सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 50, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 50

[प्रपा० १ अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४३
“समानमेतदिति वृष्टिमतीम्” इति । इष्टकाविशेषस्य वृष्टिमतीति नामधेयम् । एवमुक्त-
रैलैभिर्मन्त्रैर्लोकाप्यायितशंयुनामकानामिष्टकाविशेषाणामुपधानं स एवाऽऽह--“यद-
क्षरमिति लोको जमदग्निरित्याप्यायितस्तच्छंयोरिति शंयुः ” इति ।
तत्र प्रथमं मन्त्रमाह--
यदक्ष॑रं भूत॒कृत॑म् । विश्वे॑ दे॒वा उ॒पास॑ते ।
म॒ह॒र्षिम॑स्य गो॒प्तार॑म् । ज॒मद॑ग्निमकुर्वत, इति ।
न क्षरति न विनश्यति कदाचिदपीत्यक्षरं यत्परं ब्रह्म वस्तु भूतकृतमाकाशादि भूत-
रूपेण निष्पन्नम् । अत एवोपनिषद्याम्नायते--“तदात्मानं स्वयमकुरुत” इति । तादृशं
विश्वे सर्वेऽपि देवा उप सते । अस्याक्षरस्य गोप्तारं रक्षितारं जमदग्न्याख्यं मह-
र्षिमकुर्वत । देवा इन्द्रादयः स्वपुरुषार्थसिद्ध्यर्थं स्वयमुपासते मनुष्याणामनुग्रहार्थं
जमदग्निप्रभृतिकं महर्षिसंघमस्याक्षरस्योपदेष्टारमकुर्वत । ऋषयो हि तत्तद्वेदप्रवर्तनेन
मनुष्येभ्योऽक्षरमुपदिश्य तत्संप्रदायं परिपालयन्ति ।
अथ द्वितीयं मन्त्रमाह--
ज॒मद॑ग्निराप्या॑यते । छन्दो॑भिश्चतुरुत्त॒रैः । राज्ञः सोम॑स्य तृप्तास॑ः
( ६ ) । ब्रह्म॑णा वी॒र्या॑वता । शिवा न॑ः प्र॒दिशो॒ दिश॑ः, इति ।
स च जमदग्निश्चतुरुत्तरैरक्षरचतुष्टयादुत्तरभाविभिर्गायत्र्यादिभिश्छन्दोभिः स्वेनोप
दिष्टैर्मन्त्रैर्वाऽऽप्यायते प्राणिनोऽभिवर्धयति । ते च प्राणिनो वीर्यावता शक्तिमता
ब्रह्मणा मन्त्रेण राज्ञो राजमानस्य सोमस्य लतात्मकस्य पातारो भूत्वा तृप्तासः कृत
कृत्यबुद्ध्या तृप्ता भवन्ति । सैव तृप्तिः स्पष्टी क्रियते--नोऽस्माकं प्रदिशः प्राच्याद्य
मुख्या दिश आग्नेयाद्या अवान्तरदिशश्च शिवाः शान्ताः संपन्नाः, सर्वदिग्वर्तिप्रजासुख
हेतवः संपन्ना इत्यर्थः ।
अथ तृतीयं मन्त्रमाह--
तच्छं योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये ।
दैवी᳭ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मा॑नु॒षेभ्यः॑ । ऊ॒र्ध्वं
जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳭ । शं चतु॑ष्पदे, इति ।
शं प्राप्तानां रोगादीनामुपशमनकारणम् । योः, आगामिनां रोगादीनां वियोगका-
१ ख. ग. ॰शेषम्' । २ ग. ॰र्वते । इ° । ३ ख ग. ॰र्वते । दे° । ४ ग. ॰तिकम्' ।
५ ग. ॰र्वते । ऋ° । ६ ख. ग 'मान्यस्य । ७ ग. मुख्यदि° ।