सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 126, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 126

१०६ ताण्ड्यमहाब्राह्मणे
एतत् प्रजननहेतुत्वेन प्रशंसति—
वृषा वा एष रेतोधा यदभीवर्त्तः प्रगाथेषु रेतो द-
धदेति यदितः समान्ँसाम भवत्यन्योऽन्यः प्रगाथो
रेत एव तद्दधति यत्परस्तात् समानः प्रगाथो भवत्य-
न्यदन्यत्साम रेत एव तद्धितं प्रजनयन्ति ॥ ८ ॥
अभीवर्त्त इति एष वृषा वर्षणशीलः सेचनसमर्थो युवैव अत एव
रेतोधाः रेतसो वीर्य्यस्य निधाता स प्रगाथेषु प्रगाथस्थास्त्वृक्षु रेतो
दधत् एति गच्छति यत् इतश्चतुर्विंशादारभ्य सामानमेवाभीवर्त्ता-
ख्यं ब्रह्मसाम भवति प्रगाथस्तदाश्रयोऽन्योऽन्यः प्रत्यहं भिन्नो भवतीति
तदेतदुभयं तत्तेन सत्रिणो रेत एव दधति प्रजोत्पादनाय रेतसएव
धारणं कुर्व्वन्ति परस्तात् परस्मिन्नुत्तरस्मिन् पक्षसि समानः एकः
प्रगाथ इन्द्रक्रतुमित्यादिको भवति ब्रह्मसाम तु प्रत्यहमन्यदन्यद्विलक्ष-
णमेव भवतीति यत् तत्तेन हितं पूर्व्वस्मिन् पक्षस्याहितरेतएव प्रजन-
यन्ति बहुविधस्य साम्नः प्रयोगेण बहुविधकार्य्यरूपेणोत्पादयन्ति ॥८॥
प्रकारान्तरेण प्रशंसति—
साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात्सामानि
दुग्धे सलोमत्वाय ॥ ९ ॥
इतश्चतुर्विंशादारभ्य साम्नैकेन सर्व्वां प्रगाथां दुग्धे पूर्व्वस्मिन्
पक्षसि बहूनि फलानि प्रगाथेभ्यः क्षरयति युक्तात् परस्मिन् पक्षसि
प्रगाथेन पूर्व्वोक्तेन सामानि दुग्धे यान्यस्मिन् प्रगाथे प्रयुज्यन्ते तेभ्यः
फलानि क्षरयति एवं क्रियमाणमेतदुभयं सलोमत्वाय अनुलोमत्वा-
य भवति। ऋचो हि साम्नाम् आधारतया प्रथमसिद्धाः सामानि तु
तदाश्रितत्वात् पश्चाद्भावीनीति तेनैवानुपूर्व्येण फलोत्पादनमेवानयोः
सलोमत्वम् ॥ ९ ॥
पूर्व्वस्मिन् पक्षसि त्र्यृचां चैषामनावृत्तिः उत्तरस्मिंस्तु साम्नां तदु-
भयं प्रशंसति--
ये वा अध्वानं पुनर्निर्वर्त्तयन्ति नैनं ते गच्छन्ति ये
ऽपुनर्निवर्त्त यन्ति ते गच्छन्ति ॥ १० ॥
ये खलु पान्थाः अध्वानं पुनर्निर्वर्त्तयन्ति पुनः पुनर्निंवृत्ता गच्छ-
न्ति ते एतमध्वानं न गच्छन्ति अध्वनः पारं न प्राप्नुवन्ति, ये तु अपु-
नर्निवर्त्त पुनः पुनर्निंवृत्तिराहित्येनाध्वानं यन्ति ते गच्छन्ति अध्वानं