तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
१६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०२अनु०१९]
श्विनौ तौ तस्य ग्र ( ग्रा ? ) हस्य पूर्वपादौ । योऽयमत्रिमुनिः सोऽयं मध्यशरीरम् ।
यौ मित्रावरुणौ देवौ तावपरपादौ । शिशुमारस्य पुच्छे बहवो भागाः । तत्राग्निः
पुच्छस्य प्रथमं काण्डं प्रथमो भागः, ततस्तदूर्ध्वमिन्द्रो द्वितीयो भागः, ततोऽप्यूर्ध्वं
प्रजापतिस्तृतीयो भागः, ततोऽपि परतोऽभयं भयरहितं परं ब्रह्म चतुर्थो भागः ।
एवं ध्यातव्यानवयवान्संपाद्यावयविनं दर्शयति—
स वा ए॒ष दि॒व्यः शां॒करः॑ शि॒शुमा॑रस्त५ ह॒,—इति ।
यस्मै नमस्तच्छिर इत्यादिनाऽभयं चतुर्थमित्यन्तेन वाक्येन योऽयं निरूपितः स
एष दिव्यो दिवि भवः, शाकरोऽत्यन्तशक्तिमान् शिशून्मारयति मुखेन निगिरतीति
शिशुमारो जलग्र(ग्रा)हविशेषः, स हि जलमध्येऽत्यन्तविवृतेन मुखेन मनुष्यान्गृ-
ह्णातीति ।
एवं ध्यातव्यो ग्र(ग्रा?)हो निरूपितः, तद्ध्यानं तत्फलं च दर्शयति—
य ए॒वं वेदाप॑ पुनर्मृ॒त्युं ज॑यति॒ जय॑ति स्व॒र्गं लो॒कं
नाध्व॑नि प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नाप्सु प्रमी॑-
यते॒ नानप॑त्यः प्रमी॑यते॒ लघ्वा॑न्नो भवति,—इति ।
यः पुमाँन्दिव्यं शिशुमारं वेद मनसा ध्यायति स पुनरपमृत्युं जयति मार्गादि-
मरणरूपोऽपमृत्युविशेषश्च न भवति, दुर्मरणं तस्य न भवतीत्यर्थः । [ लध्वाश्नो ]
लब्धान्नः सर्वत्र सुलभान्नो भवति ।
अथ ध्यानानन्तरमनुमन्त्रणमाह—
ध्रु॒वस्त्वम॑सि ध्रु॒वस्य॑ क्षि॒तम॑सि॒ त्वं भू॒ताना॒मधि॑पतिरसि
त्वं भू॒तानाँ॒ श्रेष्ठो॑ऽसि॒ त्वां भू॒तान्यु॑प॒पर्य्याव॑र्तन्ते॒ नम॑स्ते
नमः॒ सर्वै॑ ते॒ नमो॒ नम॑ः ⁕शिशुकुमाराय नम॑ः(१) इति ॥
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठक
एकोनविंशोऽनुवाकः ॥ १९ ॥
अनेन मन्त्रेणोदङ्मुखो भूत्वा ध्रुवमण्डलं पश्यञ्शिशुमाररूपेण तमुपतिष्ठेत(त) । हे
शिशुमार त्वं ध्रुवोऽसि विनाशरहितोऽसि । तथा ध्रुवस्य जगत आकाशादेः क्षितं
⁕ ग पुस्तके टिप्पण्यां शिशुमारकुमारायेति पाठोऽन्यपुस्तकस्थो दत्तः ।
१ क. ख. ॰त ऊर्ध्वं । २ ग. संदर्शयति । ३ ख. ग. ॰ति । यदैवं । ४ क. ॰माभित्वं
शि° । ५ क. पुमानप° ६ ग. ॰णमन्त्रमा° ।
निवासस्थानमसि । भूतानां सर्वेषां प्राणिनां त्वमधिपतिरसि ! अत एव भूतानां
मध्ये श्रेष्ठोऽसि । भूतानि सर्वाणि त्वामुपेत्य परितः सेवन्ते । तस्मात्ते तुभ्यं नमोऽस्तु
यत्सर्वं जगत्तवाधीनं तथा सति नमः सर्वं त्वदीयाय सर्वस्मै नमः । तथा ते नमः
सर्वस्य स्वामिने तुभ्यमपि नमः । किं बहुना नमः शिशुकुमाराय नमः शिशुकुमारस्य
जलग्र(ग्रा?)हविशेषस्य कुमारो बालकस्तदाकारो यो ध्रुवस्तस्मै नमस्कारोऽस्तु । उभ-
यतो नमस्कारोऽयं मन्त्रः, तच्च नमस्कारद्वयमादरार्थम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥
अथ द्वितीयप्रपाठके विंशोऽनुवाकः ।
संध्यावन्दनाङ्गत्वेन शिशुंमारोपस्थानमुक्तम्, अथ दिगुपस्थानमुच्यते । तत्र प्रथमं
मन्त्रमाह —
नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॑
प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमः॑,—इति ।
.प्राच्यै पूर्वस्यै दिशे तदधिष्ठात्र्यै देवतायै नमोऽस्तु । याश्चैतस्यां प्राच्यां दिशि
[दे]वताः प्रतिवसन्त्येताभ्यो देवताभ्यश्च नमोऽस्तु ।
अथ द्वितीयादिमन्त्रानाह—
नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये-
ताभ्य॑श्च॒ नमो॒ नमः॑ प्रती॒च्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑-
वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॒ उदी॑च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॑
प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॑ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॒ऽधरा॑यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॑ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॑ऽवान्तरा॒यै॑ दि॒शे
याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमः॑,—इति ।
एते मन्त्राः प्रथममन्त्रवद्व्याख्येयाः ।
१ ग. ॰गत्ते तवा॰ । २ ग. ॰स्कार॰ । ३ क. ‘शुकुमा’ ।
१६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० २अनु० २०]
अथ मुन्युपस्थानमन्त्रं दर्शयति —
नमो॑ ग॒ङ्गाय॑मुनयो॒र्मध्ये॒ ये व॑स॒न्ति ते मे॑ प्रसन्नात्मान-
श्चिरं जीवि॒तं व॑र्धयन्ति॒ नमो॑ ग॒ङ्गाय॑मुनयोर्मुनि॑भ्यश्च॒
नमो॒ नमो॑ ग॒ङ्गाय॑मुनयोर्मुनि॑भ्यश्च॒ नमः॑ ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
विंशोऽनुवाकः ॥ २० ॥
नमस्कारादिक एको मन्त्र उभयतोनमस्कारौ द्वौ मन्त्रौ । गङ्गायमुनयोर्मध्ये पुण्य-
प्रदेशेषु तपोधिका ये केचन मुनयो वसन्ति ते सर्वेऽपि प्रसन्नचित्ता भूत्वा मम चिर-
मायुर्वृद्धिं कुर्वन्तु तेभ्यो नमः । उत्तरौ द्वौ मन्त्रौ भक्त्यतिशयद्योतनार्थौ । तत्रापि
नमःशब्दद्वयोपेतत्वमैत्यादरार्थम् । तदेवमस्मिन्प्रपाठके स्वाध्यायविधिः प्राधान्येन प्रति-
पादितः, तत्प्रसङ्गाच्छुद्धिकारणं संध्यावन्दनादिकं सर्वं प्रतिपादितम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये द्वितीयप्रपाठके विंशोऽनुवाकः ॥ २० ॥
सह॒ रक्षा॑ꣳसि यद्दे॑वाः सप्तद॑श यद॒दीव्य॒न्पञ्च॑दशाऽऽयु॑ष्टे चतु॑-
स्त्रिश॒त्षद्वैश्वानराय षड्विꣳशतिर्वात॑रशना ह कू॒ष्माण्डै॑रजानन्
पञ्च॑ ब्रह्मय॒ज्ञेन॒ ग्राम्ये॑ म॒ध्यंदि॑ने॒ तस्य॑ वै मे॒घस्तस्य॑ वै॒ द्वौ रिच्य॑-
ते दु॒हे ह॑ कति॒धाऽव॑कीर्णी भूर्नमः प्राच्यै॑ विꣳश॒तिः * सह॒ वात॑-
रशना ह दुहे ह॒ चतु॑र्विꣳशतिः ॥
अथ शान्तिः ।
नमो॒ ब्रह्म॑णे॒ नमो॑ अ॒स्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै
नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये
- ग. सह॑ ब्रह्मय॒ज्ञेन॑ विꣳश॑ ।
१ क. ॰दिरेको । २ ख. ग. ॰मभ्यासार्थं । ३ ग. ॰तुर्विंशत् ।
[प्रपा० ३ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६७
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयः प्रपाठकः
समाप्तः ॥ २ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये
द्वितीयः प्रपाठकः समाप्तः ॥ २ ॥
अथ कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकस्याऽऽरम्भः।
(तत्र प्रथमोऽनुवाकः ।)
हरिः ॐ ।
तच्छं॒ योरा॑वृणीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं
य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मा-
नु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑
अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
इति शान्तिः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
स्वाध्यायब्राह्मणं प्रोक्तं द्वितीये हि प्रपाठके ।
चातुर्होत्राचितेर्मन्त्रा वक्ष्यन्तेऽस्मिन्प्रपाठके ॥ २ ॥
१ ख. °न्तेऽस्मिंस्तृतीयेके । मा° ।
ब्राह्मणग्रन्थस्य तृतीयकाण्डे द्वादशप्रपाठके ब्रह्म वै चतुर्होतार इत्यस्मिन्ननुवाके
चातुर्होत्रचितेर्ब्राह्मणमुक्तं न तु तन्मन्त्रास्तत्रोक्ताः । तेषामरण्येऽध्येतव्यत्वात् । अतोऽ-
स्मिन्प्रपाठके तन्मन्त्रा उच्यन्ते । तत्र प्रथमानुवाकोक्तमन्त्राणां विनियोगो ब्राह्मण एवं
समाम्नातः पुरस्ताद्दशहोतारमुदञ्चमुपदधाति यावत्पदमिति । तत्पाठस्तु—
ॐ चित्ति॑ः स्रुक् । चि॒त्तमाज्य॑म् । वाग्वेदि॑ः । आधी॑तं
ब॒र्हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाच॒स्पति॑र्होता॑ ।
मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा॑ध्व॒र्युः, इति ।
आदौ सिसृक्षुः प्रजापतिः सृष्ट्यर्थं केनचिद्यागेनाऽऽध्यात्मिकेनेष्टवान् । तद्यागवर्तिनः
स्रुगादय एतेषु मन्त्रेषु प्रतिपाद्यन्ते । अत्र चित्तिचित्तशब्दाभ्यां निर्विकल्पकसविक-
ल्पकभेदजनकावन्तःकरणवृत्तिभेदौ विवक्षितौ । वाक् प्रसिद्धा । आधीतमुच्चार्यमा-
णम् । केतविज्ञातशब्दाभ्यां निर्विकल्पकसविकल्पकज्ञानविषयावभिधीयेते । वाक्पति-
शब्देन वाचः प्रवर्तकः कण्ठतालवादिस्थानेषु संयुज्यमानो वायुरुच्यते । मनःप्राणौ
प्रसिद्धौ । सामशब्देनाध्येतृवर्णोच्चारणशक्तिरुच्यते । एवं चित्त्यादयो दश शरीरगताः
पदार्थविशेषाः स्रुगादयो दश पदार्था होमनिष्पादकाः । अग्निशब्दद्वयेन चाऽऽहवनी-
यगार्हपत्यौ विवक्षितौ । उपवक्तृशब्देनानुवचनकर्तुर्होतुः पुरा प्रैषवक्ता मैत्रावरुणो
विवक्षितः । यद्वा प्रोक्षणादिष्वनुज्ञायां पृष्टायां ब्रह्मा समीपे स्थितं ॐ प्रोक्षेत्यादिना
तदनुज्ञां वक्ति तस्मादयमुपवक्ता । चित्त्यादयः शरीरगतपदार्थाः स्रुगादिरूपा इति
वाक्यार्थः । अस्मिन्मन्त्रे स्रुगादीनां होमसाधनानां दशानामभिहितत्वादयं मन्त्रो
दशहोतेत्युच्यते । सोऽयं मन्त्रस्य पूर्वभागः । तस्य चावयवाः पृथगिष्टकामन्त्राः
तत्र चित्तिः स्रुक्तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेत्येवमुपधानप्रकारो द्रष्टव्यः । ए-
ते दशेष्टका उपधेयाः ।
मन्त्रस्य योऽयमुत्तरो भागो ग्रहरूपस्तेन ग्रहेष्टकामुपदध्यात् । तथा च ब्राह्मणमाम्ना-
तम्—यथावकाशं ग्रहानिति । तं च ग्रहभागमाह—
वाच॑स्पते वि॒धे नाम॑न् । वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वाच॒स्पतिः॒ सोमं॑ पिबतु ।
आऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा॑ ( १ ), इति ।
१ ख. तु मन्त्रां । २ क. ॰वाकम॰ । ३ ग. ॰न विधानेनाऽऽ° । ४ ख. ग. ॰
तद्धेतुः स्वरोच्चा॰ । ५ क. ख. ॰येनाऽऽह॰ । ६ ख. ग. ॰र्तुर्जातुः । ७ क. स्थित्वों प्रो॰ । ८
ग. एता । ९ ग. ॰दधाति । त॰ । १० ख. ॰ह्माणे समा॰ । ११ ख. ॰हमा॰ ।
[प्रपा० ३ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६९
अध्व॒र्युः पञ्च॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
हे वाचस्पते वाचः पालक हे विधे जगद्विधातः, हे नामन्सर्वस्य वशीकर्तः, ते
तव नाम विधेम । अस्मदनुग्रहकारी देवोऽयमित्येवं प्रसिद्धिं कुर्मः । यद्वा नमनं
प्रह्रीभावं संपादयामः । त्वमप्यस्माकं नाम विधेः, देवानां मध्ये यजमानोऽयं यथा-
शास्त्रं हुतवानिति प्रसिद्धिं कुरु । अयं वाचस्पतिर्मदीयेषु यागेषु सोमं सोमसदृश-
माज्यं पिबतु । अस्मासु होमकर्तृषु नृम्णमपेक्षितं धनमाधात्संपादयतु । इमं वृत्तान्त-
मुद्दिश्य जुहुधीति स्वकीया वागाह । अत्र वाचस्पत इत्यादि नृम्णं धादित्यन्तो ग्रह-
भागः । एतेषां मन्त्राणामुपधाने विनियोगः प्रकरणसिद्धः, चातुर्होत्रब्राह्मणे वाचनि-
कश्च । इतरे तु विनियोगास्तत्र तत्र वाचनिकाः । ते च ब्राह्मणे द्वितीयकाण्डे द्वितीय-
तृतीयप्रपाठकयोः प्रपञ्चिताः । तेषु होमाहोमविषयभेदेन कश्चिद्विशेष आपस्तम्बेन
दर्शितः- “यत्र होमार्थाः संग्रहाः सस्वाहाकाराः, यत्राहोमार्था अग्रहा अस्वाहा-
काराः” इति । सोऽयं न्याय उत्तरेष्वपि मन्त्रेष्वनुसंधेयः । तदेवमस्मिन्ननुवाके दशहो-
तृमन्त्रोऽभिहितः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
अथ तृतीये द्वितीयोऽनुवाकः ।
अथ चतुर्होतृमन्त्र उच्यते । तस्य च विनियोगो ब्राह्मणेनैवाभिहितः—दक्षिणतः
प्राञ्चं चतुर्होतारमिति । तत्पाठस्तु—
पृथि॒वी होता॑ । द्यौर॑ध्व॒र्युः । रुद्रो॑ऽ-
ग्नीत् । बृह॒स्पति॑रुपव॒क्ता, इति ।
सोऽयं होतृभागः । तत्र पृथिव्यादयः प्रसिद्धाः, तथा होत्रादयश्च । उपवक्तृशब्देन
समीपे स्थित्वा तैत्तत्कर्मस्वनुजानानो ब्रह्मा विवक्षितः ।
अथ ग्रहभागमाह—
वाच॑स्पते वा॒चो वी॒र्येण॑ । संभृ॑तत॒पेनाऽऽय॑क्ष्यसे । यज॑मा-
१ ख. ग. सोमं° । २ ख. नृणं ध° । ३ ग. ॰मपिंक्षितं धनमधा° । ४ ग. ॰मः । तत्र ।
५ क. ब्राह्मणेस्य । ६ ग. सं ग्रहाः । ७ ग. ॰हाः स्वा° । ८ ग. ॰हाश्चास्वा° । ९ क. तत्क° ।
२२
१७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०३अनु०३]
नाय॒ वार्य॑म् । आ सु॒वस्कर॑स्मै । वा॒चस्पतिः॒ सोमं॑
पिब॑ति । ज॒जन॒दिन्द्र॑मि॒न्द्रिया॑य॒ स्वाहा॑ ( १ ), इति ।
पृथि॒वी होता॒ दर्श॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
हे वाचस्पतेऽत्यन्तसंपादितेन मन्त्रात्मिकाया वाचः सामर्थ्येन त्वमा समन्ता-
द्यक्ष्यसे । अस्मै यजमानाय वार्यं वरणीयं सुवः स्वर्गमॉकरा समन्तात्कुरु । अयं
वाचस्पतिरस्मदीयेषु यागेषु सोमं पिबति । इन्द्रं देवमिन्द्रियसम्पद्ध्यर्थं जजनज्जनयतु
प्रेरयत्वित्यर्थः । तदेतदुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीये तृतीयोऽनुवाकः ।
अथ पञ्चहोतृमन्त्र उच्यते । तद्विनियोगो ब्राह्मण एवमाम्नातः—पश्चादुदञ्चं पञ्च-
होतारमिति । तत्पाठस्तु—
अ॒ग्निर्होता॑ । अ॒श्विना॑ऽध्व॒र्यू । त्वष्टा॑ऽ-
ग्नीत् । मि॒त्र उप॑वक्ता, इति ।
अग्न्यादयः प्रसिद्धाः । अध्वर्युः प्रतिप्रस्थाता चेत्येवमध्वर्युद्वित्वेन होतृपञ्चकं
पूरणीयम् ।
अथ ग्रहभागमाह—
सोमः॒ सोम॑स्य पुरो॒गाः । शुक्रः॒ शुक्र॑स्य पुरो॒गाः । श्रा॒तास्त॑
इन्द्र॒ सोमाः॑ । वाता॑पेह्वन॒श्रुतः॒ स्वाहा॑ ( १ ), इति ॥
अ॒ग्निर्होता॒ऽष्टौ॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
१ ग. ॰माकः स॑ । २ क. ॰मन्त्रा उच्यन्ते । तं॑ ।
[प्रपा०३ अनु०४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १७१
योऽयं देवतात्मकः सोमः सोऽयं लतात्मकस्य यागदेशं प्रत्यागमने पुरतो गच्छति ।
शुक्नो भासको देवतादिप्रकाशको मन्त्रः शुक्रस्य गृह्यमाणतया भासमानस्य सोमस्य
पुरतो गच्छति । आदौ मन्त्रं पठित्वा पश्चात्सोमो गृह्यते । हे इन्द्र ते त्वदर्थमेते सोमाः
श्राताः पक्वाः, आश्रिता वा । कीदृशस्य ते । वातवदाप्नोति रंहसा गच्छतीति वाता-
पिस्तस्य । हवनमाह्वानं शृणोतीति हवनश्रुत्तस्य । एतदर्थं जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदी-
यतैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
अथ तृतीये चतुर्थोऽनुवाकः ।
अथ षड्ढोतृमन्त्र उच्यते । द्विविधस्तन्मन्त्रः । अस्मिंश्चतुर्थानुवाके प्रोक्तः सूर्य ते
चक्षुरित्येकः । षष्ठानुवाके प्रोक्तो वाग्घोतेत्यपरः । स एव चातुर्होत्रचयने प्रयोक्तव्यः ।
वाग्घोता षड्ढोतॄणामित्येवं तद्ब्राह्मणे निर्देशात् । सूर्य त इत्यस्य तु पशुबन्धादौ विनि-
योगः । स च होतृब्राह्मणकाण्डे पठ्यते । पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसाऽनु-
द्रुत्याऽऽहवनीये जुहुयादिति । तन्मन्त्रपाठस्तु—
सूर्यं॑ ते॒ चक्षु॑ः । वातं॑ प्रा॒णः । द्यां पृष्ठम् । अ॒न्तरि॑-
क्षमा॒त्मा । अ॒ङ्गैर्य॒ज्ञम् । पृ॒थि॒वीꣳ शरीरै॑ः, इति ।
हे पशो योऽयं सूर्यः स ते चक्षुः, यो वायुः स ते प्राणः। तथा च पशुविषयेऽ-
धिगुप्रैषे समाम्नायते—सूर्य चक्षुर्गमयतात् । वातं प्राणमन्ववसृजतादिति । या द्यौः स
पृष्ठभागः, उपरिवर्तित्वसाम्यात् । यदिदमन्तरिक्षं तत्त्वदीयो जीवात्मा, मध्यवर्तित्व-
साम्यात् । यानि हृदयादीन्यङ्गानि तैर्यज्ञं संपादयेंसीति शेषः । यान्यन्यान्यस्थ्यादीनि
शरीरगतानि तैः पृथिवीं प्राप्नुहीति शेषः । सूर्य ते चक्षुरित्यादावपि त्वदीयं चक्षुः
सूर्यं प्राप्नोत्विति वा योजनीयम् । अथ वा वक्ष्यमाणं वाचस्पतिसंबोधनमनूद्य ते चक्षुः
सूर्यं प्राप्नोत्विति वा योजनीयम् । अथ वा वक्ष्यमाणं वाचस्पतिसंबोधनमनूद्य ते चक्षुः
सूर्ये रूपं जानीयादित्येवं वाचस्पतिपरतया मन्त्रे योज्यम् । होमनिष्पादकस्य पशोश्चक्षु-
रादीनि षडङ्गान्यत्रोक्तानीत्यस्य मन्त्रस्य षड्ढोतृत्वम् ।
अथ ग्रहभागमाह—
वाच॑स्पतेऽच्छि॑द्रया वा॒चा । अ॒च्छि॑द्रया जु॒ह्वा॑ ।
१ ख. ग. वायुर्° । क. °मन्त्रा उच्यन्ते । द्वि° । ३ ग. °था प° । ४ ग °ये दिगु° ।
५ क. °यन्विति । ग. °यतीति । ६ क. °स्थ्यस्थी° । ७ ग. सूर्यरू° । ८ क. मन्त्रो । ९ क.
योज्यः ।
१७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०३अनु०५]
दि॒वि दे॒वावृध॑ꣳ होत्रा॒मेर॑यस्व॒ स्वाहा॑ ( १ ), इति ॥
सूर्ये॑ ते॒ नव॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
हे वाचस्पतेऽच्छिद्रया वाचा स्वराक्षरसंपूर्णेन मन्त्रेण, अच्छिद्रया जुह्वा घृतसं-
पूर्णया स्रुचा, देवावृधं देवानां वर्धयित्रीं होत्रां होमक्रियां दिवि द्युलोक एरयस्व
सर्वतः प्रेरय । एतमर्थमुद्दिश्य जुहुधीति स्वकीयां वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ तृतीये पञ्चमोऽनुवाकः।
अथ सप्तहोतृमन्त्र उच्यते । तस्य च विनियोगश्चातुर्होत्रब्राह्मण एवमाम्नातः-
“उपरिष्टात्प्राञ्चꣳ सप्तहोतारम्” इति । तत्पाठस्तु-
म॒हाह॑वि॒र्होता॑ । स॒त्यह॑वि॒रध्व॒र्युः । अच्यु॑तपाजा
अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अना॑धृष्यश्चाप्र॑-
तिधृष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अया॑स्य उद्गा॒ता, इति।
महाहविः सत्यहविरित्याद्या अगस्त्यान्ताः सप्तसंख्याका महर्षयः । तन्महर्षित्व-
रूपा अत्रत्या होत्रादयः । यज्ञस्य सोमयागस्य । अभिगरौ, अभित उद्गातुः पुरस्ता-
त्पश्चाच्च गृहीतप्रस्तारप्रतिहारभागौ गायेते इति प्रस्तोतृप्रतिहर्तारावभिगरौ । होताऽध्व-
र्युराग्नीध्रो ब्रह्मा प्रस्तोता प्रतिहर्तोद्गातेति सप्तसंख्याका होमनिष्पादका अत्रोक्त
इत्ययं मन्त्रः सप्तहोतेत्युच्यते ।
अथ ग्रहभागमाह--
वाच॑स्पते हृद्वि॒धे नाम॑न् । विधे॑म ते॒ नाम॑ । विधे॑स्त्वम॒स्माकं॒
नाम॑ । वाच॑स्पतिः॒ सोम॑मपात् । मा दैव्य॒स्तन्तु॑श्छेदि॒ मा
म॑नु॒ष्य॑ः । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा॑ ( १ ), इति ।
१ क. एवमं । २ क. ῾मन्त्रा उच्यन्ते । त° ।
[प्रपा० ३ अनु० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १७३
अप॒ाची॑र्णि च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
हे वाचस्पते हे हृदिधे हृदयस्य विधातः चित्तप्रेरकेत्यर्थः । हे नामन्सर्वजगत्सं-
बन्धिप्रणामयुक्त ते तुभ्यं नाम नमनं प्रणतिं विधेम कुर्मः । त्वं चास्माकं [नाम] वेधः, देवानां मध्ये सुम्न्यष्टवानिति प्रसिद्धं नामधेयं कुरु । अयं वाचस्पतिः
सोममपात्पीतवान् । दैव्यस्तन्तुर्महद्गृहे हविःस्वीकारार्थमागतो देवसंबन्धी संतानो
मा च्छेदि कदाचिदपि विच्छिन्नो मा भूत् । तथा मनुष्यस्तन्तुर्ऋत्विक्प्रवाहोऽपि
विच्छिन्नो मा भूत् । द्यावापृथिवीभ्यां नमोऽस्तु । तमिममर्थमुद्दिश्य जुहुधीति स्वकीया
स्वाहा ॥
इति श्रीमत्सायणाचार्यविरचिते
१७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ३ अनु० ७
वाग्घो॑ता नव॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
षष्ठोऽनुवाकः ॥ ६ ॥
ये एते भूर्वादयस्त्रयो लोकास्तेषां यत्कारणं स्वयंभु स्वतः सिद्धं परं ब्रह्म तस्मै
स्वयंभुवे परब्रह्मणे जुहुधीति स्वकीया वागाह ॥ १
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ तृतीये सप्तमोऽनुवाकः ।
अनन्तरभाविनोऽनुवाकस्य चातुर्मास्येषु केशनिवर्तनेषु तद्दतं तत्सत्यमिति जपि-२
पक्षौजपमापस्तम्ब आह—"ब्राह्मण एकहोतेति चानुवाकम्" इति । तथा ब्रह्मकर्म३
नुपद्रव॑न्तोऽअजस्यानुमन्त्रणे विनियोगं भरद्वाज आह—ब्राह्मण एकहोतेति चेति४
एतदनुवाकगतेषु दशसु पर्यायेषु प्रथमं पर्यायमाह—
ब्राह्मण॑ एक॑होता । स य॒ज्ञः । स मे॑ ददातु
प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । य॒ज्ञश्च॑ मे भूयात् , इति ।
योऽयं वेदविद्ब्राह्मणः सोऽयमेकेन स्वकीयेन तपसा जुहोति सर्वस्य जगत उ
करोतीत्येकहोता । स एव ज्योतिष्टोमादिनिष्पादकत्वायज्ञस्वरूपश्च । स ईदृग्-
ब्राह्मणो मह्यं प्रजादिचतुष्टयं ददातु । तत्प्रसादाद्यज्ञोऽपि मे सर्वदा भूयात् ।
अथ द्वितीयं पर्यायमाह—
अ॒ग्निर्द्वि॑होता । स भ॒र्ता । स मे॑ ददातु प्र॒जां
प॒शून्पुष्टिं॒ यशः॑ । भ॒र्ता च॑ मे भूयात् , इति ।
द्वाभ्यां पाकहविर्वहनाभ्यामुपकरोतीति द्विहोता । अत एव पोषकत्वाद्भर्ता।
अन्यत्पूर्ववद्व्याख्येयम् ।
अथ तृतीयमाह—
पृ॒थि॒वी त्रि॑होता । स प्र॑ति॒ष्ठा ( १ ) । स मे॑ ददातु
प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्र॒ति॒ष्ठा च॑ मे भूयात्, इति ।
१ क. यतो भू० । २ ख. ॰श्वाऽपनमा॑ । ३ क. ॰मेवेऽनु।० । ४ ल. ॰तो मेऽक्षणस्या॑
प्राणरूपत्वं प्रसिद्धम् ।
L12: अथ षष्ठमाह—
L13: च॒न्द्रमाः षड्ढोता॑ । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जां
L14: प॒शून्पुष्टिं॒ यश॑ः । ऋ॒तव॑श्च मे कल्पन्ताम् , इति ।
L15: षण्णामृतूनां निष्पादकत्वेन षड्ढोतृत्वम् । चन्द्रमो हि वृद्धिक्षयाभ्यां शुक्ल-
L16: पक्षद्वारर्तून्कल्पयति । अत एवान्यत्राऽऽम्नातम्—“ ऋतूनन्यो विदधज्जायते
L17: : ” इति ।
L18: अथ सप्तममाह—
L19: अ॒न्नꣳ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जां
L20: प॒शून्पुष्टिं॒ यश॑ः । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात्, इति ।
L21: सप्तानां शीर्षण्यानां प्राणवृत्तीनां पोषकत्वेन सप्तहोतृत्वम् । अत एव प्राणपोषक-
L22: प्राणस्य प्राण इत्युच्यते ।
L23: अथाष्टममाह—
L24: द्यौर॒ष्टहो॑ता । सो
). Above it is a vertical stroke!
Wait, but is there a digit ३?
Wait! Look at line 12: स ऋ॒तूनꣳ॑ - wait, where is footnote 3: ३ ग. 'माक' !?
Wait! Look at footnote 3: ३ ग. 'माक' !
Where in the text is ३?
Look at line 11: प्रा॒णश्च॒न्द्रमा॑ - wait, look at च॒न्द्रमा॑!
Is there an udātta/svarita on मा? The sign above मा is ॑?
Wait, what if footnote 3 refers to च॒न्द्रमा?
Wait, in MS ग: it is चन्द्रमाक? No! ३ ग. 'मा ऽर्क' ।?
Wait, look at footnote 3: ३ ग. 'मा ऽर्क' । or 'माऽक'?
Wait! "चन्द्रमाः" vs "चन्द्रमा अर्कः"!
Ah! In MS ग, चन्द्रमा अर्कः or चन्द्रमाऽर्कः!
And in the text, after चन्द्रमा॑ at the end of line 11, there is a small smudge or nothing, and line 12 has स ऋ॒तून...?
Wait, look at the beginning of line 1
प्रपा०३ अनु०९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १७७
भ्या॑म् । आपः॑ प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्हिषा॑ । अदि॑ति-
र्वेद्या॑ । सोमो॑ दी॒क्षया॑ ( १ ) । त्वष्टे॒ध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ ।
वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊर्जा ।
पू॒षा स्व॑गा॒कारे॑ण । बृह॒स्पतिः॑ पुरो॒धया॑ । प्र॒जाप॑तिरु॒द्गीथेन॑ ।
अ॒न्तरि॑क्षं प॒वित्रे॑ण । वा॒युः पात्रैः॑ । अह॒श् श्र॒द्धया॑ ( २ ), इति ।
दी॒क्षया पात्रैरेकं॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठकेऽ
ष्टमोऽनुवाकः ॥ ८ ॥
अत्राग्निसवित्रादयो देवा यजुःस्तोमादीनि यज्ञे संभरणीयान्यङ्गानि। ऐते देवाैस्तैः संभ-
रणीयैः सहास्मिन्कर्मण्यागच्छेन्विति वाक्यार्थः । उक्थामैदशब्दः शस्त्रवाची । यज्ञ-
शब्दो हविष्प्रक्षेपवाची । स्वगाकारः शंयुवाकमन्त्रः । पुरोधा ग्रहणकाले पठनीया
ऋत्पुरोवाक् । पवित्रशब्दो दशापवित्रवाची । अहं यजमानः श्रद्धया सहाऽऽगच्छा-
। । स्पष्टमन्यत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ तृतीयप्रपाठके नवमोऽनुवाकः ।
अथ देवपत्न्यरूपा मन्त्रा उच्यन्ते । तेषां च विनियोगः पूर्ववद्द्रष्टव्यः । पत्न्य-
वस्येवं तत्र पत्नीष्टकानाामभिधानात् । पाठस्तु—
सेनेन्द्र॑स्य । धेना॒ बृह॒स्पतेः॑ । प॒थ्या॑ पू॒ष्णः । वाग्वा॒योः ।
दी॒क्षा सोम॑स्य । पृथि॒व्य॑ग्नेः । वसू॑नां गाय॒त्री । रु॒द्राणां॑
त्रि॒ष्टुक्* । आ॒दि॒त्यानां॒ जग॑ती । विष्णो॑रनु॒ष्टुक्* ( १ ) ।
वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑तेरनु॑मतिः ।
- अत्राग्रे चानुष्टुगित्युभ ग. पुस्तके त्रिष्टुबनुष्टुचित्यनुक्रमेण शोधितः पाठः । स च न वेदि-
प्रसिद्धः ।
१ ख. ग. संबर॑ । २ ख. ग. एतैर्देवा॑ । ३ क. ॰वास्तैर्भर॑ ४ ग ॑च्छन्तांति । ५ ख.
॰मदः शं॑ । ६ क. ॰त् । तत्पाठ॑ ।
२३
द्वितीय एवं तृतीय प्रपाठक (स्वाध्याय-विधि एवं चातुर्होत्र चयन)
atta under स्रो॒)
दिश॑ः (udatta on श॑)
चत॑स्रोऽवान्तरदिश॑ः (udatta on त॑, udatta on श॑)
अह॑श्च॒ (udatta on ह॑, anudatta on श्च॒)
रात्रि॑श्च (udatta on त्रि॑)
कृ॒षिश्च॑ वृ॒ष्टिश्च॑ । त्विषि॑श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च ।
कृ॒षिश्च॑ (anudatta on कृ॒, udatta on श्च॑)
वृ॒ष्टिश्च॑ (anudatta on वृ॒, udatta on श्च॑)
त्विषि॑श्चाप॑चितिश्च (udatta on षि॑, udatta on प॑)
आप॒श्चौष॑धयश्च (anudatta on प॒, udatta on ष॑)
ऊर्क च॑ सू॒नृता॑ च दे॒वानां॒ पत्न॑यः ( २ ), इति ।
ऊर्क च॑ (udatta on च॑)
सू॒नृता॑ च (anudatta on सू॒, udatta on ता॑)
दे॒वानां॒ (anudatta on दे॒, anudatta on नां॒)
पत्न॑यः (udatta on त्न॑)
( २ ), इति ।
अनु॑ष्टुग् दिश॑ः षट् च॑ ॥
[प्रपा० ३ अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ८७९
न्दिभ्यां हस्ताभ्यां त्वां प्रतिगृह्णामि । हे दक्षिणे देवि वरुणो राजा हिरण्यरूपाम्
त्वामग्नये प्रापयतु । तेनाग्निप्रापणेन प्रतिग्रहदोषाभावादहममृतत्वं नरकाभावरूपं प्राप्नु-
याम् । इयं च दक्षिणा दात्रे वयोऽस्तु प॑क्षिरूपिणी भूत्वा दातारं स्वर्गं नयत्वित्यर्थः ।
प्रतिग्रहीत्रे मह्यं मयः सुखमस्तु । इदं द्रव्यं कः प्रजापतिः कस्मै प्रजापतयेऽदाद्द-
त्तवान्, अन्तर्यामिरूपेण दातृप्रतिग्रहीत्रोः प्रेरकत्वात् । तथा कामः कामाय दत्त-
वान् । यथा प्रजापतिरदृष्टप्रेरकस्तथा कामस्य दृष्टप्रेरकत्वात् । तस्मात्काम एव दाता
प्रतिग्रहीता च । स्वर्गादिफलविषयः कामो दाता, ऐहिकसुखविषयः कामः प्रति-
ग्रहीता । ततो हे दक्षिणे समुद्रसमं कामं प्रविश । कामेन निमित्तेन त्वां प्रतिगृ-
ह्णामि । हे रुद्रहृदयवर्तिकाम तदेतद्द्रव्यं तुभ्यं भवति । हे काम ते त्वत्प्रीतय एवैषा
दक्षिणा प्रवृत्ता । अङ्गिरोगोत्रे समुत्पन्न उत्तानाख्यो महर्षिरत्वां प्रतिगृह्णातु ।
अथ वस्त्रादिद्रव्यविषयान्षोडश मन्त्रानाह—
सोमा॑य॒ वास॑ः । रु॒द्राय॒ गाम् । वरु॑णायाश्व॑म् । प्र॒जाप॑-
तये॒ पुरु॑षम् ( २ ) । मन॑वे॒ तल्प॑म् । त्वष्ट्रे॒ऽजाम् । पू॒ष्णेऽ-
वि॑म् । निऋ॑त्या॒ अश्व॑तरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन॑म् ।
ग॒न्ध॒र्वाप्स॒राभ्य॑ः स्रगलंक॒रणे । विश्वे॑भ्यो दे॒वेभ्यो॒ धान्य॑म् ।
वा॒चेऽन्न॑म् । ब्रह्म॑ण ओ॒दन॑म् । स॒मु॒द्रायाप॑ः ( ३ ) ।
उ॒त्ता॒नाया॑ऽऽङ्गीर॒सायो॑नः । वैश्वान॒राय॒ रथ॑म्, इति ।
एतेषु सर्वेषु मन्त्रेषु देवि दक्षिण इत्यन्तः पूर्वानुषङ्गः । तेनामृतत्वादिकमित्युत्तरा-
नुषङ्गः ।
तस्य रथप्रतिग्रहमन्त्रस्य शेषभूतामुत्तरानुषङ्गात्पूर्वभाविनीं कांचिदृचमाह—
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॑मारुहत् । दि॒वः पृ॒ष्ठं भन्द॑-
मानः सु॒मन्म॑भिः । स पूर्व॑वज्जनय॑ञ्ज॒न्तवे॒
धन॑म् । स॒मा॒नम॑ज्म॒ा पर्ये॑ति जा॒गवि॑ः, इति ।
वैश्वानराख्यो देवः प्रत्नथा पुरातनशरीरधारी सन्स्वर्गमारूढवान् । स च दिवः
पृष्ठं द्युलोकस्योपरिभागे मन्मभिर्मननविशेषैर्भन्दमानः कल्याणं कुर्वन्वर्त्तते । अयं
यजमान इमां दक्षिणां दत्तवानित्येवं वदन्देवानामग्रे स्मारयतीत्यर्थः । स वैश्वानरो
१ क. पक्षी भू° । २ ग. स्वर्गं । ३ ख. ग. °व्यं प्र° । ४ ख. ग. °तिः प्र° । , ग. ये दत्त° । ६ क. ख. त्वदर्थमेवै° । ७ क. ग. °भागं म° ।
१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा०३अनु०११]
जन्तवे प्राणिरूपाय यजमानाय धनं पूर्ववज्जनयन्, यजमानः पूर्वं यथा दक्षिणां
दत्तवांस्तथैव तदनुरूपं फलं जनयति । स वैश्वानरो जागृविः सावधानः सन्नज्मा
स्वर्गगमनशीलः समानं परियाति, यावद्दक्षिणार्थं द्रव्यं तेन सदृशं तद्योग्यं फलं
परिप्रापयति ।
अस्या ऋच उपरितनं रथप्रतिग्रहमन्त्रशेषमाह—
राजा॑ त्वा वरु॑णो नयतु देवि॒ दक्षि॑णे॒ वैश्वा॑न॒राय॒ रथ॑म् ।
तेना॑मृ॒तत्वम॑श्याम् । वयो॒ दात्रे॑ । मयो॒ मह्य॑मस्तु प्रतिग्र॑-
ही॒त्रे॑ १ ( ४ ) । क इ॒दं कस्मा॑ अदात् । कामः॑ कामा॑य ।
कामो॑ दा॒ता । कामः॑ प्रतिग्रही॒ता । काम॒ꣳ समु॒द्रमावि॑श ।
कामे॑न त्वा प्रति॑गृह्णामि । कामै॒तत्ते॑ । ए॒षा ते॑ काम॒ दक्षि॑णा ।
उ॒त्तान॒स्त्वाऽऽङ्गी॑र॒सः प्रति॑गृह्णातु ( ५^३), इति ॥
दा॒ता पुरु॑षम॒ार्षः प्रति॑ग्रही॒त्रे नव॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
दशमोऽनुवाकः ॥ १० ॥
अत्र तेनामृतत्वमश्यामियादिरुत्तरानुषङ्गः सर्वमन्त्रसाधारण^४ इति दर्शयितुं^५ प्रथममन्त्रे
पठितोऽपि पुनराम्नातो राजा त्वेत्यादिर्वैश्वराय रथमित्यन्तः पूर्वोक्त्या ऋच उपरि
रथमन्त्रे पुनः पठनीयः, इत्येतावान्विशेषः । एतैर्मन्त्रैः प्रतिग्रहेष्टका उपदध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥
——————————————————————————————
अथ तृतीय एकादशोऽनुवाकः ।
अथ होतृहृदयाख्या मन्त्रा अभिधीयन्ते । तेषां^७, त्विष्टकोपधाने विनियोगश्चातुर्हो-
त्रीब्राह्मण एवमाम्नायते—'हृदयं यजूंꣳषि पत्न्यश्च' इति । तत्र दशहोतृहृदयाख्यं
मन्त्रमाह—
सु॒व॒र्णं घ॒र्मं परि॑वेद वे॒नम् । इन्द्र॑स्याऽऽत्मानं॑ दश॒धा चर॑न्तम् ।
१ ध 'ग्रहित्रे ( ४ ) । २ ग. °त्रे । क० । ३ ग ( ४ ) । ४ ख 'र्वमन्त्रे सा' । ग. °र्वत्र
सा° । ५ ख. ग. दर्शयति । ६ ख. ग. 'क्ता या ऋ' । ७ क. ख. तेषाणिष्ट° । ८ ख. °व स्मा° ।
९ क. ख. °म्नातः । ह° ।
[प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८४
अ॒न्तः स॑मु॒द्रे म॑न॑सा॒ चर॑न्तम् । ब्रह्मा॒ऽन्व॑विन्द॒द्दश॑होतारम॒र्णे ।
अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाम् । एक॑ः स॒न्बहु॑धा विचा॑रः ।
श॒तꣳ शु॒क्राणि॒ यत्रैकं॑ भव॑न्ति । सर्वे॑ वे॒दा यत्रैकं॑ भव॑न्ति ।
सर्वे॑ होता॑रो॒ यत्रैकं॑ भव॑न्ति । स मान॑सीन॒ आत्मा॒ जना॑-
नाम् ( १ ) । अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाꣳ सर्वा॑त्मा ।
सर्वा॑: प्र॒जा यत्रैकं॑ भव॑न्ति । च॒तुर्होता॑रो॒ यत्र॑ सं॒पदं॑
गच्छ॑न्ति दे॒वैः । स मान॑सीन॒ आत्मा॒ जना॑नाम्, इति ।
चित्तिः स्रुगित्यादीनां होतृमन्त्राणां हृदयं रहस्यं तत्त्वं परमात्मस्वरूपं प्रतिपाद-
[य]तीत्ययमनुवाको हृदयमित्युच्यते । तत्रानेन मन्त्रेण दशहोतृहृदयं परमात्मतत्त्वमु-
च्यते । अहं मन्त्रद्रष्टा, इन्द्रस्य परमेश्वरस्याऽऽत्मानं निजस्वरूपं परिवेद परितः
सर्वत्रावस्थितं जानामि । कीदृशमात्मानम् । सुवर्णं सुवर्णसदृशं यथा सुवर्णं स्वत एव
प्रकाशमानं भवति तथा स्वयंप्रकाशम् । घर्ममन्यस्य वस्तुनो दीपकम्, ‘तस्य भासा
[स]र्वमिदं विभाति' इति श्रुतेः । वेनं कान्तं सर्वदुःखराहित्येन तस्य कमनीयत्वम् ।
दशधा चित्तिः स्रुगित्यादिदशहोतृमन्त्रे प्रतिपादितैराकारैः । चरन्तं लोके व्यवहरन्तम् ।
[अ]न्तः समुद्रे ब्रह्माण्डसृष्टेः पुरा सर्वत्र व्याप्यावस्थितो योऽयं जलसंघः सोऽयं समु-
[द्र]स्तस्य मध्ये मनसा चरन्तम्, इदं सर्वं जगत्सृजेये
स चान्तर्यामी स्वकीयेनेश्वररूपेणैक एव सन्पुनर्जीवरूपेण बहुधा भूत्वा विचारो
विविधचरणवान्भवति । अत एवान्यत्रोपनिषदि श्रूयते—
“ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ” इतिं ।
शतं शुक्राणि शतसंख्ययोपलक्षितान्यनन्तानि सूर्यचन्द्रनक्षैत्ररूपाणि ज्योतींषि यत्र
यस्मिन्परमात्मन्येकं भवन्ति, एकत्वं प्राप्नुवन्ति । तथा सर्वे वेदा ऋग्वेदप्रभृतयश्चत्वारो
वेदा नानाविधशाखोपेतौ विलीय यस्मिन्नेकी भवन्ति॑ । होतारश्च होमकर्तारः सर्वै यज-
माना दशहोत्रादिमन्त्रा वा यस्मिन्परमात्मन्येकत्वं प्राप्नुवन्ति । यथा बुद्बुदा जलमध्ये
समुत्पद्य कंचित्कालमवस्थाय विलीयमाना जल एवैक्यं प्राप्नुवन्ति । तथा सर्वे भावाः
परब्रह्मण एवोत्पद्य तत्रैव स्थित्वा विलीयमाना एकतां गच्छन्ति । अत एवोपनिषदि
[L
प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८३
तः प्रत्यश्रौषीः । त्वयैनानाख्यातार इति । तस्मान्नु हैनाꣳश्चतुर्होतार इत्याचक्षते ”
ति ।
तदेवं दशहोतृहृदयाख्यो मन्त्रोऽभिहितः । अथ चतुर्होतृहृदयाख्यो मन्त्रोऽभिधी-
यते । तत्र तिस्र ऋचस्तासु प्रथमामाह—
ब्रह्मेन्द्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मान॑ꣳ१
स॒वि॒तारं॒ बृह॒स्पति॑म् । चतु॑र्होतारं॒ प्रदि॒शो ऽनु॑कॢप्तम् ।
वा॒चो वी॒र्यं॑ तप॒साऽन्व॑विन्दत् , इति ।
ब्रह्मा चतुर्मुख इन्द्रं परमैश्वर्ययुक्तं परमात्मानं तपसाऽन्वविन्दत्, अन्विष्य लब्ध-
ान् । दर्शपूर्णमाससृष्टिसाधनं किमिति विचार्य चतुर्होतृमन्तरूपेणावस्थितं परमात्मानं
निश्चितवानित्यर्थः । तथा च ब्राह्मण आम्नायते — “ प्रजापतिरकामयत दर्शपूर्ण-
मासौ सृजेयेति । स एतं चतुर्होतारमपश्यत् ” इति । कीदृशमिन्द्रम् । जगतः
प्रतिष्ठां, अग्निं सर्वस्य जगत आधाररूपो योऽयं चातुर्होत्रीयचितिरूपोऽग्निस्त-
त्स्वरूपम्, दिव आत्मानं सवितारं द्युलोकस्य प्रकाशकत्वेनाऽऽत्मैवदवस्थितो२ यः
सविता तद्रूपम्, तथा बृहस्पतिं योऽयं देवगुरुस्तद्रूपेणावास्थितम्, प्रदिशः सर्वान्प्रदे-
ाननुकॢप्तं सर्वेषु प्रदेशेष्ववस्थितम्, चतुर्होतारं पृथिवी होतेत्यादिमन्त्रस्वरूपम्,
वाचो वीर्यं सर्वस्वं देवरूपाया वाचः सारभूतम् ॥
अथ द्वितीयामृचमाह—
अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम्३ । त्वष्टा॑रꣳ रू॒पाणि॑ वि॒कुर्व॑न्तं
विप॒श्चिम् ( २ ) । अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तम् । चतु॑-
र्होतृ॑णामा॒त्मानं॑ कव॒यो निचि॑क्यः , इति ।
कवयो विद्वांसो वेदशास्त्रपारंगताश्चतुर्होतॄणां चतुर्होतृशब्देनाभिधीयमानानां
वैषां होतृमन्त्राणामात्मानं स्वरूपभूतं परमेश्वरं निचिक्युः, निश्चितवन्तः । कीदृश-
त्मानम्—अन्तः प्रविष्टं जीवरूपेण शरीरेषु प्रविश्यावस्थितम् । अत एवाऽऽम्नायते४—
अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य ” इति । कर्तारमेतमित्यनेन मानसप्रत्यक्षेण प्रती-
ायनं लौकिकवैदिकसर्वक्रियानिष्पादकम् । एतच्चौन्यत्राऽऽम्नातम्—“एष हि द्रष्टा५
ष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ” इति । रूपाणि
कुर्वन्तं६ त्वष्टारं गर्भेषु देवतिर्यङ्मनुष्यादिरूपाणि७ विविधं निष्पादयन्तं त्वष्टृदेवस्वरूप-
१ क. ख. 'णमात्ना' । २ क. 'त्मप्रायो योऽग्नमवस्थि' । ३ ग. 'तमहामि' । ४ क. ऽऽम्नायने । ए° । ५ ग. 'ष्टा श्रोता पुष्टा घ्रा' । ६ ग. 'न्तं विश्वश्चितं त्व' । ७ ग. 'दिरूपं त' ।