ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 129, कुल 518 में से
संदर्भ में पढ़ेंचतुर्थाध्याये चतुर्थः खण्डः । १०९
ते के छन्दसी इत्यतआह ।
तिस्र उष्णहः स्युरेका गायत्री तास्तिस्रो बृहत्यो-
भवन्ति ॥ ३ ॥
'तिसृभिरुष्णिग्भिरेकया च गायत्र्या तिस्रो बृहत्यः सम्पद्यन्ते उ-
ष्णिहस्त्वाद्वौ पादावष्टाक्षरौ तृतीयो द्वादशकः तथा सति तिसृषूष्णि-
क्षु एकैकस्य गायत्रपादस्य संयोजने प्रत्येकं बृहती भवति एवं छन्दो-
द्वयं संयुञ्जीतैवमित्यर्थः । तथाच सूत्रकृतोक्तं, षष्ठे मासि गायत्रीपा-
दमेकैकमुष्णिहामुपरिष्टात्कुर्या॥ दृष्टानुपपत्तिर्ह्यान्यथेति उष्णहा
गायत्री चेति, या एता ऐन्द्र्यश्चतस्रः अवशिष्टानां प्रथमेऽहनि प्रयुज्य-
न्ते तेभ्यो अन्या एवोत्तरेष्वहःसु प्रयोक्तव्याः य आस्तुतं कुर्वते यथा
दुग्धामुपसीदेदिति प्रयुक्तं पुनः प्रयोगे निन्दादर्शनात् ॥ ३