तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 41, कुल 914 में से
संदर्भ में पढ़ें३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१अनु०८]
द्दीतिरित्त्यस्योत्तरम्—पुरुषसूक्ते—“पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि”
इत्याम्नायते । सर्वमप्येतज्जगदस्य परमेश्वरस्य चतुर्थोंऽशः । अवशिष्टमंशत्रयं व्यवहारा-
तीतत्वादमृतमविनश्वरं सद्द्योतनात्मके स्वस्वरूपे सर्वदाऽवतिष्ठते । तादृशात्त्रिपात्स्व-
रूपाद्ब्रह्मणो लब्धसामर्थ्यो देवो विष्णुर्धारयत्सर्वं जगद्धारयति । यत्त्रिपाद्वस्तु विष्णो-
रेकमेवोत्तमं स्वरूपं तस्मात्त्रिपाद्भादिति पूर्वत्रान्वयः । अथ वैतदुत्तरवशात्पूर्वत्रैको यद्धार-
यदि.ति वाक्ये कथमेको धृतवानिति प्रश्न उन्नेयः ।
अथ पञ्चमीमाह--
अ॒ग्नयो॑ वा॒यव॑श्चैव । ए॒तद॑स्य परा॒यण॑म्, इति ।
य एतेऽग्नयः सावित्रादय आरुणकेतुकान्