सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 136, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 136

एवं स्वरसाम्ना विश्वजिदभिजितोश्च प्रयोगेण धृतत्वात् आदित्या-
त्मनो विषुवतोऽधः पतनमूर्द्धगमनञ्च न भवतीत्यर्थः ॥ १२ ॥
तदेवं षष्ठे मासि त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडह अभिजित्
स्वरसामान इत्यनुपूर्व्यं कर्त्तव्या इत्युक्तं तत्र कश्चिद्दोषमाशङ्क्य पक्षा-
न्तरमुपन्यस्यति ।
तदाहुः कर्त्तप्रस्कन्द इव वा एष यत् त्रयस्त्रिंꣳशत
सप्तदशमुपयन्तीति पृष्ठ्योन्तरः कार्य्यः ॥ १३ ॥
तत्र विषये ब्रह्मवादिन आहुः, किमिति अभिजितो ह्यग्निष्टोमसाम
त्रयस्त्रिंशस्तोमकं तदनन्तरं यत् सप्तदशं स्तोमं स्वरसाम प्रापयन्ति
एषः कर्त्तप्रस्कन्द इव वै कर्त्ते अवरे प्रपात इव भवति उभयोर्मध्ये त्रि-
णवैकविंशौ विद्यमानावतिक्रम्य अवाचीने सप्तदशे प्रवृत्तिरिति तस्य
दोषस्यायं परिहारः । अभिजित् स्वरसाम्नोर्मध्ये पृष्ठ्यः षडहः अन्तरः
मध्यतः कार्य्यः ॥ १३ ॥
ननु तत्रापि पृष्ठस्य यत् षडहस्तस्मात् त्रयस्त्रिंशमुपेत इति उक्त-
दोषोऽपरिहृतो भवति तत्राह ।
तस्य यत्सप्तदशमहस्तदुत्तमं कार्यꣳसलोमत्वाय ॥१४॥
तस्य पृष्ठ्यषडहस्य सप्तदशं तृतीयमहस्तदुत्तमं पृष्ठं कार्यं तथा
सति सप्तदशात् सप्तदशमुपेतो भवति तत् सलोमत्वाय अनुरूपत्वाय
भवति । एतदेव शास्त्यायनमुनिभिर्विस्पष्टमाम्नातं, तदाहुः स्तोमत्वं स-
त्रमिव वा एतत् स्तोमोयन्ति यत्त्रयस्त्रिंशत् सप्तदशमुपयन्तीति ।
पुरस्तादेव पृष्ठस्य षडहस्याभिजितमुपेत्य पृष्ठस्यैव षडहस्य तस्य यन्म-
ध्ये सप्तदशस्तदुपारिष्टात् त्रयस्त्रिंशस्य पर्यहेयुः तत्सप्तदशात् सप्तदश-
मुपयन्ति ॥ १४ ॥
समात्समं स्तोमकृत् तत्र स्तोमा यन्तीति तमिमं पक्षं निरस्यति ।
तदाहुरुदरं वा एष स्तोमानां यत् सप्तदशो यत्
सप्तदशम्मध्यतो निर्हरेयुरशनायवः प्रजाः स्युरशनायवः
सत्रिणः ॥ १५ ॥
तत्रान्ये ब्रह्मवादिन आहुः । स्तोमानां मध्ये सप्तदश इति यत् एष-
यज्ञस्योदरं वै उदरस्थानीयः अतो यत् यदि सप्तदशं मध्यतः षडहस्य
मध्यात् निर्हरेयुः बहिः कुर्युः अन्नाद्यस्थानस्योदरस्य निर्हारात्तं देशव-
र्त्तिन्यः प्रजाः अशनायवो बुभुक्षिताः क्षुधार्त्ताः स्युर्भवेयुः ततः सत्रि-
णोपि अशनायवो भवेयुरिति ॥ १५ ॥