उच्यते। ‘मनः पूर्वरूपं वागुत्तररूप’-
मिति हि श्रुतिः कौषीतकिनः, तत्तथा सत्यमुं भागं पठन्नुद्गाता वाचो
मनसश्च नमस्कारं कृतवान् भवति ॥ ७ ॥
मामा यूनर्व्वैत्यमुं भागं व्याचष्टे—
“मामा यूनर्व्वाहासीदि”त्याह साम वै यूनर्वा सा-
म्न एव तन्नमस्करोत्यार्त्विज्यं करिष्यन् ॥ ८ ॥
यूनर्वा यूनर्व्वर्चः पुरुषं यूनक्ति प्राप्नोतीति यूनर्वा साम वै तत्-
था सत्येतत् पाठेन साम्न एव नमस्करोति ॥ ८ ॥
आर्त्विज्यं करिष्यन्नुद्गाता एतदेव विवृणोति—
“यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति