तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 45, कुल 914 में से
संदर्भ में पढ़ें३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १ अनु० ९]
अथ कश्यपमहिमकथनानन्तरमष्टपुरुषस्याष्टसंख्याकमूर्तियुक्तस्याग्नेर्महिमा कथ्यत
इति शेषः । तस्याग्नेर्महिमप्रतिपादिकेयमृग्विद्यते ।
तामेतामृचं दर्शयति—
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव
व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॑: ।
भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेमेति ( ८ ), इति ।
स॒माहि॑ता दश॒स्ये उत्त॑ममुच्यते गृ॒हान्त्स्व॒कर्म॑भिः पू॒र्त्या रुह॒ इति॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽ-
ष्टमोऽनुवाकः ॥ ८ ॥
हेऽग्ने राये धनप्राप्त्यर्थमस्मान्सुपथा नय शोभनेन मार्गेण प्रापय । हे देव त्वं
विश्वानि वयुनानि सर्वान्मार्गाञ्ज्ञानन्सन्वर्त्तसे । जुहुराणं कुटिलमेनः पापमस्मद्युयो-
ध्यस्मत्सकाशाद्वियोजय । ते तुभ्यं भूयिष्ठामत्यधिकां नमउक्तिं नमस्कारप्रतिपादकं
वाक्यं विधेम कुर्यास्म । इत्यनयेष्टकामुपदध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यके प्रथमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ प्रथमे नवमोऽनुवाकः ।
कल्पः—" अग्निश्च जातवेदाश्चेत्यष्टौ " इति । पाठस्तु—
अ॒ग्निश्च॑ जात॒वेदा॑श्च । स॒होजा अजिरप्र॑भुः । वै॒श्वा॒न॒रो
नर्या॑पाश्च । प॒ङ्क्तिरा॑धाश्च स॒प्तमः॑ । वि॒सर्पेवाऽष्ट॑मोऽ
ग्री॒नाम् । ए॒तेऽष्टौ वस॑वः क्षि॑ता॒ इति॑, इति ।
अग्न्यादयः शब्दा मूर्तिविशेषाणां नामधेयानि । तत्र यः पङ्क्तिराधाः सोऽग्नीनां
मूर्तिविशेषाणां मध्ये सप्तमो ज्ञेयः । विसर्पच्छ( र्पेवश )ब्देन विसर्पीति नाम विव-
क्ष्यते । सोऽयमग्नीनां मध्येऽष्टमः । एतेऽग्न्यादयोऽष्टौ मूर्तिविशेषा वसवः सर्वेषां
प्राणिनां निवासहेतवः, स्वयं च क्षिताः सुखेन निवासं प्राप्ताः । इतिशब्द उपधानप्र-
दर्शनार्थः । अस्यामृच्यभिहितानि नामान्येवोपधानमन्त्राः । अग्निस्तया देवतयाऽङ्गिर-
स्वद्ध्रुवाऽऽसीदेत्येवं सर्वत्रोपधानम् ।
१ ख. ग. 'सर्पो वाऽ' ।