सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

चतुर्थाध्याये द्वितीयखण्डः। ९९
तदेतत् प्रशंसति—
चतुर्विꣳशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसङ्गायत्री
तेज एव ब्रह्मवर्चसमारभ्य प्रयन्ति ॥ ५ ॥
अयञ्च स्तोमश्चतुर्विंशतिसंख्याकः गायत्री चतुर्विंशत्यक्षरा
सा च गायत्री तेजः प्रजापतिमुखादग्निना सहोत्पन्नत्वात् अस्यास्तेजो-
रूपं ब्रह्मवर्चसं च तेजोऽवान्तरभेदइति तेजोब्रह्मवर्चसरूपा गायत्री एवं
सति चतुर्विंशतिस्तोममतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरं
प्रारभन्ते अस्मिन्नहनि प्रयुञ्जानाः संख्याद्वारेण तेजो ब्रह्मवर्चसञ्चारभ्य
अवष्टभ्य स्वर्य्यन्ति स्वर्गं गच्छन्ति ॥ ५ ॥
पुनरपि विहितं स्तोममनूद्य प्रशंसति—
चतुर्विꣳशं भवति चतुर्विꣳशो वै संवँत्सरः साक्षा-
देव संवँत्सरमारभन्ते ॥ ६ ॥
चतुर्विंशत्यर्द्धमासात्मकत्वात् संवत्सरस्य चतुर्विंशत्वं तथा सति
चतुर्विंशस्तोमं प्रथमतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरमा-
रभन्ते ॥ ६ ॥
अथैमं स्तोमं स्तोत्रीयागतसंख्याद्वारेण प्रशंसति—
यावत्यश्चतुर्विꣳशस्योक्थस्य स्तोत्रीयास्तावत्यः स-
वँत्सरस्य रात्रयः स्तोत्रीयाभिरेव तत् संवँत्सरमाप्नु-
वन्ति ॥ ७ ॥
पञ्चदशस्तोत्रे अस्मिन्नहनि पञ्चदशस्तोत्रेषु प्रत्येकं चतुर्विंशस्तो-
त्रीयायुक्तेषु परिगणनायां मिलित्वा षष्ट्युत्तरात्रिंशत्तस्तोत्रीया भवन्ति ।
तथा सति चतुर्विंशस्तोम कस्य यावत्यः स्तोत्रीयाः संवत्सरस्यापि
तावत्यो रात्रयः एवं प्रयुञ्जानाः सत्रिणस्तेन चतुर्विंशेन स्तोत्रीयाभिरेव
संवत्सरं प्राप्नुवन्ति ॥ ७ ॥
स्तोत्रसंख्ययापीदमहः प्रशंसति—
पञ्चदशस्तोत्राणि भवन्ति पञ्चदशार्द्धमासस्य रात्र-
योऽर्द्धमासश एव तत् संवँत्सरमाप्नुवन्ति ॥ ८ ॥
स्पष्टोऽर्थः ॥ ८ ॥
अथ स्तोत्रशस्त्राणि समुच्चित्य तत्संख्ययापीदमहः प्रशंसति—
पञ्चदश स्तोत्राणि पञ्चदश शस्त्राणि समासो मासश
एव तत् संवँत्सरमाप्नुवन्ति ॥ ९ ॥

स्पष्टोऽर्थः ॥ ९ ॥
अथास्याह्न उक्थपक्षे किञ्चिद्दोषमाशङ्क्य तत्परिहाराय सामद्वयं
विधत्ते—
तदाहुरीर्म्म इव वा एषा होत्रा यदच्छावाक्या यद-
च्छावाकमनुसन्तिष्ठत ईश्वरॆर्मा भवितोरिति यद्युक्थ्यँ
स्यात्त्रैककुभञ्चोद्वँशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्ये वा एते
सामनी वीर्य्यएवान्ततः प्रतितिष्ठन्ति ॥ १० ॥
तत्तस्मिन् उक्थपक्षमाहुर्ब्रह्मवादिनः किमिति तदुच्यते होतृव्य-
तिरिक्तानां होतृकाणां किमहो यत् वा अच्छावाक्या अच्छावाकसम्ब-
न्धिनी होत्रा शंसनादिरूपा क्रिया एषा ईर्मेति व्रणमुच्यते, तद्व्रणमनु-
तिष्ठते अच्छावाकमनुलक्ष्य सन्तिष्ठते अच्छावाकशस्त्रेण समाप्येत
नाच्छावाकसमापनेन ईर्मयज्ञस्य दुष्टतां भवितो(१)र्भवितुमीश्वराः समर्था
भवन्तीत्याहुरित्यन्वयः। अतो यदीयमुक्थं उक्थसंस्थं स्यात् उक्त-
दोषपरिहाराय त्रैककुभं चोद्वंशीयं चोभे सामनी अन्ततस्तृतीयसव-
नस्यान्ते प्रतिष्ठाप्य त्रैककुभं ब्रह्मसाम उद्वंशीयमच्छावाकसामेत्येवं
कर्त्तव्येत्यर्थः। शाख्यायनेन स्पष्टमाम्नातं, ईर्म इव वा एषा होत्राणां
यदच्छावाको यदच्छावाकमनुसंतिष्ठेरन्नेर्म इव तुष्टुवानाः स्युरिति।
तस्य त्रैककुभं ब्रह्मसाम भवत्युद्वंशीयमच्छावाकसामेति य एक इद्धि-
दयते इति तृचे गेयं उद्वंशीयं एते सामनी वीर्ये वै वीर्यरूपे एव कथ-
मनयोर्वीर्यवत्त्वमुच्यते ककुभमिति शृङ्गवदुन्नतस्याभिमानं त्रीणि ककु-
भानि यस्य तत् त्रिककुभं तत्सम्बद्धं त्रैककुभं अतस्त्युन्नतसम्बन्धादेते
सामनी वीर्यमित्युच्यते उन्नतं हि लोके वीर्यवद्भवति उद्वंशीयस्य
चोद्वंशमिव येमिर इत्युद्यमनश्रवणादुच्छ्रायप्रतीतेर्वीर्यत्वं, एवं सति
वीर्यरूपयोः साम्नोः प्रयोगात् अन्ततस्तृतीयसवनस्यान्ते वीर्यएव यज-
मानाः प्रतितिष्ठन्ति अतोऽच्छावाकसमापनदोषो न भवतीत्यर्थः ॥१०॥
अथास्यैवाह्नो विकल्पेन अग्निष्टोमसंस्था कार्येत्याह—
अथो खल्वाहुरग्निष्टोममेव कार्य्यमेष वै यज्ञः स्वर्ग्यो
यदग्निष्टोम ऊर्द्धोहि होतारमनुसन्तिष्ठते ॥ ११ ॥
अथो शब्दः पक्षव्यावृत्त्यर्थः। अभिज्ञाः खल्वाहुः किमिति ? इदमहर-
ग्निष्टोमम् अग्निष्टोमसंस्थमेव कार्यं न तु अग्निष्टोम इति। यत् एष खलु
यज्ञः स्वर्ग्यः स्वर्गाय हितः तत् कुतो हेतोः हि यस्मादूर्द्ध्वस्त्रिवृदादि-
( १ ) ईश्वरार्थेऽतोसुन्प्रत्ययः ।

क्रमेण ऊर्द्धाभिमुखः सन् अयमग्निष्टोमो होतारमनुलक्ष्य सन्तिष्ठते
होता हि सर्वहोतॄणां मुख्यस्तदीयेनाग्निमारुतशस्त्रेणाग्निष्टोमः परिस-
माप्यते अतोऽस्य स्वर्ग्यत्वं ॥ ११ ॥
उक्थत्वे संवत्सरावाप्तिरूपं यत् फलमुक्तं तदप्यत्रापि विद्यत इत्याह-
द्वादशस्तोत्राण्यग्निष्टोमो द्वादश मासाः संवत्सर-
स्तेन संवत्सरसम्मितो द्वादश स्तोत्राणि द्वादश श-
स्त्राणि तच्चतुर्विꣳशतिश्चतुर्विꣳशतिरर्द्धमासाः सं-
वत्सरस्तेन संवत्सरसम्मितः ॥ १२ ॥
योयमग्निष्टोमः स द्वादशस्तोत्राणि द्वादशानां स्तोत्राणां सङ्ख्या-
त्मकः संवत्सरश्च द्वादशमासात्मकस्तेनायमग्निष्टोमसंस्थः संवत्सरस-
म्मितः संवत्सरसदृशस्तेन संवत्सरमेवाप्नुवन्तीत्यर्थः । किञ्चाग्निष्टोमे
द्वादश स्तोत्राणि द्वादश शस्त्राणि भवन्ति तदुभयम्मिलित्वा चतुर्विं-
शति सम्पद्यन्ते संवत्सरश्च चतुर्विंशत्यर्द्धमासात्मकः तेनाप्ययं संव-
त्सरसम्मितः ॥ १२ ॥
एवमग्निष्टोमसंस्थायाः सिद्धान्तत्वाशङ्कायामुक्तथसंस्थैव सिद्धान्त-
इति निगमयति-
अथो खल्वाहुरुक्थमेव कार्यमहः समृद्धयै ॥ १३ ॥
अथो इति पूर्वपक्षव्यावृत्त्यर्थः । उक्थसंस्थमेवैतदहः कार्य्यं, कि-
मर्थमहः समृद्धयै सम्पूर्णताया इति ब्रह्मवादिनआहुः । अग्निष्टोमे हि
पूर्वयोः सवनयोः पञ्चपञ्च स्तोत्राणि तृतीये तु द्वे एवेत्यहः समृद्धिन्न
भवति, उक्थे तु तृतीयसवने पञ्च स्तोत्राणीत्यहः समृद्धं भवति ॥१३॥
उक्थसंस्थाङ्गीकारे युक्त्यन्तरमाह-
सर्वाणि रूपाणि क्रियन्ते सर्वꣳ ह्येतेनाह्नाप्यते ॥१४॥
उत्तरेषामह्नां सम्बन्धीनि यानि रूपाणि स्तोमपृष्ठविभक्त्यादीनि
तान्यस्मिन्नुक्थे क्रियन्ते अतः सर्वं हि यज्ञसम्बन्धि रूपं तेनाह्ना
उक्थसंस्थेन आप्यते प्राप्यते तत उक्थसंस्थैव कार्येत्यर्थः । सर्वरूप-
करणञ्च सर्व्वावाप्तिश्च सम्पादनद्वारेणेति निदानकारेणैवमुच्यते, अथो
खल्वाहुः सर्वाणि रूपाणि क्रियन्त इति आचार्याः एतेष्वेव सर्व्वान्
स्तोमान् सर्व्वाणि पृष्ठानि सर्वा विभक्तीर्देशरात्ररूपाणीति विभक्ति-
मात्रेण कल्पयन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः
सम्पाद्यत इत्यादिना एतान्येवस्तोमपृष्ठादीनि प्रत्येकक्रमेण विविच्य
प्रदर्शितानि तत्सर्वं तत्रैवावगन्तव्यम् ॥ १४ ॥

१०२ ताण्ड्यमहाब्राह्मणे

अस्मिन्नहनि बहिष्पवमानस्य आद्यां स्तोत्रीयां पूर्वपक्षतया विदधाति—
पवन्ते वाजसातये सोमाः सहस्रपाजस इति सह-
स्रवती प्रतिपत्‌कार्या ॥ १५ ॥
प्रतिपद्यते प्रक्रम्यते बहिष्पवमानस्तोत्रे एषा प्रतिपत् सा सहस्रवती
सहस्रशब्दोपेता कार्या ॥ १५ ॥
एतां प्रशंसति—
सꣳवत्सरस्य रूपꣳ सर्व्वानेवैनानेतया पुनाति सर्वा-
नभिवदति ॥ १६ ॥
अस्यां हि बहुत्वसंख्या सहस्रपदेन प्रतीयते । संवत्सरश्च बहुदि-
वसात्मकः। अत एषा सहस्रवती संवत्सरस्य बहुदिवसात्मकस्य रूपम्
अनुरूपं अनुगुणेत्यर्थः, अपि चैतान् यजमानान् सर्व्वानेव एतया प्रति-
पदा पुनाति स्तोता शोधयति, कथमिति ? तदुच्यते यस्मादेषा पवन्ते
इत्यनेन बहुवचनेन सर्व्वानभिवदति प्रतिपादयति अत इत्यर्थः। यद्यपि
तत्र बहुवचनेन स्तोमबहुतवमेव प्रतीयते तथापि बहुत्वश्रुतिसामान्यात्
सर्व्वान् यजमानानेतया पुनातीति श्रुतिः ॥ १६ ॥
इत्थं ब्राह्मणाभिप्रेतं पक्षमभिधाय स्वाभिमतं पक्षं दर्शयति—
अथो खल्वाहुः पवस्व वाचो अग्रिय इत्येव कार्या
मुखं वा एतत् सꣳवत्सरस्य यद्वाचोग्रम्मुखत एव तत्
सꣳवत्सरमारभन्ते ॥ १७ ॥
अथो खल्विति पक्षान्तरव्यावृत्त्यर्थः । पवस्व वाच इत्येषैव बहि-
ष्पवमानस्य प्रतिपत्‌कार्येति ब्रह्मवादिन आहुः । अस्य प्रायणीयस्याह्न
एषाभिरूपेति स्तौति मुखं वा एतत् संवत्सरस्य यद्वाचोऽग्रं मुखत एव
तत् संवत्सरमारभन्त इति । वाचः स्तोत्रशस्त्रात्मिकायाः अग्र्यं प्रा-
थम्यं प्रथमयोग इति यत् एतत् संवत्सरस्य सत्रस्य गवामयनस्य मुखं
वै भवति, अस्याश्च प्रतिपदि पवस्व वाचो अग्रिय इति अग्रशब्दो वि-
द्यते । अनेन च श्रुतिसामान्येन स्तुतशस्त्रादिवाङ्निष्पाद्यस्य गवा-
मयनस्य मुखभूतमग्रं प्रतीयते । एवं सत्येषा प्रतिपद्भवतीति यत्तेन
संवत्सरसत्रं मुखत एव आरभन्ते यजमानाः प्रक्रमन्ते अस्यामृच्यग्रि-
यशब्दसद्भावात् अग्रियस्य चतुर्विंशस्य रूपेत्यभिप्रायः ॥ १७ ॥
एषा प्रजननहेतुत्वादपि प्रशस्तेत्याह—
मिथुनमिव वा एषा व्याहृतिः पवस्वेति पुꣳसो रूपं

चतुर्थाध्याये द्वितीयखण्डः । १०३
वाच इति स्त्रियाः सोमेति पुंसो रूपञ्चित्राभिरिति
स्त्रिया मिथुनमेवैभ्यो यज्ञमुखे दधाति प्रजननाय ॥ १८ ॥
एषा मन्त्रगता व्याहृतिरुक्तिर्मिथुनमिव वै इत्यवधारणे मिथुनरूपैव
भवति । तदेव दर्शयति-पवस्वेति यत् पवनं प्रतिपाद्यते तत् पुंसः पुरु-
षस्य रूपं प्रायेण स्तोमस्य पवनं पुरुषएव करोति। यद्वा पवनकर्त्तुः सो-
मस्य पुंस्त्वादस्य पुंरूपत्वं, वाच इति स्त्रीलिङ्गत्वात् स्त्रियारूपं, तथा
सोमेति यदामन्त्रितं तत् पुंसो रूपं चित्राभिरिति स्त्रियाः, एवं सति एषा
प्रतिपद्भवतीति यत् तेन एभ्यो यजमानेभ्यो यज्ञमुखे मिथुनमेव दधाति
किमर्थं प्रजननाय यजमानानां प्रजोत्पत्तये ॥ १८ ॥
अथास्याह अग्निष्टोमस्तोत्रे ब्राह्मणान्तरसिद्धं किञ्चित् साम वि-
दधाति—
अग्ने युङ्क्ष्वा हि ये तवेति जराबोधीयमग्निष्टोम
साम कार्य्यं युक्तेनैव संव्वत्सरेण प्रयन्ति चतुर्विग्ँशत्य-
क्षरासु भवति चतुर्विग्ँशस्य रूपम् ॥ १९ ॥
अग्ने युंक्ष्वा हीत्यस्मिंस्तृचे गायत्रे जराबोध्येत्यस्यामृच्युत्पन्नं साम
यद्यपि नाधीमहे तथाप्यूहेन अस्मिन्नहनि अग्निष्टोमसामत्वेन तत्कार्य्यम्।
एवं सति युङ्क्ष्वेति मन्त्रे युक्तत्वलिङ्गदर्शनात् उक्तेनैव परस्परसम्बद्धेनैव
संव्वत्सरसत्रेण प्रयन्ति गच्छन्ति सत्रस्य पारं प्राप्नुवन्तीत्यर्थः । कि-
ञ्च एतत्साम चतुर्विग्ँशत्यक्षरासु गायत्रीषु भवति, एतच्चाहश्चतुर्विं-
शस्तोमकं तथा सति संख्यासामान्यात् तत्साम अस्याह्नोऽनुरूपं
भवति ॥ १९ ॥
अथ स्वाभिमते सिद्धान्तमाह—
अथो खल्वाहुर्यज्ञायज्ञीयमेव कार्य्यम् ॥ २० ॥
स्पष्टोऽर्थः ॥ २० ॥
इमं पक्षं प्रशंसति —
पन्था वै यज्ञायज्ञीयं पथ एव तन्न यन्ति ॥ २१ ॥
यज्ञायज्ञीयमग्निष्टोमसामेति यदेतत् एष खलु पन्था यज्ञस्य न्या-
य्योमार्गः यज्ञायज्ञीयमग्निष्टोमसाम कुर्व्वन्तीति यत् तत्तेन पथः मा-
र्गादेव एतान् न यन्ति न गच्छन्ति प्रच्युता न भवन्ति ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे चतुर्थाध्यायस्य द्वितीयः खण्डः ।

१०४ ताण्ड्यमहाब्राह्मणे
अथ तृतीयः खण्डः।
अथास्मिन्नेवाहनि माध्यन्दिनसवने ब्राह्मणाच्छंसिनः पृष्ठस्तोत्र-
निवर्त्तकमेकं साम विधत्ते--
अभीवर्त्तो ब्रह्मसाम भवति ॥ १ ॥
तक्षोदभृतीवहामित्यस्मिन् योनावुत्पन्नं साम अभीवर्त्ताख्यम् एतत्
साम ब्राह्मणाच्छंसीयपृष्ठस्तोत्रमनुशंसति, तत्र वक्ष्यमाणासु ऋक्षु
कर्त्तव्यम् ॥ १ ॥
अथैतन्नामनिर्वचनेन प्रशंसति-
अभीवर्त्तेन वै देवाः स्वर्गं लोकमभ्यवर्त्तन्त यदभी-
वर्त्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै ॥ २ ॥
अभीवर्त्ताख्येन साम्ना देवाः स्वर्गं लोकमभ्यवर्त्तन्त अगच्छन्
अतएवास्याभिवृत्तिसाधनत्वादस्य साम्नोऽभीवर्त्त इति संज्ञा निष्पन्ना।
अतएव शाट्यायनकं यदभ्यवर्त्तन्त तदभीवर्त्तस्याभीवर्त्तत्वमिति, अ-
भिपूवार्द्धतुवर्त्तन इत्यस्मात्करणे घञ् “उपसर्गस्य घञ्यमनुष्येषु बहुल-
मि”ति पूर्वपदस्य दीर्घः। एवं सति अस्मिन्नहनि अभीवर्त्तो ब्रह्मणः
पृष्ठ्यसाम भवतीति यत् तत् स्वर्गस्य लोकस्याभिवृत्त्यै अभिवर्त्तना-
याभिगमनाय सत्त्रिणां सम्पद्यते ॥ २ ॥
अस्य च साम्नः इन्द्रं गीर्भिर्हवामह इति पादस्यान्त्यं हे इत्येतत्
हा इति विकृतं निधनं तदेतदनूद्य प्रशंसति-
एकाक्षरनिधनो भवत्येकाक्षरा वै वाग्वाचैव तदा-
रभ्य स्वर्गं लोकं यन्ति ॥ ३ ॥
अयमभीवर्त्त एकाक्षरनिधनः हे इत्येकमक्षरंनिधनं यस्य तादृशो
भवति वागप्येकाक्षरा इति तत्तेन एकाक्षरनिधनप्रयोगेण एकाक्षरया
वाचैव यज्ञमारभ्य स्वर्गं लोकं यान्ति यजमाना गच्छन्ति। एतदभीव-
र्त्ताख्यं साम पूर्वस्मिन् पक्षसि विद्यमानानामभिप्लविकानामह्नां स्वर-
साम्नां च माध्यन्दिने सवने वक्ष्यमाणासु ऋक्षु ब्रह्मणः पृष्ठस्तोत्रतया
कर्त्तव्यं तथा उत्तरस्मिन् पक्षसि “इन्द्रक्रतुन्न आभरे”त्येक एव प्रगाथः
ब्रह्मसामाश्रयः कर्त्तव्यः। प्रत्यहं तस्मिन् प्रगाथे अन्यदन्यत्साम ब्रह्मणः
पृष्ठ्यस्तोत्रार्थं कर्त्तव्यम् ॥ ३ ॥
तदेतदुभयं विधत्ते-
साम्नेतो यन्त्यृचा पुनरायन्ति ॥ ४ ॥

तृचस्

१०६ ताण्ड्यमहाब्राह्मणे
एतत् प्रजननहेतुत्वेन प्रशंसति—
वृषा वा एष रेतोधा यदभीवर्त्तः प्रगाथेषु रेतो द-
धदेति यदितः समान्ँसाम भवत्यन्योऽन्यः प्रगाथो
रेत एव तद्दधति यत्परस्तात् समानः प्रगाथो भवत्य-
न्यदन्यत्साम रेत एव तद्धितं प्रजनयन्ति ॥ ८ ॥
अभीवर्त्त इति एष वृषा वर्षणशीलः सेचनसमर्थो युवैव अत एव
रेतोधाः रेतसो वीर्य्यस्य निधाता स प्रगाथेषु प्रगाथस्थास्त्वृक्षु रेतो
दधत् एति गच्छति यत् इतश्चतुर्विंशादारभ्य सामानमेवाभीवर्त्ता-
ख्यं ब्रह्मसाम भवति प्रगाथस्तदाश्रयोऽन्योऽन्यः प्रत्यहं भिन्नो भवतीति
तदेतदुभयं तत्तेन सत्रिणो रेत एव दधति प्रजोत्पादनाय रेतसएव
धारणं कुर्व्वन्ति परस्तात् परस्मिन्नुत्तरस्मिन् पक्षसि समानः एकः
प्रगाथ इन्द्रक्रतुमित्यादिको भवति ब्रह्मसाम तु प्रत्यहमन्यदन्यद्विलक्ष-
णमेव भवतीति यत् तत्तेन हितं पूर्व्वस्मिन् पक्षस्याहितरेतएव प्रजन-
यन्ति बहुविधस्य साम्नः प्रयोगेण बहुविधकार्य्यरूपेणोत्पादयन्ति ॥८॥
प्रकारान्तरेण प्रशंसति—
साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात्सामानि
दुग्धे सलोमत्वाय ॥ ९ ॥
इतश्चतुर्विंशादारभ्य साम्नैकेन सर्व्वां प्रगाथां दुग्धे पूर्व्वस्मिन्
पक्षसि बहूनि फलानि प्रगाथेभ्यः क्षरयति युक्तात् परस्मिन् पक्षसि
प्रगाथेन पूर्व्वोक्तेन सामानि दुग्धे यान्यस्मिन् प्रगाथे प्रयुज्यन्ते तेभ्यः
फलानि क्षरयति एवं क्रियमाणमेतदुभयं सलोमत्वाय अनुलोमत्वा-
य भवति। ऋचो हि साम्नाम् आधारतया प्रथमसिद्धाः सामानि तु
तदाश्रितत्वात् पश्चाद्भावीनीति तेनैवानुपूर्व्येण फलोत्पादनमेवानयोः
सलोमत्वम् ॥ ९ ॥
पूर्व्वस्मिन् पक्षसि त्र्यृचां चैषामनावृत्तिः उत्तरस्मिंस्तु साम्नां तदु-
भयं प्रशंसति--
ये वा अध्वानं पुनर्निर्वर्त्तयन्ति नैनं ते गच्छन्ति ये
ऽपुनर्निवर्त्त यन्ति ते गच्छन्ति ॥ १० ॥
ये खलु पान्थाः अध्वानं पुनर्निर्वर्त्तयन्ति पुनः पुनर्निंवृत्ता गच्छ-
न्ति ते एतमध्वानं न गच्छन्ति अध्वनः पारं न प्राप्नुवन्ति, ये तु अपु-
नर्निवर्त्त पुनः पुनर्निंवृत्तिराहित्येनाध्वानं यन्ति ते गच्छन्ति अध्वानं

चतुर्थाध्याये चतुर्थखण्डः । १०७
एवमेव सत्रिणोऽपि सकृत्प्रयुक्तान् पुनरपि प्रयुञ्जानाः संवत्सरसत्रस्य
पारं प्राप्नुवन्ति ॥ १० ॥
प्रयुक्तस्य पुनः प्रयोगे दोषमाह--
य आस्तुतं कुर्वते यथा दुग्धामुपसीदेदेवन्तत् ॥ ११॥
आस्तुतं पूर्व्वस्तुतं प्रगाथं ये कुर्व्वते ते पुनः प्रयुञ्जते यथा दुग्धामु-
पसीदेत् दोग्धा दोग्धुमुपविशेत् एवमेव तद्भवति ॥ ११ ॥
एतदेव व्यतिरेकमुखेन द्रढयति--
ये नास्तुतं यं कामं कामयन्ते तमभ्यश्नवते ॥ १२ ॥
ये तु आस्तुतं सकृत्प्रयुक्तं न कुर्व्वते न पुनः प्रयुञ्जते यं कामं का-
मयन्ते तं प्राप्नुवन्ति ॥ १२ ॥
उक्तमर्थं विचारपूर्व्वकं नियमयति--
ब्रह्मवादिनो वदन्ति यातयामाः संवँत्सरा ३ अ-
यातयामा ३ इति ते नायातयामेति वक्तव्यं पुनरन्यानि
स्तोत्राणि निवर्त्तन्त ऊर्द्धमेव ब्रह्मसामेति ॥ १३ ॥
अस्मिन् गवामयनसत्रे ब्रह्मवादिनः परस्परमाहुः, किमिति ? अयं
संवत्सरः सत्रात्मकः किं यातयामो गतरसः उतायातयाम इति वि-
[L1

१०८ ताण्ड्यमहाब्राह्मणे
आर्षेयकल्पेनैव बोद्धव्यानि, तदेवं पूर्व्वस्मिन् पक्षसि चतुर्विꣳशाभिप्ल-
विकस्वरसामस्वरहःसु एकमेवाभीवर्त्तसाम पुनः पुनरावर्त्तनीयं, प्रगा-
थस्तु प्रत्यहं भिन्न इति स्थितं, तत्रादौ पञ्चमासाश्चतुरभिप्लवा इति तेषु
विंशतिशतमहान्याभिप्लविकानि भवन्ति षष्ठे तु त्रयोभिप्लवा इत्यष्टाद-
श त्रयः स्वरसामान इत्येकविंशतिः तदुभयम्मिलित्वा एकचत्वा-
रिंशच्छतमहानि भवन्ति । एतेष्वहःसु प्रगाथभेदस्योक्तत्वात्, के ते
स्तोत्रीयाः प्रगाथा द्व्यृचाश्चेत्याकांक्षायामाह--
पञ्चसु माःसु बार्हताः प्रगाथा आप्यन्ते ॥ १ ॥
पूर्व्वस्मिन् पक्षसि पञ्चसु माःसु मासेषु बार्हताः प्रगाथाः आप्य-
न्ते समाप्यन्ते । प्रगाथमुपलक्षणं बार्हतास्तृचाश्च समाप्यन्त इत्यर्थ

चतुर्थाध्याये चतुर्थः खण्डः । १०९
ते के छन्दसी इत्यतआह ।
तिस्र उष्णहः स्युरेका गायत्री तास्तिस्रो बृहत्यो-
भवन्ति ॥ ३ ॥
'तिसृभिरुष्णिग्भिरेकया च गायत्र्या तिस्रो बृहत्यः सम्पद्यन्ते उ-
ष्णिहस्त्वाद्वौ पादावष्टाक्षरौ तृतीयो द्वादशकः तथा सति तिसृषूष्णि-
क्षु एकैकस्य गायत्रपादस्य संयोजने प्रत्येकं बृहती भवति एवं छन्दो-
द्वयं संयुञ्जीतैवमित्यर्थः । तथाच सूत्रकृतोक्तं, षष्ठे मासि गायत्रीपा-
दमेकैकमुष्णिहामुपरिष्टात्कुर्या॥ दृष्टानुपपत्तिर्ह्यान्यथेति उष्णहा
गायत्री चेति, या एता ऐन्द्र्यश्चतस्रः अवशिष्टानां प्रथमेऽहनि प्रयुज्य-
न्ते तेभ्यो अन्या एवोत्तरेष्वहःसु प्रयोक्तव्याः य आस्तुतं कुर्वते यथा
दुग्धामुपसीदेदिति प्रयुक्तं पुनः प्रयोगे निन्दादर्शनात् ॥ ३

त्रिष्टुभा षष्ठं मासमीयुः श्वो विषुवान् भवितेति
जगतीमुपेयुः ॥ ७ ॥
एकाङ्गायत्रीछन्दसः प्राधान्यादेकवचनं एकङ्गायत्रीतृचं एकाहं
एकस्मिन्नहनि आदिभूते चतुर्विंशेऽहनि ब्रह्मसामाश्रयं उपेयुः उपग-
च्छेयुः कुर्युुरित्यर्थः, एवमुत्तरेष्वपि सङ्ख्यैकत्वं द्रष्टव्यं । एकामुष्णिह-
मेकमौष्णिहं तृचं एकाहं एकस्मिन्नहनिप्रथममासस्य प्रथमस्याभिप्ल-
वस्य प्रथमेऽहनि अभीवर्त्तस्याश्रयत्वेन कुर्युः । तस्यैव द्वितीयेऽहनि
एकामनुष्टुभं एकमानुष्टुभं तृचं ब्रह्मसामाधारत्वेनोपेयुः । ततो बृहत्या
बार्हतैः प्रगाथैस्तृचैश्च पञ्च मासः पञ्च मासान् प्रथमद्वितीयाभ्यामहो-
रात्राभ्यां वर्जितान् इयुः प्राप्नुयुः तेषु मासेषु बार्हतेषु तृचेषु च ब्रह्म-

सु बृहत्साम अतश्चतुर्विं-

Line 31:
शेऽहनि प्रथम आभिप्लविके च बृहत्यामभीवर्त्तं कुर्यात् द्वितीये त्रिष्टु-

Line 32:
भि एवमतऊर्ध्वं विन्यासेनोभयोश्छन्दसोः प्रयोगः । यद्वा चतुर्विंशे

Let's double-check all lines against the image:

Page header:
चतुर्थाध्याये चतुर्थः खण्डः । १११

L1:
एते वै बृहतीत्रिष्टुभौ छन्दसी वीर्यं वै वीर्यरूपे एव । वीर्यं वै त्रि-
(Note: in image, "एव। वीर्यं")

L2:
ष्टुबिति श्रुतेः, त्रिष्टुभोवीर्य्यत्वं बृहत्याश्रयमित्याहुरन्यानि च्छन्दां-
(Note: "च्छन्दां-" at end of line with hyphen)

L3:
सि वर्षीयांसि कस्माद्बृहत्या माध्यन्दिने स्तुवन्तीत्यादिना च्छन्दोऽन्त-

L4:
रेभ्यो वैशिष्ट्यप्रतीतेर्वीर्यवत्त्वं ननु गायत्र्याश्च सोमाहरणादौ छन्दो-

L5:
ऽन्तरेभ्यो वैशिष्ट्यदर्शनात् माध्यन्दिने पवमाने चान्वयित्वात्सापि

L6:
वीर्यर

११२ ताण्ड्यमहाब्राह्मणे
ऽहनि त्रिष्टुभि अभीवर्त्तः कार्य्यः बार्हतं ह्येतदहः अत ऊर्द्धं बृहती-
त्रिष्टुभोः क्रमेण प्रत्यहं विन्यासेन प्रयोग इति। निदानकारस्तु एतत्
पक्षद्वयमभिधाय पुनरपि पक्षान्तराण्यभ्यधात् बृहत्या चैतव्यं त्रिष्टु-
भा चैतव्यमिति प्रतीकमुपादाय त्रिष्टुभि चतुर्विंशेऽभीवर्त्तः कुर्य्यात्
बृहत्यां प्रथम आभिप्लविके त्रिष्टुभि द्वितीये एवमनुपूर्वं छन्दसोः प्र-
योगो भवति तत ऊर्द्धं विन्यसेत् इत्यादिना तत्सर्वं तत्रैव द्रष्टव्यं, इत्थं
त्रयः पक्षा गताः, प्रगाथेषु प्राप्तेषु छन्दसी संयुज्यैतव्यमिति प्रथमः
चतुरुत्तरैः छन्दोभिरेतव्यमिति द्वितीयः बृहत्या चैव त्रिष्टुभा चैतव्य-
मिति तृतीयः ॥ १० ॥
अथान्ये सप्त पक्षाः प्रदर्श्यन्ते।
त्रयस्त्रिꣳशता प्रगाथैरेतव्यं त्रयस्त्रिꣳशद्देवता दे-
वतास्वेव प्रतितिष्ठन्तोयन्ति, चतुर्विꣳशत्यैतव्यं चतु-
र्विꣳशतिरर्द्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठ-
न्तो यन्ति, द्वादशभिरेतव्यं द्वादशमासाः संवत्सरः
संवत्सर एव प्रतितिष्ठन्तोयन्ति, षड्भिरेतव्यꣳ षडृतव
ऋतुष्वेव प्रतितिष्ठन्तोयन्ति, चतुर्भिरेतव्यञ्चतुष्पादाः
पशवः पशुष्वेव प्रतितिष्ठन्तोद्यन्ति, त्रिभिरेतव्यन्त्रय-
इमे लोका एष्वेव लोकेषु प्रतितिष्ठन्तोयन्ति, द्वाभ्या-
मेतव्यन्द्विपाद्यजमानः स्वर्गस्य लोकस्याक्रान्त्या अन्ये-
नान्येन हि पदा पुरुषः प्रतितिष्ठन्नेति ॥ ११ ॥
चतुर्विंशप्रभृतिषु तृतीयस्वरसामान्तेष्वहःसु त्रयस्त्रिंशता त्र-
यस्त्रिंशत्संख्याकैर्बार्हतैः प्रगाथैरेतव्यं आदितस्त्रयस्त्रिंशत्स्वहःसु
त्रयस्त्रिंशत्प्रगाथानामभीवर्त्तस्य क्रमेण स्तोत्रीयत्वेन प्रयुज्य पुन-
रपि तैरेवावृत्तैस्तृतीयस्वरसामान्तं ब्रह्मसाम कर्त्तव्यं तथा सति
त्रयस्त्रिंशद्देवता अष्टौ वसव एकादश रुद्रा द्वादशादित्या, इन्द्रश्च प्रजा-
पतिश्चेति तास्वेव प्रतितिष्ठन्तः सन्तो यजमाना यन्ति एवमुत्तरत्रा-
पि व्याख्येयम् ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे चतुर्थाध्यायस्यचतुर्थः खण्डः ॥

"चतुर्थाध्याये पञ्चमः खण्डः । ११३"

Line 24:
"सा स्वशरीरभूतेनान्धकारेणाविध्यत् अबाधत आवृत्तवानित्यर्थः तं"
Wait, "आवृत्तवानित्यर्थः" or "आकृतवानित्यर्थः"?
Look at 'आवृत्तवानित्यर्थः':
आ व ृ त्त व ा नि त्य र्थः
Wait, could it be आवृणोति -> आवृण्वन् -> आवृतवानित्यर्थः?
Look at the conjunct:
आ, वृ, then double त (त्त) or single त (त)?
It looks like "आवृत्तवानित्यर्थः" (with double त्त, common spelling variant for आवृतवान्).

Line 25:
"आदित्यन्देवाः स्वरैः सामभिः अस्पृण्वन् तस्य तमसोऽपनयनेन अब-"

  • "आदित्यन्देवाः स्वरैः सामभिः अस्पृण्वन् तस्य तमसोऽपनयनेन अब-"

Line 26:
"लयन् स्पृ प्रीतिबलनयोः, बलिनं कृतवन्त इत्यर्थः। तथा सति स्वरसा-"

  • "लयन् स्पृ प्रीतिबलनयोः, बलिनं कृतवन्त इत्यर्थः। तथा सति स्वरसा-"
    Wait, after 'प्रीतिबलनयोः', there is a comma

११४ ताण्ड्यमहाब्राह्मणे
रणसाधनत्वात् एतेषां स्वराणीति संज्ञा सम्पन्ना, तथाच तैत्तिरीयकं
यदस्यारणं तत् स्वराणां स्वरत्वमिति ॥ २ ॥
अथैतेषां परसंज्ञान्तरहेतुकथनेन प्रशंसति ।
परैर्वै देवा आदित्यꣳ स्वर्गं लोकमपारयन्द्यदपार-
यꣳस्तत्पराणां परत्वं ॥ ३ ॥
परशब्दाभिधेयैरेतैः स्वरैः देवा आदित्यं स्वर्गं लोकमपारयन् प्रा-
पयन् । स्पष्टमन्यत् ॥ ३ ॥
वेदनं प्रशंसति ।
पारयन्त्येनं पराणि य एवं वेद ॥ ४ ॥
एतत् स्वरसंज्ञायामप्युपलक्षणं स्वराणि पराणीति संज्ञे यः इत्थं
वेद एनं वेदितारं स्वर्गं लोकं पारयन्ति सामानि प्रापयन्ति संज्ञावेद-
नेन स्वर्गप्राप्तिर्भवतीत्यर्थः ॥ ४ ॥
अथैतेषां स्वरसाम्नां स्तोमं विधत्ते ।
सप्तदशा भवन्ति ॥ ५ ॥
सर्वेषु स्तोत्रेषु सप्तदश स्तोमो भवतीत्यर्थः ॥ ५ ॥
तदेतत्प्रशंसति ।
प्रजापति र्वै सप्तदशः प्रजापतिमेवोपयन्ति ॥ ६ ॥
संवत्सरो हि प्रजापतिः सप्तदशो भवति द्वादशमासाः पञ्चर्तव
श्चेति एवं सति सप्तदश प्रयुञ्जानाः प्रजापतिमेवोपयन्ति ॥ ६ ॥
अनुष्टुप् छन्दसो भवन्त्यानुष्टुभो वै प्रजापतिः
साक्षादेव प्रजापतिमारभन्ते ॥ ७ ॥
प्रजापतिः सवनंछन्दांसि गायत्र्यादीनि सवनदेवताभ्यो विभज्य
अनुष्टुभं स्वं छन्दोऽकल्पयदिति ऐतरेयादिषु श्रवणात् प्रजापतेरानु-
ष्टुभां प्रयोगे सति साक्षात्प्रत्यक्षमेव आरभन्ते अवलम्बन्ते ॥ ७ ॥
एते स्वरसामानः कुत्रानुष्ठेया इति तेषां स्थानमाह ।
त्रयः पुरस्तात् त्रयः परस्ताद्भवन्ति ॥ ८ ॥
विषुवतः पुरस्तादभिजितऊर्ध्वमुपेतव्याः परस्ताद्विषुवतऊर्ध्वं वि-
श्वजितः प्राक् एतएव प्रतिलोममनुष्ठेया भवेयुः ॥ ८ ॥
अथैतान् प्रशंसति ।
देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुः

चतुर्थाध्याये पञ्चमः खण्डः । ११५
स्तमेतैः स्तोमैः सप्तदशैरदृꣳहन्यदेते स्तोमाभवन्त्या-
दित्यस्य धृत्यै ॥ ९ ॥
देवाः पुरा आदित्यस्य स्वर्गाल्लोकादवपादात् अधःपतनात् अबि-
भयुर्भीता आसन् तमादित्यमेतैः स्तोमैः सप्तदशकैः स्वरसामभिः अ-
भितः स्थितैः अदृंहन् अदृढयन् यदेते स्तोमाः स्तोमयुक्ताः स्वरसा-
मानोऽभितो भवन्ति तदादित्यस्य धृत्यै धारणाय स्थैर्याय भवन्ति ॥९॥
प्रकारान्तरेण प्रशंसति ।
चतुस्त्रिꣳशा भवन्ति वर्ष्म वै चतुस्त्रिꣳशो वर्ष्म-
णैवेनꣳ सम्मिमते ॥ १० ॥
तेषु स्वरसामसु प्रयुज्यमानाः सप्तदश स्तोमाः द्वौ द्वौ सम्पद्य च-
तुस्त्रिंशा भवन्ति चतुस्त्रिंशच्च वर्ष्म वै उच्छ्रितं स्थानं वर्ष्म तद्रूपः
खलु । ननु यत्र षड्विंश एव स्तोमानि त्रिवृदाद्यपेक्षया उच्छ्रितस्था-
नगताः न चतुस्त्रिंशाः कथन्तस्योच्छ्रितस्थानत्वं, नैषदोषः, त्रयस्त्रिं-
श एव एकाधिकश्चतुस्त्रिंशो भवतीति तदुपपत्तेः, एवं सति वर्ष्म-
णा उच्छ्रितेन स्थानेन सहैव एनमादित्यं विषुवदात्मकं सम्मिमते स-
त्रिणः स्थापयन्ति स्वरसामभ्यः पुरस्तादभिजित्कार्य्यः आवृत्तेभ्यस्ते-
भ्य ऊर्द्ध्वं विश्वजित् तयोर्विधिर्थवादेनोन्नेय इति ॥ १० ॥
तस्य पराचीनातिपादादबिभयुस्तꣳसर्वैः स्तोमैः
पर्य्यारिषन्विश्वजिदभिज्जिद्भ्यां वीर्य्यं वा एतौ स्तोमौ
वीर्य्येणैव तदादित्यं पर्युषन्ति धृत्यै ॥ ११ ॥
तस्यादित्यस्य पराचीनातिपादात्पराचीनेन अनाभिमुख्येन अति-
पादादत्यूर्द्धगमनात् शङ्कमानात् अबिभयुः भीता देवाः तं सर्व्वैः
स्तोमैस्त्रिवृदादिभिस्त्रयस्त्रिंशान्तैः पर्य्यार्षन् परिगता आसन् ऋषी
गतौ , परितोदृष्टीञ्चकुरित्यर्थः । कथं विश्वजिदभिज्जिद् भ्यां सर्वस्तो-
माभ्यामूर्द्ध्वं विश्वजिता अधस्तादभिजितेत्यर्थः, वीर्य्यं वा एतौ स्तोमौ
स्तोमवन्तौ विश्वजिदभ

एवं स्वरसाम्ना विश्वजिदभिजितोश्च प्रयोगेण धृतत्वात् आदित्या-
त्मनो विषुवतोऽधः पतनमूर्द्धगमनञ्च न भवतीत्यर्थः ॥ १२ ॥
तदेवं षष्ठे मासि त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडह अभिजित्
स्वरसामान इत्यनुपूर्व्यं कर्त्तव्या इत्युक्तं तत्र कश्चिद्दोषमाशङ्क्य पक्षा-
न्तरमुपन्यस्यति ।
तदाहुः कर्त्तप्रस्कन्द इव वा एष यत् त्रयस्त्रिंꣳशत
सप्तदशमुपयन्तीति पृष्ठ्योन्तरः कार्य्यः ॥ १३ ॥
तत्र विषये ब्रह्मवादिन आहुः, किमिति अभिजितो ह्यग्निष्टोमसाम
त्रयस्त्रिंशस्तोमकं तदनन्तरं यत् सप्तदशं स्तोमं स्वरसाम प्रापयन्ति
एषः कर्त्तप्रस्कन्द इव वै कर्त्ते अवरे प्रपात इव भवति उभयोर्मध्ये त्रि-
णवैकविंशौ विद्यमानावतिक्रम्य अवाचीने सप्तदशे प्रवृत्तिरिति तस्य
दोषस्यायं परिहारः । अभिजित् स्वरसाम्नोर्मध्ये पृष्ठ्यः षडहः अन्तरः
मध्यतः कार्य्यः ॥ १३ ॥
ननु तत्रापि पृष्ठस्य यत् षडहस्तस्मात् त्रयस्त्रिंशमुपेत इति उक्त-
दोषोऽपरिहृतो भवति तत्राह ।
तस्य यत्सप्तदशमहस्तदुत्तमं कार्यꣳसलोमत्वाय ॥१४॥
तस्य पृष्ठ्यषडहस्य सप्तदशं तृतीयमहस्तदुत्तमं पृष्ठं कार्यं तथा
सति सप्तदशात् सप्तदशमुपेतो भवति तत् सलोमत्वाय अनुरूपत्वाय
भवति । एतदेव शास्त्यायनमुनिभिर्विस्पष्टमाम्नातं, तदाहुः स्तोमत्वं स-
त्रमिव वा एतत् स्तोमोयन्ति यत्त्रयस्त्रिंशत् सप्तदशमुपयन्तीति ।
पुरस्तादेव पृष्ठस्य षडहस्याभिजितमुपेत्य पृष्ठस्यैव षडहस्य तस्य यन्म-
ध्ये सप्तदशस्तदुपारिष्टात् त्रयस्त्रिंशस्य पर्यहेयुः तत्सप्तदशात् सप्तदश-
मुपयन्ति ॥ १४ ॥
समात्समं स्तोमकृत् तत्र स्तोमा यन्तीति तमिमं पक्षं निरस्यति ।
तदाहुरुदरं वा एष स्तोमानां यत् सप्तदशो यत्
सप्तदशम्मध्यतो निर्हरेयुरशनायवः प्रजाः स्युरशनायवः
सत्रिणः ॥ १५ ॥
तत्रान्ये ब्रह्मवादिन आहुः । स्तोमानां मध्ये सप्तदश इति यत् एष-
यज्ञस्योदरं वै उदरस्थानीयः अतो यत् यदि सप्तदशं मध्यतः षडहस्य
मध्यात् निर्हरेयुः बहिः कुर्युः अन्नाद्यस्थानस्योदरस्य निर्हारात्तं देशव-
र्त्तिन्यः प्रजाः अशनायवो बुभुक्षिताः क्षुधार्त्ताः स्युर्भवेयुः ततः सत्रि-
णोपि अशनायवो भवेयुरिति ॥ १५ ॥

[Header]
चतुर्थाध्याये पञ्चमः खण्डः । ११७

कथं तत्र कर्त्तव्यमिति तदाह ।
त्रयस्त्रिंशादेव सप्तदश उपेत्यो वर्ष्म वै त्रयस्त्रिं-
शो वर्ष्म सप्तदशो वर्ष्मण एव तद्वर्ष्माभिसंक्रामन्ति ॥ १६ ॥
त्रयस्त्रिंशात् स्तोमात् पूर्वेद्युः क्रियमाणादेव अनन्तरं सप्तदश
एव स्तोम उपेत्यः उपगन्तव्यः । नन्वेवं सति कर्त्तप्रस्कन्दलक्षणो दोष
उक्त इति चेत् मैवं, त्रयस्त्रिंशः स्तोमो वर्ष्म अधिकसंख्यत्वात् श्रेष्ठः
खलु सप्तदशोपि प्रधानभूतानां पृष्ठस्तोत्राणां निर्वर्त्तकत्वात् वर्ष्म श्रेष्ठः ।
एवं सति यत् त्रयस्त्रिंशात्सप्तदशमुपयन्ति तद्वर्ष्मण एव श्रेष्ठादेव
वर्ष्म श्रेष्ठमभिसंक्रामन्ति अतः सदृशात्सदृशसंक्रान्तेः कर्त्तप्रस्कन्दल-
क्षणो दोषो न भवतीत्यर्थः ॥ १६ ॥
अथैतेषां स्वरसाम्नां संख्यानि

क्थानां पञ्चदशस्तोत्रशस्त्रत्वादुरुत्वं न हि गुरुलघू भारौ वीवधेन वोढुं
शक्यौ अतो वैषम्यादेतदवीवधम् ॥ १९ ॥
अग्निष्टोमा एव सर्व्वे कार्याः ॥ २० ॥
सर्व्वेऽपि स्वरसामानोऽग्निष्टोमसंस्था एव कार्याः ॥ २० ॥
अथैतत्प्रशंसति।
वीर्य्यं वा अग्निष्टोमो वीर्य्य एव मध्यतः प्रतिति-
ष्ठन्ति नव संस्तुता भवन्ति नव प्राणाः प्राणेष्वेव प्र-
तितिष्ठन्ति ॥ २१ ॥
योऽयमग्निष्टोमः स वीर्य्यं वै सर्व्वप्रकृतित्वाद्धीर्य्यरूप एव तथा सति
स्वरसाम्नोऽग्निष्टोमसंस्थान् कुर्व्वन्तः सत्रिणः मध्यतो गवामयनस्य
मध्ये वीर्य्यएव प्रतितिष्ठन्ति किञ्च संस्तुता एते षट् स्वरसामानो भ-
वन्ति नवसंख्यायाविभागे समाप्यन्ते तथाहि एकैकमहद्वादशस्तोत्रं
सर्व्वेषु च स्तोत्रेषु सप्तदश एव स्तोमः तत्रैकस्मिन्नहनि चतुरधिकद्वि-
शतस्तोत्रीया भवन्ति एवं षट्सु स्वरसामसु ससहस्रं चतुर्विंशत्युत्त-
रद्विशतञ्च स्तोत्रीया भवन्ति ताश्च षट्त्रिंशदधिकशतं नवका भव-
न्ति किमतो भवति उच्यते नवसंख्या हि पुरुषे प्राणाः सप्त शीर्षण्याः
द्वाववाञ्चाविति तथा सति नवसंख्याकेषु प्राणेष्वेव सत्रिणः प्रतिष्ठिता
भवन्ति दीर्घायुषोभवन्तीत्यर्थः ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे चतुर्थाध्यायस्य पञ्चमः खण्डः।
अथ षष्ठः खण्डः ।
गवामयनस्य मध्यवर्त्तिनि नवरात्रे अष्टावहान्युक्तानि अथ पूर्व्वोत्तर-
रयोः पक्षयोर्मध्येऽनुष्ठेयं गवामयनस्य प्रधानभूतं विषुवदाख्यमहः प्र-
दर्शयति ।
विषुवानेष भवति ॥ १ ॥
एष विषुवान् संवत्सरस्य सत्रस्य मध्यतो भवति ॥ १ ॥
अथैमं स्तौति ।
देवलोको वा एष यद्विषुवान्देवलोकमेव तदभ्या-
रोहन्ति ॥ २ ॥
यत् यो विषुवान् एष देवलोको वै देवानां लोकः स्थानभूत आदि-
त्यात्मको हि विषुवान् तत्तेन विषुवतः प्रयोगेण देवलोकमेव यजमाना
अभ्यारोहन्ति ॥ २ ॥