सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 172, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 172

[प्रपा० ३ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६९
अध्व॒र्युः पञ्च॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
हे वाचस्पते वाचः पालक हे विधे जगद्विधातः, हे नामन्सर्वस्य वशीकर्तः, ते
तव नाम विधेम । अस्मदनुग्रहकारी देवोऽयमित्येवं प्रसिद्धिं कुर्मः । यद्वा नमनं
प्रह्रीभावं संपादयामः । त्वमप्यस्माकं नाम विधेः, देवानां मध्ये यजमानोऽयं यथा-
शास्त्रं हुतवानिति प्रसिद्धिं कुरु । अयं वाचस्पतिर्मदीयेषु यागेषु सोमं सोमसदृश-
माज्यं पिबतु । अस्मासु होमकर्तृषु नृम्णमपेक्षितं धनमाधात्संपादयतु । इमं वृत्तान्त-
मुद्दिश्य जुहुधीति स्वकीया वागाह । अत्र वाचस्पत इत्यादि नृम्णं धादित्यन्तो ग्रह-
भागः । एतेषां मन्त्राणामुपधाने विनियोगः प्रकरणसिद्धः, चातुर्होत्रब्राह्मणे वाचनि-
कश्च । इतरे तु विनियोगास्तत्र तत्र वाचनिकाः । ते च ब्राह्मणे द्वितीयकाण्डे द्वितीय-
तृतीयप्रपाठकयोः प्रपञ्चिताः । तेषु होमाहोमविषयभेदेन कश्चिद्विशेष आपस्तम्बेन
दर्शितः- “यत्र होमार्थाः संग्रहाः सस्वाहाकाराः, यत्राहोमार्था अग्रहा अस्वाहा-
काराः” इति । सोऽयं न्याय उत्तरेष्वपि मन्त्रेष्वनुसंधेयः । तदेवमस्मिन्ननुवाके दशहो-
तृमन्त्रोऽभिहितः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
अथ तृतीये द्वितीयोऽनुवाकः ।
अथ चतुर्होतृमन्त्र उच्यते । तस्य च विनियोगो ब्राह्मणेनैवाभिहितः—दक्षिणतः
प्राञ्चं चतुर्होतारमिति । तत्पाठस्तु—
पृथि॒वी होता॑ । द्यौर॑ध्व॒र्युः । रुद्रो॑ऽ-
ग्नीत् । बृह॒स्पति॑रुपव॒क्ता, इति ।
सोऽयं होतृभागः । तत्र पृथिव्यादयः प्रसिद्धाः, तथा होत्रादयश्च । उपवक्तृशब्देन
समीपे स्थित्वा तैत्तत्कर्मस्वनुजानानो ब्रह्मा विवक्षितः ।
अथ ग्रहभागमाह—
वाच॑स्पते वा॒चो वी॒र्येण॑ । संभृ॑तत॒पेनाऽऽय॑क्ष्यसे । यज॑मा-
१ ख. ग. सोमं° । २ ख. नृणं ध° । ३ ग. ॰मपिंक्षितं धनमधा° । ४ ग. ॰मः । तत्र ।
५ क. ब्राह्मणेस्य । ६ ग. सं ग्रहाः । ७ ग. ॰हाः स्वा° । ८ ग. ॰हाश्चास्वा° । ९ क. तत्क° ।
२२