सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

तृतीयाध्याये तृतीयखण्डः । ७९
स्नायु चास्थि मज्जेत्येवं वा पञ्चसम्बन्धात् पाङ्क्ताः । अत आवापस्था-
नीयाः पञ्चर्चः पशव इत्युपचर्य्यते । परिचरा च यजमानस्थानीया एक-
त्वसाम्यात् । एवं स पञ्चभिर्ऋग्भिरावापस्थानगताभिरिमां विष्टुतिं वि-
दधाति परिचरा चैका भवति तत्तेन यजमानमेव पशुष्ववस्थापयति ।
एषा तु त्रिणवस्य विष्टुतिः प्रतिष्ठिता उक्तप्रकारेण पशुषु यजमान-
स्यावस्थितिहेतुत्वात् अतो य एतया स्तुते स प्रतितिष्ठति ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ त्रिणवस्योद्यत्याख्यां द्वितीयां विष्टुतिमाह—
सप्तभ्यो हिङ्करोति स तिसृभिस्स एकया नवभ्यो
हिङ्करोति स एकया स तिसृभिस्स पञ्चभिरेकादश-
भ्यो हिङ्करोति स पञ्चभिस्स तिसृभिः स तिसृभिरु-
द्यती त्रिणवस्य विष्टुतिः ॥ १ ॥
तत्र सप्तभ्यो नवभ्य एकादशभ्यः प्रतिसंख्यारोहणम्, उद्यत्येषा
विष्टुतिस्त्रिणवस्य ॥ १ ॥
अथ एतां प्रशंसति—
एतया वै देवाः स्वर्गं लोकमयन् स्वर्गकामः स्तु-
वीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभि-
क्रान्तेन हि यज्ञसृध्नोति तस्मादेतया स्तोतव्यमृ-
ध्या एव ॥ २ ॥
त्रिवृत्पञ्चदशयोरुद्यत्यर्थवादवदेतत्सर्व्वं ज्ञेयम् ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
त्रयस्त्रिꣳशस्तोमस्य विष्टुतयः पञ्च तत्राद्यां समङ्कशाख्यां दर्शयति—
एकादशभ्यो हिङ्करोति स तिसृभिस्स सप्तभिस्स
एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिस्स

८० ताण्ड्यमहाब्राह्मणे
सप्तभिरेकादशभ्यो हिङ्करोति स सप्तभिस्स एकया
स तिसृभिः ॥ १ ॥
त्रयाणां पर्यायाणां समसंख्यात्वात् समञ्चैषा विष्टुतिः ॥ १ ॥
अथैतां विष्टुतिं स्तौति—
अन्तो वै त्रयस्त्रिꣳशः परमो वै त्रयस्त्रिꣳशस्तो-
मानाꣳ सप्तभिर्विहितैका परिचरा सप्त ग्राम्याः पश-
वो यजमानः परिचरा यत्सप्तभिर्विदधात्येका परिचरा
भवति यजमानमेव तदन्ततः पशुषु प्रतिष्ठापयत्येषा
वै प्रतिष्ठिता त्रयस्त्रिꣳशस्य विष्टुतिः प्रतितिष्ठति य
एतया स्तुते ॥ २ ॥
यस्त्रयस्त्रिꣳशस्तोमोऽस्ति एष अन्तो वै चरमः खलु पृष्ठ्यषडहस्तो-
मापेक्षयास्यान्तत्वं तदेवमाह--परमो वै अयं त्रयस्त्रिꣳशः परमो वै
पृष्ठ्यानामुत्तमः खलु । शिष्टं त्रिणवस्याद्यविष्टुत्यर्थवादवद्व्याख्येयम् ।
अन्तत इति षडहस्यान्तत इत्यर्थः ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य तृतीयः खण्डः॥

अथ चतुर्थ खण्डः ।
अथैवानेदीयःसंक्रमाख्यां द्वितीयां विष्टुतिमाह—
एकादशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स
तिसृभिरेकादशभ्यो हिङ्करोति स तिसृभिः स तिसृ-
भिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स
तिसृभिः स तिसृभिर्नेदीयःसंक्रमा ॥ १ ॥
नेदीयसि अन्तिकतमे संख्याविशेषे संक्रामतीति नेदीयःसंक्रमा ।
तथा हि प्रथमे पर्याये आरोहावरोहाभ्यां तिसृभ्यः पञ्चसु पञ्चभ्यः ति-
सृष्वित्येवमन्तरिताः अयुक्संख्यास्तेषां संक्रामति । द्वितीयतृतीययो-
रपि यथासंख्यमारोहावरोहाभ्यां अन्तिकतमामेवायुक्संख्यां क्रामति ।
यथा पूर्व्वा विष्टुतिः तिसृभ्यस्सप्तसु सप्तभ्य एकस्यामिति व्यवहित-
संक्रमा तद्वैलक्षण्यादेषा नेदीयःसंक्रमा ॥ १ ॥

तृतीयाध्याये पञ्चमखण्डः । ८१
अथोक्ता विष्टुतिस्त्रयस्त्रिꣳशेन संगतेत्याह—
अन्तो वै त्रयस्त्रिꣳशो यथा महावृक्षस्याग्रꣳ सृ-
प्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसंक्रमया
नेदीयःसंक्रमात् संक्रामति ॥ २ ॥
षडहस्तोमापेक्षयास्यान्तत्वं कश्चित्पुरुषो महावृक्षस्याग्रम् अन्ति-
कतमां शाखामलम्ब्यारुह्य ततो नेदीयः संक्रमात्संक्रामति एवमेतया
विष्टुत्या नेदीयःसंक्रमाख्यया नेदीयस्यान्तिकतमे संख्याविशेषे
संक्रामति ॥ २ ॥
अथैनां प्रतिष्ठाहेतुत्वेन प्रशꣳसति—
पञ्चभिर्विहितास्तिस्रः परिचराः पाङ्क्ताः पशव
एतावान् पुरुषो यदात्मा प्रजा जाया यत्पञ्चभिर्विद-
धाति तिस्रः परिचरा भवन्ति यजमानमेव तत्पशुषु
प्रतिष्ठापयति पशुमान् भवति य एतया स्तुते ॥ ३ ॥
त्रिणवस्य प्रथमविष्टुत्यर्थवादवद्व्याख्येयम् । अत्र त्वयं विशेषः ।
परिचरास्तिस्रश्च यजमानपुत्रपत्नीस्थानीयाः तथासति प्रजया जाया-
सहितं यजमानमेव पशुषु स्तोता स्थापितवान् भवति ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथास्यैव स्तोमस्योद्यत्याख्यां विष्टुतिमाह—
नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स ए-
कयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स
सप्तभिस्त्रयोदशभ्यो हिङ्करोति स सप्तभिः स तिसृभि-
रुद्यती त्रयस्त्रिꣳशस्य विष्टुतिः ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
स्वर्गकामस्यैषा विष्टुतिरिति प्रदर्शयंन्निमां प्रशꣳसति—
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तु-
वीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते
तुष्टुवानोऽग्रादग्रꣳरोहत्यभिक्रामन्ती विष्टुतिरभिक्रा-

८२ ताण्ड्यमहाब्राह्मणे

न्या एवाभिक्रान्तेन हि यज्ञस्य॒र्ध्नोति तस्मादेतया स्तो-
तव्यमृद्ध्या एव ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
अथास्यैव विष्टुत्यन्तरमाह—
त्रयोदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स
पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चाभिः स तिसृभिः
स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः
स तिसृभिः प्रत्यवरोहिणी त्रयस्त्रिꣳशस्य विष्टुतिः ॥ १॥
त्रयोदशभ्य एकादशभ्यो नवभ्य इति संख्याया उत्तरोत्तरमवरो-
हणादेषा प्रत्यवरोहिणी ॥ १ ॥
एतदेव सदृष्टान्तमुपपादयति—
यथा महावृक्षस्याग्रꣳ सृप्त्वा शाखायाः शाखामा-
लम्भमुपावरोहेदेवमेतयेमं लोकमुपावरोहति प्रतिष्ठायै २॥
यथा कश्चिदुन्नतस्य वृक्षस्याग्रमारुह्योपरितनायाः शाखायाः शा-
खामारम्भमवलम्ब्यावलम्ब्य पृथिव्यामुपावरोहेत् एवमेव त्रिवृदादि-
क्रमेणानुष्ठाय षष्ठेऽहनि त्रयस्त्रिꣳशेनाधिकसंख्येन स्वर्गमारुह्यैतया वि-
ष्टुत्येमं लोकमुपावरोहति प्रतिष्ठायै अस्मिन् लोके चिरावस्था-
नार्थम् ॥ २ ॥
अथैनामायुर्हेतुत्वेन प्रशꣳसति—
त्रिवृता प्रैति त्रिवृतोदेति प्राणा वै त्रिवृत् प्राणेनैव
प्रैति प्राणमभ्युदेति सर्वमायुरेति न पुरायुषः प्रमीयते
य एतया स्तुते ॥ ३ ॥
पृष्ठ्यषडहस्य प्रथमेऽहनि त्रिवृत् प्रयुज्यते षष्ठेऽहनि त्रयस्त्रिꣳशः
उत्तमे पर्याये नवभ्यो हिंकरोतीति विधानादन्ते च त्रिवृत् प्रयुज्यते ।
अतस्त्रिवृता प्रैति प्रक्रमते त्रिवृतैवोदेत्युद्गच्छति परिसमापयति प्राणा-
पानव्यानरूपेण वृत्तित्रयात्मको यः प्राणोऽस्ति स त्रिवृत्स्थानीयो भवति
तथासति प्राणेनैव प्रक्रमसमाप्तीकृते भवत एवं प्राणस्य त्यागात् यज-
मानः सर्व्वं सम्पूर्णमायुरेति ततः पूर्व्वन्न म्रियते ॥ ३ ॥

तृतीयाध्याये सप्तमखण्डः । ८३
एषा केषाञ्चिन्नित्येत्याह—
तामेताङ्कराद्विष उपासते तस्मात्ते सर्व्वमायुर्य्यन्ति ॥४॥
कराद्विषो नाम केचित् शाखिविशेषा गोत्रविशेषा वा ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य षष्ठः खण्डः ।
अथ सप्तमः खण्डः ।
अथ तस्यैवान्त्यां विष्टुतिमाह—
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिरेका-
दशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभि-
स्सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः॥१॥
स्पष्टार्थः ॥ १ ॥
अथैतां प्रशंसति—
यो वै त्रयस्त्रिꣳशमेकविꣳशे प्रतिष्ठितं वेद प्रतिति-
ष्ठति प्रतिष्ठा वा एकविꣳशः स्तोमानां यदेताः सप्त त्रय-
स्त्रिꣳशस्योत्तमा भवन्ति सप्तविधैकविꣳशस्य विष्टु-
तिरेकविꣳश एव तत् त्रयस्त्रिꣳशं प्रतिष्ठापयति प्रति-
तिष्ठति य एतया स्तुते ॥ २ ॥
यः खलु त्रयस्त्रिꣳशमेकविꣳशे प्रतिष्ठितं जानाति स प्रति-
तिष्ठति । कथं तस्य प्रतिष्ठालाभः ? य एकविꣳशस्तोमानां मध्ये
प्रतिष्ठाहेतुः खलु सर्वप्रकृतिभूतो ह्यग्निष्टोम एकविꣳशेन सन्ति-
ष्ठत इति तस्य प्रतिष्ठितत्वम् । त्रयस्त्रिꣳशस्य कथमेकविꣳशे
प्रतिष्ठानमित्यत आह--अस्यां विष्टुतौ त्रयस्त्रिꣳशस्योत्तमे पर्य्याये
सप्तभ्य इति विहिता एताः सप्तर्च उत्तमा भवन्ति एकविꣳशस्य वि-
ष्टुतिः सप्तधा एकैकस्मिन् पर्य्याये सप्तर्चो भवन्ति यद्यस्मादेवं तस्मा-
देकविꣳश एव त्रयस्त्रिꣳशं प्रतिष्ठापयति । अतो य एतया स्तुते स
यजमानः प्रतितिष्ठति ॥ २ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य सप्तमः खण्डः ।

८४ ताण्ड्यमहाब्राह्मणे
अथ अष्टमः खण्डः ।
इत्थन्तु पृष्ठ्यषडहस्य त्रिवृदादयः षट्स्तोमाः क्रमेण विहिताः ।
'अथ छन्दोगानां चतुर्विꣳशश्चत्वारिꣳशोष्टाचत्वारिꣳश इति त्रयस्तो-
माः, तत्र प्रथमस्य स्तोमस्यैका विष्टुतिः सा प्रदर्श्यते—
अष्टाभ्यो हिङ्करोति स तिसृभिः स चतसृभिः स
एकयाऽष्टाभ्यो हिङ्करोति स एकया स तिसृभिः स
चतसृभिरष्टाभ्यो हिङ्करोति स चतसृभिस्स एकया
स तिसृभिः ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
अथैतां प्रशꣳसति—
पशवो वै छन्दोगा यदष्टाभ्योऽष्टाभ्यो हिङ्करोति
अष्टाशफाः पशवः शफशस्तत्पशूनाप्नोति ॥ २ ॥
पशुसाधनत्वाच्छन्दोगानां पशुत्वमेवं भवति त्रिष्वपि पर्यायेष्व-
ष्टाभ्यो हिङ्करोतीति यत्तत्तेन पशवश्चाष्टाशफास्तत्पशून् शफशः शफ-
द्वारेणाप्नोति ॥ २ ॥
अथैतां प्रकारान्तरेण स्तौति—
चतसृभिर्विहितैका परिचरा चतुष्पादाः पशवो
यजमानः परिचरा यच्चतसृभिर्विदध्यादेका परिचरा
भवति यजमानमेव तत्पशुषु प्रतिष्ठापयत्येषा वै प्रति-
ष्ठिता चतुर्विꣳशस्य विष्टुतिः प्रतितिष्ठति य एतया
स्तुते ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य अष्टमः खण्डः ।
अथ नवमः खण्डः ।
अथ चतुश्चत्वारिꣳशस्य तिस्रो विष्टुतयः तत्र प्रथमामाह—
पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादश-
भिः स एकया, चतुर्दशभ्यो हिङ्करोति स एकया स

तृतीयाध्याये नवमखण्डः । ८५
तिसृभिः स दशभिः, पञ्चदशभ्यो हिङ्करोति स एका-
दशभिः स एकया स तिसृभिः ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
अथैतां प्रशꣳसति ।
ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश
उत्तमा यत्पञ्चदशिन्यौ पूर्वे भवतश्चतुर्दशोत्तमा ब्रह्मणि
चैव तत् क्षत्रे चौजो वीर्य्यं दधाति ब्रह्मणे चैव तत्क्ष-
त्राय च विशमनुगां करोति क्षत्रस्येवास्य प्रकाशो भ-
वति य एतया स्तुते ॥ २ ॥
तृचगतास्तिस्रः स्तोत्रीयाः क्रमेण ब्रह्मक्षत्रविशामायतनभूताः,
एवं सति तिसृष्वपि पर्यायेषु विष्टावगणनया पूर्वे प्रथममध्यमोत्तमे
स्तोत्रीये पञ्चदशिन्यौ पञ्चदशसंख्योपेते भवतः। उत्तमा तृतीया चतु-
र्दशविष्टावगणनया चतुर्दशसंख्याका तत्तेनोक्तप्रकारेण ब्रह्मक्षत्रायतन-
भूतयोरधिकसंख्यात्वात् ब्रह्मक्षत्रयोरेवौजॊ वीर्यं च दधाति। तत्तथा
ब्रह्मक्षत्रार्थं विशमनुगामनुगन्त्रीङ्करोति विशायतनाया उत्तमाया ही-
नसंख्यात्वादस्यां विष्टुतौ क्षत्रस्याधिक्याच्च एतया स्तुते तस्य
क्षत्रियजातेरिव कीर्तिर्भवति ॥ २ ॥
तां पुनः प्रशꣳसति—
अस्तोमा वा एते यच्छन्दोगा अयुजो हि स्तोमा
युग्मन्ति छन्दाꣳसि यदेषा युजिनी चतुश्चत्वारिꣳश-
स्य विष्टुतिस्तेनास्तोमाः ॥ ३ ॥
छन्दोभिर्गायत्रीत्रिष्टुप्जगतीभिर्गीयन्त इति छन्दोगाश्चतुर्विꣳशा-
दयः यद्य इमे छन्दोगा एते अस्तोमा वै स्तोमलक्षणरहिताः खलु। कथं ?
अयुजः अयुक्संख्या हि अन्ये प्रसिद्धाः त्रिवृदादयः स्तोमा उक्तानि
गायत्र्यादीनि छन्दाꣳसि युग्मन्ति युक्तसंख्यावन्ति इति स्तोमलक्षण-
राहित्यम् । एवमस्तोमवत्त्वे प्राप्ते समाधत्ते यस्मादेतेषां मध्ये चतुश्च-
त्वारिꣳशस्य स्तोमस्य विहितैषा विष्टुतिरयुजिनी अयुक्संख्योपेता
द्वयोः पर्याययोः पञ्चदशसंख्यायोगात् अतः स्तोमलक्षणसद्भावाच्चतु-
र्विꣳशादीनामपि स्तोमत्वं सिद्धम् ॥ ३ ॥
अथैतां पुनः प्रशꣳसति--
एषा वै प्रतिष्ठिता चतुश्चत्वारिꣳशस्य विष्टुतिः
८ ता० ब्रा०

प्रपाठक ६-१० (माध्यन्दिन सवन एवं पृष्ठ्य षडह विधान)

८६ ताण्ड्यमहाब्राह्मणे
प्रतितिष्ठति य एतया स्तुते ॥ ४ ॥
आद्यन्तयोः पर्याययोः पञ्चदशसंख्यासाम्यादस्याः प्रतिष्ठितत्वम्॥४॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य नवमः खण्डः।
अथ दशमः खण्डः ।
अथास्यैव द्वितीया निर्मध्याख्या विष्टुतिः--
चतुर्दशभ्यो हिङ्करोति स तिसृभिः स दशभिः स
एकया, पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः
स एकादशभिः, पञ्चदशभ्यो हिङ्करोति स एकादशभि-
र्स एकया स तिसृभिर्निर्मध्या ॥ १ ॥
अत्र प्रथमोत्तमे ऋचौ विष्टावे पञ्चदशिन्यौ मध्यमा चतुर्दशसंख्या-
केति हीनमध्यत्वान्निर्मध्या भवति ॥ १ ॥
अथैतां प्रशंसति--
अस्तावि वा अयं लोकोस्तीवासौ छिद्रमिवेद मन्त-
रिक्षं यदेषा निर्मध्या भवती

तृतीयाध्याये एकादशखण्डः । ८७
स्पष्टोर्थः ॥ १ ॥
अथोक्तानां तिसृणां विष्टुतीनां प्रयोगस्यानियमे प्राप्ते सवनत्रयभे-
देन व्यवस्थामाह—
आज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीया ॥२॥
आज्यानां प्रातःसवनिकानां स्तोत्राणां प्रथमया विष्टुत्या चतुश्च-
त्वारिꣳशस्तोमक्लृप्तिः, पृष्ठानां पृष्ठस्तोत्राणां माध्यन्दिनगतानां चतु-
र्णां चतुश्चत्वारिꣳशस्य द्वितीया विष्टुतिः तथोक्थानां च। अत्रोक्थ-
शब्दस्तृतीयसवनगतस्तोत्रोपलक्षणार्थः। तेनाग्निष्टोमसाम्येऽप्युक्तश-
ब्देन ग्रहणात् तत्सहितानां चतुर्णां स्तोत्राणां चतुश्चत्वारिꣳशस्य
तृतीया विष्टुतिः कार्य्या ॥ २ ॥
अथ प्रकारान्तरेणासां व्यवस्थामाह--
याज्यानाꣳ सा होतुर्या पृष्ठानाꣳ सा मैत्रावरुण-
स्य योक्थानाꣳ सा ब्राह्मणाच्छं॑सिनो यैव होतुः सा-
च्छावाकस्य या पृष्ठानाꣳ सा होतुर्योक्थानाꣳ सा मैत्राव-
रुणस्य याज्यानाꣳ सा ब्राह्मणाच्छं॑सिनो यैव होतुः
साच्छावाकस्य योक्थानाꣳ सा होतुर्याज्यानाꣳ सा
मै

८८ ताण्ड्यमहाब्राह्मणं
र्य्या, यैव होतुः पृष्ठे द्वितीया साऽच्छावाकस्य पृष्ठे कार्या एवं माध्यन्दि-
नसवनेऽपि सर्व्वा विष्टुतयः प्रविष्टाः। योक्थानां विहिता तृतीया विष्टु-
तिः सा होतुरग्निष्टोमस्य साम्नः कार्या, आज्यानां विहिता या प्रथ-
मा सा मैत्रावरुणस्योक्थे कार्य्या, या पृष्ठानां विहिता द्वितीया सा
ब्राह्मणाच्छंसिन उक्थे कार्य्या, यैव होतुरुक्थस्य विहिता साऽच्छावाक-
स्योक्थे कार्या, एवं तृतीये सवने सर्व्वाः प्रविष्टाः। एवं व्यतिषङ्गे स-
ति सर्व्वा विष्टुतयः आज्येषु सर्व्वाः पृष्ठेषु सर्व्वाश्चोक्थेषु विनियुक्ता
भवन्ति ॥ ३ ॥
उक्थव्यवस्थां प्रशꣳसति —
पशवो वै समीषन्ती यदेषा सर्वाणि सवनान्यनुस-
ञ्चरत्यनुसवनमेवैनं पशुभिः समर्द्धयति पशुमान् भव-
ति य एतया स्तुते ॥ ४ ॥
समीषन्ती समित्येकीभावे सवनत्रयेऽप्येकीभूय ईषति गच्छतीति
समीषन्ती एषा विष्टुतिः पशवो वै पशुहेतुत्वात् । सा एषा सर्वाणि
सवनान्यनु सर्वेषु सवनेषु सञ्चरतीति यत्तेन एनं यजमानं अनुसवनं
सवन एव पशुभिः समृद्धीकरोति, यश्चैतया स्तुते सोऽपि पशुमान्
भवतीति ॥ ४ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य एकादशः खण्डः ।
अथ द्वादशः खण्डः ।
अथाष्टाचत्वारिꣳशस्य द्वे विष्टुती तयोः प्रथमामाह—
षोडशभ्यो हिङ्करोति स तिसृभिः स द्वादशभिः
स एकया षोडशभ्यो हिङ्करोति स एकया स तिसृभिः
स द्वादशभिः, षोडशभ्यो हिङ्करोति स द्वादशभिः स
एकया स तिसृभिः ॥ १ ॥
स्पष्टोऽर्थः ॥ १ ॥
अथैतां प्रशꣳसति—
अन्तो वा अष्टाचत्वारिꣳशः पशवश्छन्दाꣳसि यत्
षोडशभ्यः षोडशभ्यो हिङ्करोति षोडशकलाः पशवः
कलाशस्तत् पशूनाप्नोति ॥ २ ॥

तृतीयाध्याये त्रयोदशखण्डः । ८९
योऽयमष्टाचत्वारिꣳशस्तोमः असावन्तो वै अत ऊर्द्धं स्तोमान्तर-
स्यामुक्तत्वात् त्रिवृदादीनामवसानभूतः खलु, पशुसाधनत्वात् छन्दो-
गाश्च पशवः, ते च पशवः षोडशकलाः अष्टौ शफाश्चत्वारः पादाः
शिरो ग्रीवा आत्मा पुच्छमिति । एवं सति त्रिष्वपि पर्यायेषु यत्
षोडशभ्यः षोडशभ्यो हिङ्करोति तत्तेन कलाशः अवयवश एव पशून-
न्ततः प्राप्नोति ॥ २ ॥
प्रकारान्तरेण स्तौति--
द्वादशभिर्विहितैका परिचरा द्वादशमासास्संव-
त्सरो यजमानः परिचरा यद्द्वादशभिर्विदधात्येका परि-
चरा भवति यजमानमेव तदन्ततस्संवत्सरे पशुषु प्र-
तिष्ठापयत्येषा वै प्रतिष्ठिताऽष्टाचत्वारिꣳशस्य वि-
ष्टुतिः प्रतितिष्ठति य एतया स्तुते ॥ ३ ॥
त्रिषु पर्यायेष्वावापस्थानगताभिर्द्वादशभिः स्तोत्रीयाभिरेषा विष्टु-
तिर्विशेषतो विहिता, तृचभागयोस्त्रिर्वचनं परिचराया एकत्वञ्च न्या-
यतः प्राप्तम् । सम्वत्सरश्च द्वादशमासात्मकः परिचरा यजमानस्थानी-
याः । एवं सति द्वादशभिः स्तोत्रीयाभिरावापस्थानगताभिरिमां विष्टु-
तिं विदधाति परिचरा चैका भवतीति यत्तेनान्ततः स्तोमानामवसाने
यजमानमेव सम्वत्सरे पशुषु प्रतिष्ठापयति । समपर्यायत्वादेषा खलु
विष्टुतिः प्रतिष्ठिताऽष्टाचत्वारिꣳशस्य, अतो य एतया स्तुते स प्रति-
तिष्ठति ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे तृतीयाध्यायस्य द्वादशः खण्डः ॥
अथ त्रयोदशः खण्डः ।
अथान्यां विष्टुतिं दर्शयति--
षोडशभ्यो हिङ्करोति स तिसृभिः स दशाभिस्स-
तिसृभिः, षोडशभ्यो हिङ्करोति स तिसृभिः स तिसृ-
भिः स दशाभिः, षोडशभ्यो हिङ्करोति स दशाभिः स
तिसृभिः स तिसृभिर्नेदीयःसंक्रमा ॥ १ ॥
पर्यायात्पर्यायान्तरं संक्रामन्ती समानसंख्यास्वेव संक्रमणान्ने-
दीयःसंक्रमैषा ॥ १ ॥

९० ताण्ड्यमहाब्राह्मणे
अथैतां स्तौति—
अन्तो वा अष्टाचत्वारिंशो यथा महावृक्षस्या-
ग्रꣳ सृप्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसं-
क्रमया नेदीयःसंक्रमात् संक्रामति ॥ २ ॥
त्रयस्त्रिंशस्य नेदीयःसंक्रमार्थवादवदिदमपि व्याख्येयम् ॥ २ ॥
प्रकारान्तरेण स्तौति—
दशभिर्विहिता तिस्रः परिचरा दशाक्षरा विराडे-
तावान् पुरुषो यदात्मा प्रजा जाया यद्दशभिर्विदधाति
तिस्रः परिचरा भवन्ति यजमानमेव तत् विराज्यन्नाद्ये-
ऽन्ततः प्रतिष्ठापयत्यन्नादो भवति य एतया स्तुते ॥ ३ ॥
यद्या विष्टुतिर्दशभिरावापस्थानगताभिः स्तोत्रीयाभिर्विहिता
तिस्रः परिचराः परिचरस्थाने तिस्रो भवन्तीत्यर्थः । अन्नाद्यरूपा वि-
राडपि प्रतिपादं दशाक्षरा,आत्मा प्रजा पुत्रपौत्रादिरूपा जाया चेति य-
देतत्त्रितयमस्ति एतावान् हि पुरुष एवं सति आवापस्थाने यद्दश-
भिर्विदधातीमां विष्टुतिं तिस्रः परिचरा भवन्ति तत्तेन प्रजया जायया
च सहितं यजमानमेवान्नाद्ये अन्नाद्यरूपे विराजि अन्ततः स्तोमसमाप्तौ
प्रतिष्ठापयति स्तोता, अतो य एतया स्तुते सोऽन्नादो भवति अद्-
नीयान्नबाहुल्योपेतो भवति ॥ ३ ॥
वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकबुक्कभूपाल-
साम्राज्यधुरन्धरेण सायनाचार्येण विरचिते माधवीये
सामवेदार्थप्रकाशे ताण्ड्यमहाब्राह्मणे तृतीयाध्या-
यस्य त्रयोदशः खण्डः ।
इति तृतीयाध्यायः समाप्तिमगमत् ।

Here is the line-by-line transcription of the page into Devanagari:

[Header] चतुर्थाध्याये प्रथमखण्डः। ९१

अथ चतुर्थोध्यायः।
अथ प्रथमः खण्डः।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
स्तोमानां दशरात्रस्य प्रोक्ता विष्टुतयः क्रमात्।
गवामयनिकानां च ता एवेत्यवगम्यते ॥ २ ॥
शतानि त्रीणि षष्टिश्च विषुवांश्च चतुर्थकम्।
प्रोक्तानि गव्यसत्रस्य स्तुत्यहानि क्रमादिह ॥
तानि सङ्गृह्य वक्ष्यन्ते बुद्धिव्युत्पत्तिसिद्धये ॥ ३ ॥
द्विविधं गवामयनं दशमाससाध्यं द्वादशमाससाध्यञ्च तस्य द्वाद-
शमासनिर्वर्त्यस्य प्रायणीयोऽतिरात्रः प्रथममहस्ततश्चतुर्विंश उक्थ
आरम्भणीयः ते उभे अहनी अनुष्ठाय ज्योतिर्गौरायुर्गौरायुर्ज्योतिरि-
त्याभिप्ल

ः? Wait, is there a visarga or मासः? It is मासः! In Vedic: द्वादश मासः(accusative plural of मास, likeमासःinstead ofमासान्`).

Line 21:
न्नाद्यमाप्नुवन् ॥ २ ॥

Now let's check the Sayanabhashya for Mantra 2 (lines 22-31):
Line 22:
तुशब्दो वैलक्षण्यद्योतनार्थः, तासामेव गवां मध्ये काश्चिदब्रुवन्

Line 23:
किमित्युच्यते, यौ द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेकादशद्वा-

Line 24:
दशौ मासौ इमौ आ सामहा एवं अनुष्ठायैव अनुष्ठाय प्रारब्धं संव-
Wait, look at: इमौ आ सामहा एवं अनुष्ठायैव?
Look at line 24:
दशौ मासौ इमौ आ सामहा एवं अनुष्ठायैव?
Wait, is there a space: इमौ आ सामहा or इमौ आ सामहा?
Wait, look at the text:
दशौ मासौ इमौ आ सामहा एवं अनुष्ठायैव अनुष्ठाय प्रारब्धं संव-
Wait, in line 24, look after `मा

चतुर्थाध्याये प्रथमखण्डः । ९३
न्ति शृङ्गिण्यो महिष्यादयस्तु कृशा भवन्ति, तस्मादित्युक्तं कस्मादि-
त्याह हि यस्मात्ता गावः सर्वमन्नाद्यमाप्नुवन् तस्मात् सर्व्वर्तुषु पुष्टा-
ङ्गा भवन्ति तथा चैतरेयकं-‘ऊर्द्धन्त्वमसमन्वत तस्मादुताः सर्व्वभूता-
न्तरमुत्तिष्ठन्ति' इति ॥ २ ॥
उक्तार्थं जानतः फलमाह—
सर्वमन्नाद्यमाप्नोति य एवं वेद ॥ ३ ॥
स्पष्टार्थः ॥ ३ ॥
तदेवं दशमासनिर्वर्त्त्यं द्वादशमासनिर्वर्त्त्यं चेति द्विविधं गवाम-
यनं प्रतिपादितं तयोर्ज्योतिष्टोमदर्शपूर्णमासादिवदेतत्काम एतत्कुर्या-
दिति कामफलसम्बन्धफलविशेषश्रवणाद्विश्वजिन्न्यायेनात्यन्ताश्रुत-
स्य स्वर्गस्य कल्पनाया अन्याय्यत्वाद्रात्रिसत्रन्यायेनार्थवादिकस्य समृ-
द्धिफलस्य वाक्यशेषे श्रुतत्वादश्रुतत्वाच्छ्रुतङ्गरीय इति समृद्धिका-
मा एतत्सत्रामासीरन्निति विधिरुन्नेतव्यः । तैत्तिरीयके समृद्धिफलक-
त्वं स्पष्टमाम्नातम्-‘य एवं विद्वान् सम्वत्सरमुपयन्त्याब्रुवन्त्येवे'ति॥३॥
अथास्य सत्रस्य पूर्वोक्तान्यहानि क्रमेण विधास्यन् अतिरात्रसंस्थं
प्रथममहर्विधातुमाख्यायिकामाह—
प्रजापतिर्वा इदमेक आसीत् सोऽकामयत बहु
स्यां प्रजायेयेति स एतमतिरात्रमपश्यत्तमाहरत्तेनाहो-
रात्रे प्राजनयत् ॥ ४ ॥
यदिदं दृश्यमानं जगत् सृष्टेः पूर्वं प्रजापतिरेक एवासीत् प्रलयाव-
स्थायामव्याकृते कारणे कार्य्यप्रपञ्चस्य लीनत्वात् सृष्टौ हिरण्यगर्भ एक
एवासीदित्यर्थः। स एकलः प्रजापतिरकामयत कामनामकरोत् किमि-
ति बहुस्प्रष्टव्यगिरिनदिसमुद्रादिभेदेनानेकविधः स्यां भवेयम् , तदर्थ-
महं प्रजायेय अहमेव कार्य्येण रूपेण परिणतो भवेयमिति। स एवं का-
मयमानः प्रजापतिः सृष्ट्युपायत्वेन एतं गवामयनस्याद्यमतिरात्रम-
पश्यत् दृष्टवान् दृष्ट्वा च तमाहरत् तदन्वतिष्ठत् तेनानुष्ठितेनाहोरात्रे
अहश्च रात्रिं च प्राजनयत् उदपादयत् सर्वकारणभूतः प्रजापतिः अहो-
रात्रप्रमुखं कृत्स्नं जगत् यज्ञरूपेणैव साधनेन ससर्जेति सङ्ग्रहार्थः ॥४॥
अथेदानीन्तनमतिरात्रम्विधत्ते--
यदेषोऽतिरात्रो भवत्यहोरात्रे एव प्रजनयन्त्यहो-
रात्रयोः प्रतितिष्ठन्त्येतावान्वाव सम्वत्सरो यदहश्च रा-
त्रिश्चाहोरात्राभ्यामेव तत्सम्वत्सरमाप्नुवन्ति ॥ ५ ॥

एषः प्रजापतिना दृष्टोऽतिरात्रः गवामयनस्य प्रथममहर्भवतीति
यत् तेन सत्राननुतिष्ठन्तो यजमाना अहोरात्रे एव प्रजनयन्ति उत्पा-
दयन्ति स्वाधीने कुर्व्वन्तीत्यर्थः । तथा सति तयोः स्वाधीनयोः प्रति-
तिष्ठन्ति प्रतिष्ठिता भवन्ति । तत्र यद्यपि यद्वृत्तयोगात्सिद्धवदनुवादता
प्रतिभाति तथापि यदाग्नेयोष्टाकपाल इतिवदप्राप्तत्वादतिरात्रस्य वि-
धेयता द्रष्टव्या । न केवलमहोरात्रयोः प्रतिष्ठा किन्तु तत्सम्पाद्यात्मकं
प्रतिष्ठितं सम्वत्सरमपि प्राप्नुवन्तीत्याह एतावानित्यादिना ॥ ५ ॥
अथैनमतिरात्रमवयुज्य प्रशंसति—
यज्ज्योतिष्टोमो भवति यज्ञमुखन्तदृध्नुवन्ति यदुक्थो
यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्त्यै ॥ ६ ॥
अथ षोडशिकोऽयमतिरात्र इत्युक्तं, क्लृप्तो ज्योतिष्टोमोतिरात्रः
स षोडशिक इति । अथ तद्व्यतिरिक्ताभिस्तिसृभिः संस्थाभिरवयुज्य
स्तूयते । यद्यपि सर्वेषामपि ज्योतिष्टोमत्वमस्ति तथापि उक्थातिरात्र-
संस्थयोः पृथक् वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्देन
उच्यते । ज्योतीँषि त्रिवृदादयः स्तोमा यस्य स ज्योतिष्टोमः। तथा च
तैत्तिरीयकं—'त्रिवृत्पञ्चदश सप्तदश एकविँश एतानि ज्योतीँषि
यत् एतस्य स्तोमाः, इति । यज्ज्योतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्म-
को भवति ज्योतिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या 'एष वाव प्रथ-
मो यज्ञानामिति' श्रुतेः । तत्तेन यज्ञमुखं यज्ञानां मुखभूतर्माग्निष्टोमं प्रा-
प्य 'आध्नुवन्ति' सत्रिणः समृद्धा भवन्ति । तथा तस्मिन्नतिरात्रे
उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतुरन्तर्भवतीति यत् तत् यज्ञक्रतोः
सम्पूर्णस्य यज्ञस्य अनन्तरयाय अपरित्यागाय भवति । उक्थसंस्थायां
हि क्रतुः सम्पूर्णो भवति यथा पूर्व्वयोः सवनयोः पञ्चदश पञ्चदश स्तो-
त्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात् । अग्निष्टोमस्त्वसंपूर्णः
क्रतुः उक्तहेतोरभावात् । अपि च त्रिष्वपि सवनेषु प्रस्थिता याज्या-
देवताः शस्त्रैः प्रशस्यन्ते यथा हि प्रातःसवने मैत्रावरुणस्य प्रस्थित-
याज्या देवता मित्रावरुणौ शस्त्रेऽपि तावेव प्रशस्येते। ब्राह्मणाच्छँसिन
इन्द्रप्रस्थितयाज्या देवता सैव तदीयशस्त्रेण स्तूयते तथा माध्यन्दिन-
सवनस्य सर्वेन्द्रत्वात् प्रस्थितयाज्यासु शस्त्राणि चेन्द्राण्येव तथा तृती-
यसवने मैत्रावरुणस्येन्द्रावरुणा सुतया इति । ऐन्द्रावरुणी प्रस्थित-
याज्या इन्द्रश्च सोमं पिबतं बृहस्पतिः ऐन्द्राबार्हस्पत्या ब्राह्मणाच्छँ-
सिनः प्रस्थितयाज्या इन्द्राविष्णूअपि पिबतमित्यच्छावाकस्य चैन्द्रा-

वैष्णवी । यदि तृतीयसवन एतद्देवत्यानि शस्त्राणि न शस्येरन् प्रस्थि-
तयाज्यादेवतास्तुत्यभावेन क्रतुरपूर्णः स्यात् । उक्थेषु च प्रथमशस्त्रं
मैत्रावरुणं द्वितीयमैन्द्राबार्हस्पत्यं तृतीयमैन्द्रावैष्णवं एतेषु तृतीयस-
वने सवनान्तरवत् प्रस्थितयाज्यदेवतानां प्रशंसा जातेति यज्ञक्रतुः
सम्पूर्णो भवति । इत्थमन्तर्भूतेन संख्याद्वयेन प्रशस्तविहितया अतिरात्र-
संख्ययापि प्रशंसति यदिंत्यादिना । अत्र रात्रिशब्देन त्रयः पर्यायाः
सन्धिः स्तोत्रं तच्छस्त्राणि च लक्ष्यन्ते । रात्रिर्भवतीति यत्तत् सर्वेषां
स्तुतशस्त्राणां परिगृहीतत्वात् सर्वस्य सम्पूर्णस्य यज्ञस्य प्राप्त्यै भवति ।
न च यदेषोऽतिरात्रो भवतीति च यज्ज्योतिष्टोमो भवति यदुक्थो
भवति यद्रात्रिरित्यादिवाक्यत्रयेण पृथक् पृथक् कर्म्मविधिरिति मन्त-
व्यम् । वैश्वानरं द्वादशकपालंनिर्वपेत् पुत्रे जात इति विहितायां जात्ये-
ष्ट्यां यदष्टाकपालो भवति यन्नवकपालो भवतीत्यादिवद्युक्तानुवाद-
त्वेन स्तुतिपरत्वात् ॥ ६ ॥
क्रमप्राप्तस्य चतुर्विंशस्य बहुवक्तव्यसद्भावात्पृथग्बहुकामः इदा-
नीमभिप्लवपृष्ठ्ययोर्ह्नां संग्रहेण क्लृप्तिमभिदधान आदावाभिप्लविकपूर्वे
त्र्यहं विधातुं प्रस्तौति—
स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरीतिमे वै
लोका एते स्तोमा अयमेव ज्योतिरयम्मध्यमो गौरसा-
वुत्तम आयुः ॥ ७ ॥
स पूर्वोक्तः प्रजापतिः एतान् स्तोमान् स च स्तोमशब्देन
त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते । तानि ज्योतिर्गौरायुरीति
एतन्नामकान्यपश्यत् । तत्र ज्योतिरग्निष्टोमसंस्थः गौरायुषो
रुक्थसंस्थे ज्योतिष इयं स्तोमक्लृप्तिः । त्रिवृद्बहिष्पवमानं
पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि
पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमसामेति । अथ
गोष्टोमस्य पञ्चदशो बहिष्पवमानः त्रिवृदाज्यानि सप्तदशम्माध्यन्दिन
ꣳ सवनमेकविꣳशं तृतीयसवनम् । अथायुष्टोमस्य त्रिवृद्बहिष्पव-
मानं पञ्चदशान्याज्यानि सप्तदशम्माध्यन्दिनꣳ सवनमेकविꣳशं तृती-
यसवनमिति । एते उक्ता स्तोमा इमे लोका वै भूरादिकाः खलु कः
कतमो लोक इति बुभुत्सायामाह अयमेव लोको ज्योतिः अयम्मध्यमों
ऽन्तरिक्षलोको वै असावुत्तमस्तृतीयः स्वर्लोक आयुः स्तोमत्रयस्य
लोकत्रयेण सह संख्यासाम्यात् तत्शब्दता एतैः त्रिभिः स्तोमैः सा-
धनेस्त्रीन् लोकान् प्राजनयदिंति शेषः ॥ ७ ॥

अथैतान् विधत्ते—
यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनयन्त्येषु
लोकेषु प्रतितिष्ठन्ति ॥ ८ ॥
यदेषोऽतिरात्रो भवतीति वाक्यवदेतत्सर्व्वं व्याख्येयम् ॥ ८ ॥
अभिप्लवषडहस्योत्तरं त्र्यहं विधातुमाह—
स एतन्त्र्यहं पुनः प्रायुङ्क्त तेन षडहेन षट्-
ऋतून् प्राजनयत् ॥ ९ ॥
स प्रजापतिरेतं पूर्व्वोक्तं त्र्यहं पुनः प्रयुक्तवान् । गौरायुर्ज्योति-
रिति क्रमोऽत्रावगन्तव्यः । तथा चापस्तंबः 'ज्योतिष्टोममग्निष्टोमं
रथन्तरसामानङ्गामुरुक्थं बृहत्सामानमायुषमुक्थं रथन्तरसामानं ज्यो-
तिष्टोमं बृहत्सामानमिति' । तेन षडहेन षट् ऋतून् वसन्तादीन् प्राज-
नयत् सृष्टवान् ॥ ९ ॥
अथार्थवादानुगुण्याय पूर्व्वविहितेन त्र्यहेन संयुज्य इममुत्तरं
त्र्यहं विधत्ते—
यदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतु-
षु प्रतितिष्ठन्ति ॥ १० ॥
स्पष्टोऽर्थः ॥ १० ॥
अथ द्वितीयं षडहं विधातुमाह—
स एतं षडहं पुनः प्रायुङ्क्त ताभ्यां द्वाभ्यां
षडहाभ्यां द्वादशमासः प्राजनयत् ॥ ११ ॥
पूर्व्वप्रयुक्तमेव षडहं पुनरपि प्रयुक्तवान् तैर्मिलितैर्द्वादशभिरहोभि-
र्द्वादशमासो मासान् प्राजनयत् ॥ ११ ॥
पूर्व्ववदर्थवादानुगुण्याय विहितेन षडहेन सह द्वितीयं षडहं
समुच्चित्य विधत्ते—
यदेतौ द्वौ षड़हौ भवतो मासानेव प्रजनयन्ति
मासेषु प्रतितिष्ठन्ति ॥ १२ ॥
पूर्व्ववद् व्याख्येयम् ॥ १२ ॥
तृतीयचतुर्थौ षडहौ विधातुमाह—
स एतौ द्वौ षडहौ पुनः प्रायुङ्क्त तैश्चतुर्भिः षडहैश्च-
तुर्विंशातिमर्द्धमासान् प्राजनयत् ॥ १३ ॥

[चतुर्थाध्याये प्रथमखण्डः । ९७]

एतौ पूर्वप्रयुक्तावेव षडहौ पुनः प्रयुक्तवान् तदैव प्रयुक्तैश्चतुर्भिः
षडहैश्चतुर्विंशतिसंख्यान्यहानि सम्पन्नानि । तैश्च तत्संख्याकान्
अर्द्धमासान् प्रजापतिः सृष्टवान् ॥ १३ ॥
अथ पूर्ववद्विहितेन षडहद्वयेन सह अर्थवादानुगुण्याय इमं तृती-
यचतुःषडहद्वयं विधत्ते--
यदेते चत्वारः षडहा भवन्त्यर्द्धमासानेव प्राजनय-
न्त्यर्द्धमासेषु प्रतितिष्ठन्ति ॥ १४ ॥
स्पष्टोऽर्थः ॥ १४ ॥
इत्थं षडहचतुष्कं विधाय पञ्चमषष्ठषडहं विधातुमाह--
स इदं भुवनं प्रजनयित्वा पृष्ठ्येन षडहेन वीर्य्यमा-
त्मन्यधत्त ॥ १५ ॥
स प्रजापतिः इदमहोरात्रादिरूपं भुवनं सर्वं जगत् प्रकर्षेणोत्पाद्य
निर्वीर्य्यः सन् प्रयुक्तेन पृष्ठ्येन षडहेन त्रिवृदादिस्तोमेकेन वीर्यं
सृष्टस्य जगतो भागरक्षणार्थं सामर्थ्यमात्मनि स्वस्मिन्नधत्त
पुनर्धृतवान् ॥ १५ ॥
तमिमं पृष्ठ्यषडहं विधत्ते--
यदेष पृष्ठ्यः षडहो भवति वीर्य्य एवान्ततः प्रति-
तिष्ठन्ति ॥ १६ ॥
यस्मात्प्रजापतिरिमं षडहं वीर्य्यधारणार्थं प्रयुक्तवान् तस्मादिमं
षडहं प्रयुञ्जानाः सत्रिणः अन्ततो मासावसाने वीर्य्य एव प्रतिष्ठिता
भवन्तीत्युक्तम् । इत्थमनुष्ठितषडहपञ्चकात्मकेन मासेन तत्सङ्घात्मकं
संवत्सरं प्रजापतिः सृष्टवान् । सत्रिणोऽपि षडहपञ्चकानुष्ठानेन मा-
सद्वारा संवत्सरमेव स्वभोगसाधनमुत्पादयन्ति तस्मिंश्च प्रतिष्ठिता
भवन्ति इति ॥ १६ ॥
तस्य स्तुतिः-
तेन मासान् सꣳवँत्सरं प्राजनयद्यदेषमासो भवति
सꣳवँत्सरमेव प्रजनयन्ति सꣳवँत्सरे प्रतितिष्ठन्ति ॥१७॥
स्पष्टोऽर्थः ॥ १७ ॥
इति ताण्ड्यमहाब्राह्मणे चतुर्थाध्यायस्य प्रथमः खण्डः ।
६

प्रायणीयातिरात्रानन्तरमनुष्ठेयं चतुर्विंशमन्यद्वितीयमहः बहुवक्त-
व्यत्वेन पश्चाद्विधास्यत इति यदवादि अतस्तदहर्विदधाति--
प्रायणीयमेतदहर्भवति ॥ १ ॥
एतद्वक्ष्यमाणमहः प्रायणीयं प्रकर्षेण यन्ति गच्छन्ति स्वर्गमनेनेति
व्युत्पत्तिः । एतत्संज्ञकं गवामयनस्य द्वितीयमहरनुष्ठेयं भवति । यद्यपि
श्रुत्यन्तरे प्रथमविहितस्यातिरात्रस्यैव प्रायणीय इति संज्ञा प्रसिद्धा त-
थापि प्रथमोत्तमयोरातिरात्रयोः सर्वत्र साधारणत्वादस्यैवाह्नो गवामयने
असाधारणं प्राथम्यमिति कृत्वा एतदादिकङ्गवामयनस्वरूपमित्यस्मिन्
द्वितीयेऽहनि प्रायणीयशब्दोऽत्र प्रयुज्यते ॥ १ ॥
उक्तमहर्नामनिर्वचनद्वारा प्रशंसति-
प्रा॒य॒णीये॑न वा अह्ना॑ दे॒वाः स्वर्गं लो॒कं प्राय॑न्न्यत्
प्राय॑ँ स्तत्प्रा॑यणी॒यस्य॑ प्रायणी॒यत्वम् ॥ २ ॥