तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
[प्रपा० १ अनु० ८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३१
अथ प्रथमेऽष्टमोऽनुवाकः ।
कल्पः-- " पुस्तात्केदमभ्रमित्येकाम् " इति । पाठस्तु--
केदम॒भ्रं निवि॑शते । काय॑२॒ संवत्स॒रो मिथ॑ः ।
क्वाहः॒ केयं दे॒व रात्री॑ । क मासा॑ ऋ॒तव॑ः श्रिताः, इति ।
अपो बिभ्रती(भर्ता) त्यभ्रं मेघस्वरूपं तच्चाऽऽकाशे निरालम्बेत्वेनास्माभिर्दृश्यतेऽतः
कुत्राऽऽधारे निवसतीति प्रश्नः । न ह्यालम्वनमन्तरेण निर्देष्टुं शक्यम् । एतच्चोपल-
क्षणम्, कारणमपि किमिति प्रष्टुरभिप्रायः । एवं संवत्सराहोरात्रमासर्तवः कस्मि-
न्नाश्रयेऽवस्थिताः किं वा तेषां कारणमिति हे देव जगत्कर्तः कथय । संवत्सरस्य
बह्ववयवसङ्घातित्वं द्योतयितु
परमेश्वरेण प्रथमं सृष्टास्वप्सु घनीभावसामर्थ्ये प्रक्षिप्ते सति ब्रह्माण्डं निष्पन्नं तच्च १
ब्रह्माण्डमभिन्नं सद्यावदवस्थितं तावतः कालस्य संवत्सर इति नाम संपन्नम् । तथा च
वाजसनेयिनो बृहदारण्यके समामनन्ति— २“तद्यद्रेत ३ आसीत्संवत्सरोऽभवन्न ह पुरा
ततः संवत्सर आस ” इति । एवं ब्रह्माण्डेन ५ सहाप्सु संवत्सरे समुत्पन्ने सति तदव-
यवाः कालविशेषाः सर्वेऽप्यङ्गच एवोत्पन्ना अप्स्वेव निविशन्ते, तदिदं कालप्रश्नस्यो- ६
त्तरम् । या एता आपो भूमौ शुष्यन्ति ताः सर्वा रश्मिद्वारा सूर्ये समाहिता
भवन्ति । घर्मकाले हि तीक्ष्णैः सूर्यरश्मिभिर्जलशोषः सर्वैः प्राणिभिर्दृश्यते । अत एव
बुद्धिमद्भिरुक्तम्— “सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ” इति । इदं च केमा
आपो निविशन्त इत्यस्योत्तरम् । तेभ्यः सूर्
[प्रपा०१अनु०८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३३
अथ द्वितीयामाह—
इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये॑ ( २) ।
व्य॑ष्ट॒भ्नाद्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑, इति ।
मनुषे मनुष्यार्थमेते द्यावापृथिव्याविरावती अन्नवत्यौ बह्वन्नयुक्ते धेनुमती
धेनुमत्यौ सूयवसिनी शोभनैर्यवसैर्भक्ष्यैर्युक्ते दशस्ये दातुमर्हे भूतम्नानादिदानशक्ते
भवतः । रोदसी द्यावापृथिव्यावेतादृशौ व्यष्टभ्नाद्विष्णुर्विशेषेण धृतवान् । हे विष्णो
त्वं पृथिवीमेतां द्युलोकसहितामभितोऽध उपरि च मयूखैः शङ्कुस्थानीयै रश्मिभि-
र्दाधर्थ धृतवानसि ।
अथ तृतीयामाह--
किं तद्विष्णो॒र्बल॑माहुः । का दी॒प्तिः किं प॑राय॒णम् ।
एको॒ यद्धा॒रय॑द्दे॒वः । रे॒जती॒ रोद॑सी॒ उभे, इति ।
यद्देवो यो विष्णुरेक एव रेजती राजमाने रोदसी द्यावापृथिव्यावुभे धारयद्धृ-
तवांस्तस्य विष्णोः किं तद्बलं तादृशी शक्तिः कुत आगता, यैर्मयूखैर्धृतवान्सा दीप्तिः
का कुत्रत्या, किं च परायणं तस्य सहायभूतं वस्तु, इति प्रष्टार आहुः ।
अथ चतुर्थीमाह---
वा॒ताद्विष्णो॒र्बल॑माहुः । अ॒क्षरा॑द्दी॒प्तिरु॑च्यते । त्रि॒प-
दाद्धा॑रयद्दे॒वः । यद्विष्णो॒रेक॑मुत्त॒मम् ( ३ ), इति ।
विष्णुर्हि वातरूपं सूत्रात्मानमुत्पाद्य तेन सूत्रेण सर्वं जगद्धारयति । तथा च वाज-
सनेयिन आमनन्ति---“वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः
परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति” इति । तस्माद्विष्णोर्बलं धारण-
सामर्थ्यं वातादागतमित्यभिज्ञा उत्तरमाहुः । दीप्तिर्जगदवभासकं ज्योतिः, तच्च
विष्णोरक्षराद्विनाशरहितात्स्वकीयात्परमपदाद्भवतीत्यभिज्ञैरुच्यते । विष्णुर्हि जगत्सृ-
ष्ट्यादिनिर्वाहकमुपासकैरूपास्यमिदम्परं यच्च ज्ञानिभिर्ज्ञेयं परं पदम्, अत एवाऽऽ-
म्नायते---“तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इति । तत्र परविद्यागम्यं
स्वरूपं विनाशराहित्यादक्षरम् । अत एवाऽऽथर्वणिका आमनन्ति--“अथ परा यया
तदक्षरमधिगम्यते” इति । तस्मादक्षराज्जगदवभासिका चैतन्यरूपा दीप्तिर्लभ्यते ।
“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति श्रुतेः । इदं च का
१ क. ॰मन्नादि॰ । २ ग. कुतत्या । ३ ख ग. रमम् । ४ क. ॰र्लभते ।
५
३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१अनु०८]
द्दीतिरित्त्यस्योत्तरम्—पुरुषसूक्ते—“पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि”
इत्याम्नायते । सर्वमप्येतज्जगदस्य परमेश्वरस्य चतुर्थोंऽशः । अवशिष्टमंशत्रयं व्यवहारा-
तीतत्वादमृतमविनश्वरं सद्द्योतनात्मके स्वस्वरूपे सर्वदाऽवतिष्ठते । तादृशात्त्रिपात्स्व-
रूपाद्ब्रह्मणो लब्धसामर्थ्यो देवो विष्णुर्धारयत्सर्वं जगद्धारयति । यत्त्रिपाद्वस्तु विष्णो-
रेकमेवोत्तमं स्वरूपं तस्मात्त्रिपाद्भादिति पूर्वत्रान्वयः । अथ वैतदुत्तरवशात्पूर्वत्रैको यद्धार-
यदि.ति वाक्ये कथमेको धृतवानिति प्रश्न उन्नेयः ।
अथ पञ्चमीमाह--
अ॒ग्नयो॑ वा॒यव॑श्चैव । ए॒तद॑स्य परा॒यण॑म्, इति ।
य एतेऽग्नयः सावित्रादय आरुणकेतुकान्
" !
Now, why does the scan look like चतुमार्थं?
Wait, look at the characters:
Is that तु?
Wait! Could the first letter be च?
Second letter: तु॒?
Wait, is the third letter really मा?
Wait! What if it's NOT तु and मा?
What if it's:
च तु... wait!
Could it be च॒तु॒र्थं?
Wait, look at तु in चतुर्थमृत्युं in line 15:
च तु र्थ
Notice the width of चतुर्थ in line 15:
It is about the same width!
Wait! Look at चतुर्थमृत्युं in line 15:
च then तु then र्थ!
Wait, look at र्थ in line 15:
It is: loop on left, then vertical line, with repha on top!
Wait! A Devanagari र्थ:
How is थ written?
A थ has:
- A small loop at top left.
- Goes down and curves up/right to a vertical bar (like a
यorम?).
Wait, in old Bombay/Anandashram fonts,थis written with a loop at top left, then it curves down
in 'कृ॒मय॑' there is clearly a '३'!
And footnote 4: "४ ख. ग. खल्वेवं ।"
In line 27, where is 4?
Look at line 27, before "स ख॒ल्वेव॑-": is there a 4?
Wait, look at footnote 1: "१ क. 'रीरा असं' ।" - this clearly matches 'अशरीराः असं[पूर्ण...]' in line 8!
Footnote 2: "२ क. 'थवाः स' ।" - wait, could it be in line 2? "वासवैर्निवासहेतुभिः"? No, "थवाः स"?
Wait, what word in the text has "थवा"?
Could it be "अथवा"?
Wait, what about the mantra?
In line 6: "यथाहपु॑ण्यस्य॒"? Wait! Look at line 6 again:
"यथाऽपु॑ण्यस्य॒" vs "यथाहपु॑ण्यस्य॒"!
Wait, could it be "यथा पु॑ण्यस्य॒"?
Wait, footnote 2: "२ क. 'थवाः स' ।" -> could the text be "यथा... "?
Wait, no: look at footnote 2:
"२ क. 'थवाः स' ।"
What if it's "अथवा स"?
Regardless, footnote line reads:
"१ क. 'री
[प्रपा०१।अनु०८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३७
स्याति॑थिः सि॒द्धग॑मनः सिद्धाग॑मनः, इति ।
यः पुमानेवं कश्यपादुदिताः सूर्या इत्याद्युक्तप्रकारेण कश्यपमहिमानं जानाति,
असावेतमपमृत्युं कृमिकीटादिकेष्पूक्तमपकृष्टमृत्युं जयति । विदुषः पापेष्वप्रवृत्तेर्युक्तो
मृत्युजयः । किं च स खलु ब्राह्मण एवंवित्कश्यपमहिमाभिज्ञः सन्दीर्घश्रुत्तमो
भवति, दीर्घं चिरकालं कश्यपेन श्रूयते सम्यगनुष्ठाताऽयमिति, ततोऽप्यतिशयो
बहूनां देवानां मुखाच्छ्रवणं बहवोऽपि देवाः कश्यपसमीपं गत्वा ब्राह्मणोऽयमारुणके-
तुकं सम्यगनुतिष्ठतीति पुनः पुनः कथयन्त्यतोऽयं दीर्घश्रुत्तमः । परलोके कश्यपस्या-
तिथिरिव पूज्यो भवति । किंच स ब्राह्मणः स्वेच्छया कश्यपसमीपगमनागमनयोः
समर्थो भवति ।
अथ ब्राह्मणोक्तार्थस्य प्रतिपादिकामृचमवतारयति —
तस्यै॒षा भ॑वति, इति ।
तामेतामृचं दर्शयति —
आ यस्मि॑न्त्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या रुह॑: (७) ।
ऋष॑िर्ह दीर्घश्रुत्त॑मः । इन्द्र॑स्य घ॒र्मो अ॑तिथि॒रिति॑, इति ।
यस्मिन्कश्यपे सप्तसंख्याका आरोगादयः सूर्या आ रोहन्ति कश्यपादेवोत्पद्य स्थितिं
लभन्त इत्यर्थः । कीदृशाः सप्त सूर्याः, वासवा जगन्निवासहेतवः, पूर्व्या रुहः सृष्ट्यादा-
वुत्पन्नतत्वेन प्रथमाङ्कुरभूताः, तस्येन्द्रस्य परमैश्वर्ययुक्तस्य कश्यपस्य दीर्घश्रुत्तमनामकः
कश्चिदृषिर्घर्मो दीप्यमानः सन्नतिथिः संपन्नः । इत्यनयेष्टकामुपदध्यात् । अत एव
बौधायनः—‘‘ मा यस्मिन्नष्टे नयेति द्वे ’’ इति ।
अथ ब्राह्मणमुच्यते--
कश्यपः पश्य॑को भवति । यत्स॑र्वं
परिपश्यती॑ति सौ॒क्ष्म्यात्, इति ।
योऽयमष्टमः सूर्यो रूढ्या कश्यप इतिनाम्नाऽभिधीयते स एवावयवार्थपर्यालोचना-
यामाद्यन्तयोरक्षरयोर्व्यत्यासेन पश्यको भवति । यद्यस्मात्कारणादत्यन्तसूक्ष्मत्वेन
दिव्यदृष्ट्या सर्वमतीतानागतादिकं परितः पश्यति ।
तदेवं कश्यपप्रकरणं समाप्याग्निप्रकरणमारभते—
अथाग्ने॑रष्टपु॑रुषस्य । तस्यै॒षा भ॑वति, इति ।
१ क. ॰कीट्यूके॰ । ख. ग. ॰कीटोऽके॰ । २ ख. ॰षिर्हि दी॰ । ३ क. ॰रभ्यते ।
३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १ अनु० ९]
अथ कश्यपमहिमकथनानन्तरमष्टपुरुषस्याष्टसंख्याकमूर्तियुक्तस्याग्नेर्महिमा कथ्यत
इति शेषः । तस्याग्नेर्महिमप्रतिपादिकेयमृग्विद्यते ।
तामेतामृचं दर्शयति—
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव
व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॑: ।
भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेमेति ( ८ ), इति ।
स॒माहि॑ता दश॒स्ये उत्त॑ममुच्यते गृ॒हान्त्स्व॒कर्म॑भिः पू॒र्त्या रुह॒ इति॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽ-
ष्टमोऽनुवाकः ॥ ८ ॥
हेऽग्ने राये धनप्राप्त्यर्थमस्मान्सुपथा नय शोभनेन मार्गेण प्रापय । हे देव त्वं
विश्वानि वयुनानि सर्वान्मार्गाञ्ज्ञानन्सन्वर्त्तसे । जुहुराणं कुटिलमेनः पापमस्मद्युयो-
ध्यस्मत्सकाशाद्वियोजय । ते तुभ्यं भूयिष्ठामत्यधिकां नमउक्तिं नमस्कारप्रतिपादकं
वाक्यं विधेम कुर्यास्म । इत्यनयेष्टकामुपदध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यके प्रथमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ प्रथमे नवमोऽनुवाकः ।
कल्पः—" अग्निश्च जातवेदाश्चेत्यष्टौ " इति । पाठस्तु—
अ॒ग्निश्च॑ जात॒वेदा॑श्च । स॒होजा अजिरप्र॑भुः । वै॒श्वा॒न॒रो
नर्या॑पाश्च । प॒ङ्क्तिरा॑धाश्च स॒प्तमः॑ । वि॒सर्पेवाऽष्ट॑मोऽ
ग्री॒नाम् । ए॒तेऽष्टौ वस॑वः क्षि॑ता॒ इति॑, इति ।
अग्न्यादयः शब्दा मूर्तिविशेषाणां नामधेयानि । तत्र यः पङ्क्तिराधाः सोऽग्नीनां
मूर्तिविशेषाणां मध्ये सप्तमो ज्ञेयः । विसर्पच्छ( र्पेवश )ब्देन विसर्पीति नाम विव-
क्ष्यते । सोऽयमग्नीनां मध्येऽष्टमः । एतेऽग्न्यादयोऽष्टौ मूर्तिविशेषा वसवः सर्वेषां
प्राणिनां निवासहेतवः, स्वयं च क्षिताः सुखेन निवासं प्राप्ताः । इतिशब्द उपधानप्र-
दर्शनार्थः । अस्यामृच्यभिहितानि नामान्येवोपधानमन्त्राः । अग्निस्तया देवतयाऽङ्गिर-
स्वद्ध्रुवाऽऽसीदेत्येवं सर्वत्रोपधानम् ।
१ ख. ग. 'सर्पो वाऽ' ।
[प्रपा० १ अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३९
अथ ब्राह्मणमुच्यते—
यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलाचिश्च पीतका॒र्चिश्चेति॑, इति ।
ऋतूननतिक्रम्य यथर्तु, यस्यर्तौर्यादृशो वर्णविशेषस्तस्मिन्नृतावग्नेरपि वर्णविशेषस्ता-
दृगेव भवति । एवं सति कचिदृर्त्तौ नीलार्चिः कचिच्च पीतार्चिरित्यादिकं द्रष्टव्यम् ।
कल्पः—" प्रभ्राजमाना इत्येकादश रुद्राः प्रभ्राजमान्य इत्येकादश रुद्राण्यः "
इति । तदेतदुभयविधं विधत्ते—
अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति ।
अथाग्नेरष्टविधस्य मन्त्रस्य कथनादनन्तरम्, एकादशभिः पुरुषमूर्तिभिरेकादशभिः
स्त्रीमूर्तिभिश्च युक्तस्य वायोरिष्टका उपधेयाः ।
तत्र पूर्ववन्नामधेयरूपान्मन्त्रान्दर्शयति--
प्रभ्रा॒जमाना॒ व्य॑वदाताः ( १ ) । याश्च वासु॑कि-
वै॒द्युताः॑ । रज॑ताः प॑रु॒षाः श्या॒माः । कपिला अति॑-
लोहि॑ताः । ऊ॒र्ध्वा अव॑पंतन्ताश्च । वैद्युत इत्येकादश, इति ।
अत्रापि प्रभ्राजमानास्तया देवतयाऽङ्गिरस्वद्घ्रुवाऽऽसीदेत्यादिकं द्रष्टव्यम् । याश्चेत्यु-
पन्यासार्थमुच्यते नतु नामान्तःपाती । वैद्युतपर्यन्ता या (य) उक्तास्ता (स्त) इतिशब्देन
परामृश्यन्ते । इत्येकादश वायुसंबन्धिपुरुषाः । एकैकस्मिन्गणे पुरुषबाहुल्यात्प्रभ्रा-
जमाना इत्यादिबहुवचननिर्देशः । एकादशस्त्रीकस्येति विहितत्वादान्नाता अपि
स्त्रीनाममन्त्रा अत्रोन्नेयाः । तथा च प्रभ्राजमान्यस्तया देवतयाऽङ्गिरस्वद्घ्रुवाऽऽसीदेति
मन्त्रपाठः संपद्यते ।
उक्तवायुगणवेदनं प्रशंसति—
नैनं॑ वैद्युतो॑ हिनस्ति । य एवं वेद॑, इति ।
यः पुमान्वायुगणमाहात्म्यं वेदेनं वैद्युतोऽशिरशानिरूपो न हिनस्ति ।
एतस्योत्तमफलत्वं द्योतयितुं वैद्युतवधस्य कष्टतां दर्शयति—
स हो॑वाच व्यासः पा॑राश॒र्यः ।
वि॒द्युद्व॑धमे॒वाहं मृ॒त्युमै॑च्छ॒मिति॑², इति ।
पराशरस्य पुत्रो व्यासाख्यो महर्षिर्योऽस्ति स खल्वेवमुवाच, विद्युताऽशनिना
क्रियमाणो यो वधस्तमेवाहं मृत्युमैच्छं तस्य मरणस्यातिकष्टत्वात्स एव वध एको
१ ख. ग. ॰स्रौंगगक॰ । २ ग. ॰ति (२), इ॰ ।
न्निति: Look at line 26: वुषी॑ । स॒हस्रा॑क्षरा पर॒मे व्यो॑मन्निति, इति ।Wait, is itव्यो॑मन्निति? Letters: व्यो॑ म न्नि ति , इति ।Wait, look at the underline underव्यो॑मन्निति: There is a horizontal line under मन्नि. That's anudatta on म॒न्निorम॒न्! Let's write व्यो॑म॒न्निति, इति ।orव्यो॑मन्नि॒ति? The line is clearly under मन्नि: व्यो॑म॒न्निति, इति ।`
Line 27:
गौरी शुक्लवर्णा सरस्वती या शब्दब्रह्मात्मिका सा मिमाय मिमीते स्वकीयैः
Line 28:
शब्दैरभिधेयं सर्वं जगत्पारिच्छिनत्ति । किं कुर्वती, सलिलान्युदकजन्यानि सर्वाणि
Wait, in line 28: जगत्पारिच्छिनत्ति or जगत्परिच्छिनत्ति?
Look closely at जगत्परिच्छिनत्ति:
ज ग त् प रि च्छि न त्ति
Wait! Is it पा or `प
अनु १० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४१
भूतजातानि तक्षती स्वव्याप्त्या नाना कुर्वती । एकैकस्य हि पदार्थस्य बहूनि नामधे-
यानि, वृक्षो महीरुहः शाखीत्येवं पर्यायबहुत्वदर्शनात् । यद्यप्यत्र प्रवृत्तिनिमित्तभूता
अवयवार्था भिद्यन्ते तथाऽपि देशभेदेन भिन्नभाषासु नास्ति प्रवृत्तिनिमित्तभेदः । अतः
शब्दप्रपञ्चस्य बाहुल्यादर्थप्रपञ्चोऽपि स्वल्पो भवति । सा च सरस्वती छन्दोभेदादेक-
पद्यादिरूपेण वर्धमाना सहस्राक्षरा सहस्रशब्दस्यानन्तपर्यायत्वादनन्ताक्षरा, अत्र
बभूवुषी भवितुमिच्छां कृतवती परमे व्योमन्विविधरक्षके परमे जगत्कारणे ब्रह्मणि
स्थिता । इत्यनयेष्टकामुपदध्यात् ।
अस्या ऋचस्तात्पर्यं दर्शयति—
वाचो॑ विशे॒षणम्, इति ।
वाग्देवतायाः स्तुतिरस्यामृचि क्रियत इत्यर्थः ।
कल्पः—“वराहव
... wait, look between वैपरीत्यम् । and न, or above न:
Yes, right after 'वैपरीत्यम् ।', before 'न', there is an insertion or marker?
Wait, look at footnote 7: ७ ख. ग. रीत्यं च नोर्ध्वां । - wait, in line 15, it has:
"वैपरीत्यम् । न चोर्ध्वाभिवर्षणमयुक्त-"
Line 16:
मिति शङ्कनीयम्, यस्मादेते पर्जन्याः पूर्वोक्तैः सप्तभिर्वायुगणैरुदीरिता ऊर्ध्वं प्रेरिताः
Line 17:
दृश्यन्ते हि वायूनां सर्वतः प्रेरणसामर्थ्यम् । तस्मादधोवर्षणवद्वायुवशादूर्ध्ववर्षणमपि
Wait, on "दूर्ध्ववर्षणमपि": footnote 8 is ८ ख ग ॰तूर्ध्वं वं° ।
Look at line 17: there is an '८' near 'दूर्ध्ववर्षणमपि'!
Line 18:
संभवत्येव । तेषां पूर्वोक्तवायूनामूर्ध्वाधोवर्षणसामर्थ्यप्रतिपादिकेयमृग्विद्यते ।
Wait, "मूर्ध्वाधोवर्षणसामर्थ्य": footnote 9 is ९ ग उर्ध्वेत्य° ।
[प्रपा० १ अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४३
“समानमेतदिति वृष्टिमतीम्” इति । इष्टकाविशेषस्य वृष्टिमतीति नामधेयम् । एवमुक्त-
रैलैभिर्मन्त्रैर्लोकाप्यायितशंयुनामकानामिष्टकाविशेषाणामुपधानं स एवाऽऽह--“यद-
क्षरमिति लोको जमदग्निरित्याप्यायितस्तच्छंयोरिति शंयुः ” इति ।
तत्र प्रथमं मन्त्रमाह--
यदक्ष॑रं भूत॒कृत॑म् । विश्वे॑ दे॒वा उ॒पास॑ते ।
म॒ह॒र्षिम॑स्य गो॒प्तार॑म् । ज॒मद॑ग्निमकुर्वत, इति ।
न क्षरति न विनश्यति कदाचिदपीत्यक्षरं यत्परं ब्रह्म वस्तु भूतकृतमाकाशादि भूत-
रूपेण निष्पन्नम् । अत एवोपनिषद्याम्नायते--“तदात्मानं स्वयमकुरुत” इति । तादृशं
विश्वे सर्वेऽपि देवा उप सते । अस्याक्षरस्य गोप्तारं रक्षितारं जमदग्न्याख्यं मह-
र्षिमकुर्वत । देवा इन्द्रादयः स्वपुरुषार्थसिद्ध्यर्थं स्वयमुपासते मनुष्याणामनुग्रहार्थं
जमदग्निप्रभृतिकं महर्षिसंघमस्याक्षरस्योपदेष्टारमकुर्वत । ऋषयो हि तत्तद्वेदप्रवर्तनेन
मनुष्येभ्योऽक्षरमुपदिश्य तत्संप्रदायं परिपालयन्ति ।
अथ द्वितीयं मन्त्रमाह--
ज॒मद॑ग्निराप्या॑यते । छन्दो॑भिश्चतुरुत्त॒रैः । राज्ञः सोम॑स्य तृप्तास॑ः
( ६ ) । ब्रह्म॑णा वी॒र्या॑वता । शिवा न॑ः प्र॒दिशो॒ दिश॑ः, इति ।
स च जमदग्निश्चतुरुत्तरैरक्षरचतुष्टयादुत्तरभाविभिर्गायत्र्यादिभिश्छन्दोभिः स्वेनोप
दिष्टैर्मन्त्रैर्वाऽऽप्यायते प्राणिनोऽभिवर्धयति । ते च प्राणिनो वीर्यावता शक्तिमता
ब्रह्मणा मन्त्रेण राज्ञो राजमानस्य सोमस्य लतात्मकस्य पातारो भूत्वा तृप्तासः कृत
कृत्यबुद्ध्या तृप्ता भवन्ति । सैव तृप्तिः स्पष्टी क्रियते--नोऽस्माकं प्रदिशः प्राच्याद्य
मुख्या दिश आग्नेयाद्या अवान्तरदिशश्च शिवाः शान्ताः संपन्नाः, सर्वदिग्वर्तिप्रजासुख
हेतवः संपन्ना इत्यर्थः ।
अथ तृतीयं मन्त्रमाह--
तच्छं योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये ।
दैवी᳭ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मा॑नु॒षेभ्यः॑ । ऊ॒र्ध्वं
जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳭ । शं चतु॑ष्पदे, इति ।
शं प्राप्तानां रोगादीनामुपशमनकारणम् । योः, आगामिनां रोगादीनां वियोगका-
१ ख. ग. ॰शेषम्' । २ ग. ॰र्वते । इ° । ३ ख ग. ॰र्वते । दे° । ४ ग. ॰तिकम्' ।
५ ग. ॰र्वते । ऋ° । ६ ख. ग 'मान्यस्य । ७ ग. मुख्यदि° ।
रणम्, तत्कर्माऽऽरुणकेतुकाख्यमावृणीमह आभिमुख्येन प्रार्थयामहे । यज्ञाय तस्मिन्ना-
रुणकेतुकेऽनुष्ठीयमानस्योत्तरक्रतोर्गातुं गतिमावृणीमहे प्रार्थयामहे । यज्ञपतये यजमा-
नस्य च गातुं गतिं फलप्राप्तिमावृणीमहे । नोऽस्माकं दैवी स्वस्तिर्देवैः संपादितः
क्षेमोऽस्तु । मानुषेभ्यः पुत्रादिभ्यश्च स्वस्तिः क्षेमोऽस्तु । इत ऊर्ध्वं सर्वदा भेषजं
सर्वानिष्टनिवारणं जिगातु प्राप्नोतु । स(?) नोऽस्मदीयाय द्विपदे मनुष्याय च शं
सुखमस्तु चतुष्पदे पशवेऽपि शं सुखमस्तु ।
अथ ब्राह्मणवाक्यमुच्यते—
सो॒मपा३ अ॑सोमपा३ इति॑ निगद॑व्याख्याताः ( ७ ), इति ।
व्य॒व॒दा॒ता हन्ति गरं गिरस्ततपस उदकं तृप्तासश्चतुष्पद् एकं॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
नवमोऽनुवाकः ॥ ९ ॥
अथ निगदव्याख्याता इति यदुपक्रान्तं तदुपसंह्रियते—वराहव इत्यादिषु शं
चतुष्पद इत्यन्तेषु मन्त्रेषु ये सोमपा देवा ये चासोमपास्ते सर्वेऽप्यभिहिताः । प्लुति-
द्वयमाख्यानार्थम् । “ [अनन्त्यस्यापि] प्रश्नाख्यानयोः” इति सूत्रेण प्रश्नवन्निश्चिताख्या-
नेऽपि प्लुतस्य विहितत्वात् । त एते सर्वे देवा निगदव्याख्याताः । मन्त्रपाठेनैव
तदर्थपर्यालोचनायां तत्तन्महिम्नः प्रतीयमानत्वात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अथ प्रथमे दशमोऽनुवाकः ।
कल्पेः—“ सहस्रवृदियमित्यष्टौ संयानीः ” इति । तत्र प्रथमामाह --
स॒हस्र॑वृ॒दियं भूमिः॑ । प॒रं व्योम॑ स॒हस्र॑वृत् । अ॒श्विना॑
भु॒ज्यू ना॑सत्या । विश्व॑स्य॒ जग॑तस्पती, इति ।
इयं दृश्यमाना भूमिः सहस्रवृदुपकारकतया सहस्रसंख्यकैः पुरुषैर्ध्रियमाणा
प्रार्थ्यमाना । भवति तथा परं व्योमोत्कृष्टं स्वर्गस्थानमपि सहस्रवृत्सहस्रसंख्यकैर्देवैः
प्रार्थ्यमानं भवति । ते एते द्यावापृथिव्यावश्विनाविवसदृशौ, यथाऽश्विनौ सर्वैषा-
मुपकुरुत एवमेते द्यावापृथिव्यावपीत्यर्थः । कीदृशावश्विनौ, प्राणिनां रोगनिवर्तनेन
१ ग. सर्वैर्दै । २ ग. ॰त्याः । इति स॑ ।
वथः स्वधा-`
Line 17:
वन्तौ । भ॒द्रा वां॑ पूषणावि॒ह रा॒तिर॑स्तु, इति ।
Line 18:
पूर्वत्र द्यावापृथिव्यौ दंपतिरूपेण स्तुते, इह त्वहोरात्ररूपेण स्तूयेते--हे द्यावापृ-
Line 19:
थिव्यौ वां युवयोर्मध्येऽन्यत्परं स्वरूपं शुक्रं शुक्लवर्णं भास्वरमहः । अन्यदितरत्स्व-
Line 20:
रूपं र(य)जतं निश्यनुष्ठितयागोपलक्षितकृष्णवर्णोपेता रात्रिः । इत्येवं युवां विषुरूपे
(Notice: र(य)जतं - yes, with parentheses!)
Line 21:
विलक्षणरूपयुक्ते अहनी अहोरात्रे स्थः । ते युवां द्यौरिव द्युलोकस्थ आदित्य इव
Line 22:
सर्वस्योपकुरुत(थ)इति शेषः । हे स्वधावन्तावन्नवन्तौ युवां देवौ हि यस्माद्विश्वा
(Notice: सर्वस्योपकुरुत(थ)इति)
Line 23:
`मायाः सर्वा अपि मतीरवथो रक्षथः । सति ह्यह्ने सर्वेषां बुद्धिः प्रसीद
४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१अनु०१०]
चरथ॑ः स॒ꣲसखा॑यौ । ताव॒श्विना॑ रास॒भा॑श्वा
हवं॑ मे । शु॒भ॒स्पती॒ आगत॒ꣲ सूर्य॑या स॒ह, इति ।
अहोरात्ररूपेण स्तुतयोः पुनः सखिद्वयरूपेण स्तुतिः क्रियते—हे द्यावाभूमी
द्यावापृथिव्यौ युवां सखायौ सखिद्वयमिव संचरथः संभूय वर्तेथे । कीदृशौ सखायौ,
वासात्याँ वसतिमर्हतः, देवानां मनुष्याणां च निवासं प्रयच्छथ इत्यर्थः । चित्रौ
विलक्षणभोगप्रदत्वेन नानाविधौ, जगतो निधानौ सर्वस्यापि प्राणिजातस्य निधान-
स्थानीयौ, रासभाश्वा रासभौ गर्दभावेवाश्वस्थानीयौ ययोरश्विनोर्देवयोस्तौ रासभा-
श्वाख्यौ, तथाविधावश्विनावश्विसदृशौ तौ देवौ युवां शुभस्पती शोभनस्य कर्मणः
पालकौ सन्तौ सूर्योपमां³ सह ( + द्यावापृथिव्या सह ) हवं मदीयं यज्ञं प्रत्या(आ)-
गतमागच्छतम् ।
अथ पञ्चमीमाह—
त्युग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे । र॒यिं न कश्चि॑-
न्ममृ॒र्वाँ ३ अवा॑हाः । तमू॒हथु॒र्नौभि॑रात्म॒न्व-
तीभि॑ः । अ॒न्तरि॑क्षप्रुड्भि॑रपोद॒काभि॑ः (२), इति ।
हेऽश्विनावुदमेघ उदकसहितमेघेऽवस्थितं भुज्युं पालकं तमुदकसंप्लवमूहथुर्वहथः
संपादयथः । कीदृशमुदकप्लवम्, नौभिः, तरणीयमिति शेषः । कीदृशीभिर्नौभिः,
आत्मन्वतीभिर्दृढस्वरूपयुक्ताभिः । अन्तरिक्षप्रुड्भिर्भूमिस्पर्शमन्तरेण जलस्योपर्यन्त-
रिक्षे प्लवनशीलाभिः । अपोदकाभिरुदकप्रवेशरहिताभिः, निश्छिद्रभिरित्यर्थः । अश्वि-
नोरुदकस्य वहने दृष्टान्तः--त्युग्रोऽप्युग्रो मूर्खः कश्चित्पुमान्ममृत्वान्मरणं प्राप्यमा-
णोऽपि रयिं धनं न प्रयच्छति किंत्वाहा आहत्येव । यद्वा स्वयमेवावहरति(हति) ।
यथा स लुब्धोऽत्यादरेण धनं संपादयत्येवमश्विनावप्यादरेण वृष्टिं संपादयत इत्यर्थः ।
अथ षष्ठीमाह--
ति॒स्रः क्ष॑पस्त्रिरहा॑ऽतिव्रज॑द्भिः । नास॑त्या
भु॒ज्युमूहथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑
पा॒रे । त्रि॒भी रथै॑ः श॒तप॑द्भिः षडश्वै॑ः, इति ।
- एतच्चिह्नान्तर्गतमधिकमिव भाति ।
१ क. प्रयच्छत । २ क. ख. 'सा या' । ३ क. °थिव्यौ स° । ४ ग. °वां अ° । १ ख.
°रूपखि° ।
स्वाधीनमेवः । तुग्र आदित्यः, तुग्रशब्दो"
Wait, "स्वाधीनमेवः"?
'स्वा' 'धी' 'न' 'मे' 'व' - is that a visarga or punctuation? It looks like "स्वाधीनमेव ।" with a dot or colon, or "स्वाधीनमेवः ।"?
Wait, "वशी स्वाधीनमेव" -> Sāyaṇa glosses वशी as स्वाधीनमेव. The colon/visarga: look at "स्वाधीनमेवः ।" - yes, there's a visarga or colon.
Then: "तुग्र आदित्यः, तुग्रशब्दो"
Line 22:
"रश्मिनाम तद्वान्त्सुग्रः स च वक्रियां वक्रां कुटिलां वृष्टिविमुखं तं मेघमन्वेति वर्ष-"
Wait, "तद्वान्त्सुग्रः" or "तद्वान्त्तुग्रः"?
'त' 'द्वा' 'न्त्सु' 'ग्रः' or 'न्त्तु' 'ग्रः'? It's "तद्वान्त्तुग्रः" (तुग्र possessed of rays). Look at the consonant cluster: 'न्त्तु' (n-t-tu).
Line 23:
"यितुमनुगच्छति । किं कुर्वन्, सोमतृप्सुष्व्यायसूयान् । सोमेन तृप्यन्तीति सोम-"
Line 24:
"
कल्पः—" स संग्राम इति द्वे " इति । तत्र प्रथमामाह—
स॒ सं॒ग्राम॑स्त॒मोद्यो॒ऽत्यो॑तः । वाचो॒ गाः पि॑पाति॒ तत् ।
स तद्रोभिः स्तवा॑ऽत्येत्य॒न्ये । रक्ष॑साऽनन्वि॒ताश्च॑ ये, इति ।
स आदित्यो गा गवादीन्पशूंस्तदप्सूदकं पिपाति पाययति । कीदृशीः।,
वाचः शब्दयन्तीः । पूर्वमुदकाभावात्तृष्णार्ताः सत्यो जलपानार्थं हम्भारवं कुर्वन्तीत्यर्थः ।
कीदृशः स आदित्यः– संग्रामः, समूहवाची ग्रामशब्दोऽत्र रश्मिसंघमाचष्टे । संप्राप्तो
ग्रामो रश्मिसंघो येनासौ संग्रामः, रश्मिभिः पूर्ण इत्यर्थः । तमो द्यति खण्डय-
तीति तमोद्यः, अत्यैरश्वरतो रक्षितो धृत इत्यत्योतः । " अश्वोऽसि हयोऽस्यत्योऽसि
नरोऽसि " इत्यश्वनामस्वत्यशब्द आम्नातः । आदित्यो ह्यश्वैः स्वकीयरथे स्थितः स
आदित्यस्तत्तदा गोभिर्वृष्ट्या परितुष्टानां प्राणिनां वाग्भिः स्तवा स्तूयमानः सन्नन्येऽ-
न्वान्यन्देवानत्येत्यतिक्रामति, सर्वदेवाधिकत्वेन भासत इत्यर्थः । ये च दिव्या जना
रक्षसा रक्षसो जात्याऽनन्विता असंबद्धा देवपक्षपातिनस्तैः सर्वैः स्तूयत इति शेष ।
अथ द्वितीयामाह--
अन्वे॑ति परि॑वृ॒न्त्यास्त॑ः । ए॒वमे॒तौ स्थो॑ अश्विना ।
ते ए॒ते द्या॑पृथि॒व्योः । अह॑रह॒र्गर्भ॑ दधाथे ( ४ ), इति ।
अस्तः क्षिप्त आदित्येन प्रेरितो मेघः परिवृत्य पुनरपि वृष्ट्यर्थं पर्यागत्यान्वे-
त्यानुकूल्येन गच्छति, वर्षतीत्यर्थः । हेऽश्विना(नौ)ते एते यथोक्तवृष्टियुक्ते द्यावापृथिव्यौ
ये विद्येते तयोरेवमुक्तेन प्रकारेणोपकुर्वन्तावेतौ युवां स्थो वर्तेथे । कथमुपकार इति
तदेव स्पष्टी क्रियते–द्यापृथिव्योर्द्यावापृथिव्योरहरहः प्रतिदिनं गर्भं दधाथे जलद्वारा
तत्तत्प्राण्युत्पत्तिबीजं संपादयथः । एवमेताभ्यां मन्त्राभ्यामिष्टके उपदध्यात् ।
अतः परं ब्राह्मणवाक्यमुच्यते । तत्र द्यावापृथिव्यौ बहुधा प्रशस्येते । तत्रैकां
प्रशंसामाह--
तयो॑रे॒तौ व॒त्सावह॑ोरा॒त्रे । पृ॒थि॒व्या अह॑ः । दि॒वो
रात्रि॑ः । ता अ॑विसृ॒ष्टौ । दंप॑ती ए॒व भ॑वतः, इति ।
तयोर्द्यावापृथिव्योरेतावहोरात्ररूपौ कालौ वत्सस्थानीयौ, तत्रोत्पन्नत्वात् । तयो-
र्मध्ये पृथिव्या गोस्थानीयाया अहर्वत्सस्थानीयं दिवश्च रात्रिवत्सस्थानीया । प्रशं-
१ क. ॰ब्दो र॰ । २ ख ग. ॰श्वेरूतो । ३ ख. पराग॰ । ४ ख. ग. प्रशंस्यते । ५ क.
रात्रिस्थानीयाया । ६ ख. ग. ॰त्रिश्च वत्स॰ ।
orँorꣳ(Vedic sign gomukha / candrabindu / ardhadakara). In Anandashrama, it is often printed as a candrabindu with a small२or३or justँ! Wait, look at line 24: सेय ँ- actually it'sसेयfollowed by a candrabindu and a figure२? No, look at सेय ँ: It's सेयँ! Wait, let's look at the character: It's सेयthenँ(candrabindu) withऽor२? Wait, Anandashrama Taittiriya: सेयँ॑? No, there is no udatta. Let's see: सेयँorसेय ँorसेयं? In the image: सेयthen a space, thenँwith a loop below, orꣳ? It is often represented as सेयँorसेय ँorसेयं. Wait, let's look at the text: सेय ँ रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति ।Wait, look atपु॒त्रेण॒: पु॒: anudatta त्रे ण॒: anudatta स
सर्वेऽसतो जगत्कारणादव्यक्तात्सकाशात्सद्व्यक्तं जगत्तत्तत्क्षुतक्षणोपलक्षितं निष्पादनं
कृतवन्तः । एते हि पूर्वस्मिन्कल्पे सृष्ट्यधिकारार्थं तपस्तप्त्वा वर्तमानकल्पे जगत्कारणा-
दव्यक्तात्सकाशात्स्वस्वाधिकारोचितं व्यक्तं जगदुत्पादितवन्तः । अव्यक्ताद्व्यक्तमुत्पन्नमि-
त्ययमर्थ उपनिषद्यप्याम्नायते—‘‘असद्वा इदमग्र आसीत्, ततो वै सदजायत’’ इति ।
एवं सति सप्तर्षिवद्ये पुरुषा अस्मिन्मन्वन्यारुणकेतुकमग्निं चिन्वन्ति ते सर्वेऽप्यागा-
मिजन्मन्त्यगस्त्यसमानाश्च भवन्ति । किंचैते कर्मानुष्ठातारो नक्षत्रैर्दिवि भासमानैः सह
शंक्नुतोऽवसन्सर्वप्राणिनां सुखकारिणो वसन्ति । द्युलोके नक्षत्ररूपेणोत्पद्यन्त इत्यर्थः ।
तथा चान्यत्राऽऽम्नायते—‘‘यो वा इह य॑जते । अ॒मुं स लोकं न॑क्षते । तन्नक्षत्राणां
नक्षत्रत्वम्’’ इति । एतैश्चतुर्भिर्मन्त्रैरुपदध्यात् ।
अथैकं ब्राह्मणवाक्यमाह—
अथ॑ सवि॒तुः श्या॒वाश्व॑स्या॒वर्ति॑कामस्य, इति ।
पूर्वमथ पवित्राङ्गिरस इत्याङ्गिरोनाम्नो महर्षेः संबन्धिन इष्टकामन्त्रान्प्रतिज्ञाय ते
दर्शिताः, अथ तेभ्योऽनन्तरं श्यावाश्वस्य श्यावाश्वनाम्नः कस्यचिन्महर्षेः संबन्धिन
इष्टकामन्त्रा उच्यन्त इति शेषः । कीदृशस्य सवितुः प्रेरकस्य, मन्त्रसंप्रदायप्रवर्तक-
स्येत्यर्थः । अवर्तिकामस्य, वर्तिर्वर्तनं लोकव्यवहारे साधनं धनं तद्राहित्यमवर्तिर्दारिद्र्यं
तेन वैराग्यमुपलक्ष्यतेऽतो वैराग्यकामस्येत्युक्तं भवति ।
कल्पः—‘‘ अमी य इति सप्त मध्ये ’’ इति । तत्र प्रथमामाह—
अ॒मी य ऋक्षा॒ निहि॑तास उच्चा । नक्तं॒
द॑दृ॒श्रे कुह॑चि॒द्दि॒वेयु॑ः । अद॑ब्धानि॒ वरु॑णस्य
व्र॒तानि॑ । वि॒चाक॑शच्च॒न्द्रमा॒ नक्ष॑त्रमेति, इति ।
ऋक्षा नक्षत्रविशेषाः, अमी अस्माभिर्दृश्यमानाः, उच्चोच्चस्थाने दिवि निहितासः
प्रजापतिनाऽवस्थापिताः । ते नक्षत्रविशेषा नक्तं रात्रौ ददृश्रे विस्पष्टं दृश्यन्ते ।
दिवाऽहनि कुहचित्क्वापि गताः, अस्माभिर्न दृश्यन्त इत्यर्थः । वरुणस्य नक्षत्र-
ज्योतिषामावरकस्यं सौर्यतेजसः, व्रतान्यदब्धानि व्यापाराः केनाप्यहिंसिताः । तस्मा-
त्तेजोन्तराभिभावकस्य सूर्यतेजसः केनाप्यहिंसितत्वादहनि तेनाभिभूतानि नक्षत्राणि न
भासन्त इत्यर्थः । चन्द्रमास्तु विचाकशद्विशेषेण प्रकाशमानं नक्षत्रमेति प्राप्नोति
न तु सूर्यवन्नक्षत्राण्यभिभवति । तस्माद्रात्रौ दृश्यन्त इत्यर्थः ।
१ ख. ग. °षद्याम्ना° । २ ख. ग. जयते । ३ ख. ग. नक्षत्रे । ४ ख. ग. ददृशे । ५ क.
ग. °हिताः प्र° । ६ ख. ग. ददृशे । ७ ख. °स्य भावस्य सो° । ८ ख. ग. °स्य भावस्य सू° ।