ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 121, कुल 518 में से
संदर्भ में पढ़ेंक्रमेण ऊर्द्धाभिमुखः सन् अयमग्निष्टोमो होतारमनुलक्ष्य सन्तिष्ठते
होता हि सर्वहोतॄणां मुख्यस्तदीयेनाग्निमारुतशस्त्रेणाग्निष्टोमः परिस-
माप्यते अतोऽस्य स्वर्ग्यत्वं ॥ ११ ॥
उक्थत्वे संवत्सरावाप्तिरूपं यत् फलमुक्तं तदप्यत्रापि विद्यत इत्याह-
द्वादशस्तोत्राण्यग्निष्टोमो द्वादश मासाः संवत्सर-
स्तेन संवत्सरसम्मितो द्वादश स्तोत्राणि द्वादश श-
स्त्राणि तच्चतुर्विꣳशतिश्चतुर्विꣳशतिरर्द्धमासाः सं-
वत्सरस्तेन संवत्सरसम्मितः ॥ १२ ॥
योयमग्निष्टोमः स द्वादशस्तोत्राणि द्वादशानां स्तोत्राणां सङ्ख्या-
त्मकः संवत्सरश्च द्वादशमासात्मकस्तेनायमग्निष्टोमसंस्थः संवत्सरस-
म्मितः संवत्सरसदृशस्तेन संवत्सरमेवाप्नुवन्तीत्यर्थः । किञ्चाग्निष्टोमे
द्वादश स्तोत्राणि द्वादश शस्त्राणि भवन्ति तदुभयम्मिलित्वा चतुर्विं-
शति सम्पद्यन्ते संवत्सरश्च चतुर्विंशत्यर्द्धमासात्मकः तेनाप्ययं संव-
त्सरसम्मितः ॥ १२ ॥
एवमग्निष्टोमसंस्थायाः सिद्धान्तत्वाशङ्कायामुक्तथसंस्थैव सिद्धान्त-
इति निगमयति-
अथो खल्वाहुरुक्थमेव कार्यमहः समृद्धयै ॥ १३ ॥
अथो इति पूर्वपक्षव्यावृत्त्यर्थः । उक्थसंस्थमेवैतदहः कार्य्यं, कि-
मर्थमहः समृद्धयै सम्पूर्णताया इति ब्रह्मवादिनआहुः । अग्निष्टोमे हि
पूर्वयोः सवनयोः पञ्चपञ्च स्तोत्राणि तृतीये तु द्वे एवेत्यहः समृद्धिन्न
भवति, उक्थे तु तृतीयसवने पञ्च स्तोत्राणीत्यहः समृद्धं भवति ॥१३॥
उक्थसंस्थाङ्गीकारे युक्त्यन्तरमाह-
सर्वाणि रूपाणि क्रियन्ते सर्वꣳ ह्येतेनाह्नाप्यते ॥१४॥
उत्तरेषामह्नां सम्बन्धीनि यानि रूपाणि स्तोमपृष्ठविभक्त्यादीनि
तान्यस्मिन्नुक्थे क्रियन्ते अतः सर्वं हि यज्ञसम्बन्धि रूपं तेनाह्ना
उक्थसंस्थेन आप्यते प्राप्यते तत उक्थसंस्थैव कार्येत्यर्थः । सर्वरूप-
करणञ्च सर्व्वावाप्तिश्च सम्पादनद्वारेणेति निदानकारेणैवमुच्यते, अथो
खल्वाहुः सर्वाणि रूपाणि क्रियन्त इति आचार्याः एतेष्वेव सर्व्वान्
स्तोमान् सर्व्वाणि पृष्ठानि सर्वा विभक्तीर्देशरात्ररूपाणीति विभक्ति-
मात्रेण कल्पयन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः
सम्पाद्यत इत्यादिना एतान्येवस्तोमपृष्ठादीनि प्रत्येकक्रमेण विविच्य
प्रदर्शितानि तत्सर्वं तत्रैवावगन्तव्यम् ॥ १४ ॥