ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 134, कुल 518 में से
संदर्भ में पढ़ें११४ ताण्ड्यमहाब्राह्मणे
रणसाधनत्वात् एतेषां स्वराणीति संज्ञा सम्पन्ना, तथाच तैत्तिरीयकं
यदस्यारणं तत् स्वराणां स्वरत्वमिति ॥ २ ॥
अथैतेषां परसंज्ञान्तरहेतुकथनेन प्रशंसति ।
परैर्वै देवा आदित्यꣳ स्वर्गं लोकमपारयन्द्यदपार-
यꣳस्तत्पराणां परत्वं ॥ ३ ॥
परशब्दाभिधेयैरेतैः स्वरैः देवा आदित्यं स्वर्गं लोकमपारयन् प्रा-
पयन् । स्पष्टमन्यत् ॥ ३ ॥
वेदनं प्रशंसति ।
पारयन्त्येनं पराणि य एवं वेद ॥ ४ ॥
एतत् स्वरसंज्ञायामप्युपलक्षणं स्वराणि पराणीति संज्ञे यः इत्थं
वेद एनं वेदितारं स्वर्गं लोकं पारयन्ति सामानि प्रापयन्ति संज्ञावेद-
नेन स्वर्गप्राप्तिर्भवतीत्यर्थः ॥ ४ ॥
अथैतेषां स्वरसाम्नां स्तोमं विधत्ते ।
सप्तदशा भवन्ति ॥ ५ ॥
सर्वेषु स्तोत्रेषु सप्तदश स्तोमो भवतीत्यर्थः ॥ ५ ॥
तदेतत्प्रशंसति ।
प्रजापति र्वै सप्तदशः प्रजापतिमेवोपयन्ति ॥ ६ ॥
संवत्सरो हि प्रजापतिः सप्तदशो भवति द्वादशमासाः पञ्चर्तव
श्चेति एवं सति सप्तदश प्रयुञ्जानाः प्रजापतिमेवोपयन्ति ॥ ६ ॥
अनुष्टुप् छन्दसो भवन्त्यानुष्टुभो वै प्रजापतिः
साक्षादेव प्रजापतिमारभन्ते ॥ ७ ॥
प्रजापतिः सवनंछन्दांसि गायत्र्यादीनि सवनदेवताभ्यो विभज्य
अनुष्टुभं स्वं छन्दोऽकल्पयदिति ऐतरेयादिषु श्रवणात् प्रजापतेरानु-
ष्टुभां प्रयोगे सति साक्षात्प्रत्यक्षमेव आरभन्ते अवलम्बन्ते ॥ ७ ॥
एते स्वरसामानः कुत्रानुष्ठेया इति तेषां स्थानमाह ।
त्रयः पुरस्तात् त्रयः परस्ताद्भवन्ति ॥ ८ ॥
विषुवतः पुरस्तादभिजितऊर्ध्वमुपेतव्याः परस्ताद्विषुवतऊर्ध्वं वि-
श्वजितः प्राक् एतएव प्रतिलोममनुष्ठेया भवेयुः ॥ ८ ॥
अथैतान् प्रशंसति ।
देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुः