सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 48, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 48

अनु १० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४१
भूतजातानि तक्षती स्वव्याप्त्या नाना कुर्वती । एकैकस्य हि पदार्थस्य बहूनि नामधे-
यानि, वृक्षो महीरुहः शाखीत्येवं पर्यायबहुत्वदर्शनात् । यद्यप्यत्र प्रवृत्तिनिमित्तभूता
अवयवार्था भिद्यन्ते तथाऽपि देशभेदेन भिन्नभाषासु नास्ति प्रवृत्तिनिमित्तभेदः । अतः
शब्दप्रपञ्चस्य बाहुल्यादर्थप्रपञ्चोऽपि स्वल्पो भवति । सा च सरस्वती छन्दोभेदादेक-
पद्यादिरूपेण वर्धमाना सहस्राक्षरा सहस्रशब्दस्यानन्तपर्यायत्वादनन्ताक्षरा, अत्र
बभूवुषी भवितुमिच्छां कृतवती परमे व्योमन्विविधरक्षके परमे जगत्कारणे ब्रह्मणि
स्थिता । इत्यनयेष्टकामुपदध्यात् ।
अस्या ऋचस्तात्पर्यं दर्शयति—
वाचो॑ विशे॒षणम्, इति ।
वाग्देवतायाः स्तुतिरस्यामृचि क्रियत इत्यर्थः ।
कल्पः—“वराहव