सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 44, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 44

[प्रपा०१।अनु०८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३७
स्याति॑थिः सि॒द्धग॑मनः सिद्धाग॑मनः, इति ।
यः पुमानेवं कश्यपादुदिताः सूर्या इत्याद्युक्तप्रकारेण कश्यपमहिमानं जानाति,
असावेतमपमृत्युं कृमिकीटादिकेष्पूक्तमपकृष्टमृत्युं जयति । विदुषः पापेष्वप्रवृत्तेर्युक्तो
मृत्युजयः । किं च स खलु ब्राह्मण एवंवित्कश्यपमहिमाभिज्ञः सन्दीर्घश्रुत्तमो
भवति, दीर्घं चिरकालं कश्यपेन श्रूयते सम्यगनुष्ठाताऽयमिति, ततोऽप्यतिशयो
बहूनां देवानां मुखाच्छ्रवणं बहवोऽपि देवाः कश्यपसमीपं गत्वा ब्राह्मणोऽयमारुणके-
तुकं सम्यगनुतिष्ठतीति पुनः पुनः कथयन्त्यतोऽयं दीर्घश्रुत्तमः । परलोके कश्यपस्या-
तिथिरिव पूज्यो भवति । किंच स ब्राह्मणः स्वेच्छया कश्यपसमीपगमनागमनयोः
समर्थो भवति ।
अथ ब्राह्मणोक्तार्थस्य प्रतिपादिकामृचमवतारयति —
तस्यै॒षा भ॑वति, इति ।
तामेतामृचं दर्शयति —
आ यस्मि॑न्त्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या रुह॑: (७) ।
ऋष॑िर्ह दीर्घश्रुत्त॑मः । इन्द्र॑स्य घ॒र्मो अ॑तिथि॒रिति॑, इति ।
यस्मिन्कश्यपे सप्तसंख्याका आरोगादयः सूर्या आ रोहन्ति कश्यपादेवोत्पद्य स्थितिं
लभन्त इत्यर्थः । कीदृशाः सप्त सूर्याः, वासवा जगन्निवासहेतवः, पूर्व्या रुहः सृष्ट्यादा-
वुत्पन्नतत्वेन प्रथमाङ्कुरभूताः, तस्येन्द्रस्य परमैश्वर्ययुक्तस्य कश्यपस्य दीर्घश्रुत्तमनामकः
कश्चिदृषिर्घर्मो दीप्यमानः सन्नतिथिः संपन्नः । इत्यनयेष्टकामुपदध्यात् । अत एव
बौधायनः—‘‘ मा यस्मिन्नष्टे नयेति द्वे ’’ इति ।
अथ ब्राह्मणमुच्यते--
कश्यपः पश्य॑को भवति । यत्स॑र्वं
परिपश्यती॑ति सौ॒क्ष्म्यात्, इति ।
योऽयमष्टमः सूर्यो रूढ्या कश्यप इतिनाम्नाऽभिधीयते स एवावयवार्थपर्यालोचना-
यामाद्यन्तयोरक्षरयोर्व्यत्यासेन पश्यको भवति । यद्यस्मात्कारणादत्यन्तसूक्ष्मत्वेन
दिव्यदृष्ट्या सर्वमतीतानागतादिकं परितः पश्यति ।
तदेवं कश्यपप्रकरणं समाप्याग्निप्रकरणमारभते—
अथाग्ने॑रष्टपु॑रुषस्य । तस्यै॒षा भ॑वति, इति ।
१ क. ॰कीट्यूके॰ । ख. ग. ॰कीटोऽके॰ । २ ख. ॰षिर्हि दी॰ । ३ क. ॰रभ्यते ।