सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 171, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 171

ब्राह्मणग्रन्थस्य तृतीयकाण्डे द्वादशप्रपाठके ब्रह्म वै चतुर्होतार इत्यस्मिन्ननुवाके
चातुर्होत्रचितेर्ब्राह्मणमुक्तं न तु तन्मन्त्रास्तत्रोक्ताः । तेषामरण्येऽध्येतव्यत्वात् । अतोऽ-
स्मिन्प्रपाठके तन्मन्त्रा उच्यन्ते । तत्र प्रथमानुवाकोक्तमन्त्राणां विनियोगो ब्राह्मण एवं
समाम्नातः पुरस्ताद्दशहोतारमुदञ्चमुपदधाति यावत्पदमिति । तत्पाठस्तु—
ॐ चित्ति॑ः स्रुक् । चि॒त्तमाज्य॑म् । वाग्वेदि॑ः । आधी॑तं
ब॒र्हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाच॒स्पति॑र्होता॑ ।
मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा॑ध्व॒र्युः, इति ।
आदौ सिसृक्षुः प्रजापतिः सृष्ट्यर्थं केनचिद्यागेनाऽऽध्यात्मिकेनेष्टवान् । तद्यागवर्तिनः
स्रुगादय एतेषु मन्त्रेषु प्रतिपाद्यन्ते । अत्र चित्तिचित्तशब्दाभ्यां निर्विकल्पकसविक-
ल्पकभेदजनकावन्तःकरणवृत्तिभेदौ विवक्षितौ । वाक् प्रसिद्धा । आधीतमुच्चार्यमा-
णम् । केतविज्ञातशब्दाभ्यां निर्विकल्पकसविकल्पकज्ञानविषयावभिधीयेते । वाक्पति-
शब्देन वाचः प्रवर्तकः कण्ठतालवादिस्थानेषु संयुज्यमानो वायुरुच्यते । मनःप्राणौ
प्रसिद्धौ । सामशब्देनाध्येतृवर्णोच्चारणशक्तिरुच्यते । एवं चित्त्यादयो दश शरीरगताः
पदार्थविशेषाः स्रुगादयो दश पदार्था होमनिष्पादकाः । अग्निशब्दद्वयेन चाऽऽहवनी-
यगार्हपत्यौ विवक्षितौ । उपवक्तृशब्देनानुवचनकर्तुर्होतुः पुरा प्रैषवक्ता मैत्रावरुणो
विवक्षितः । यद्वा प्रोक्षणादिष्वनुज्ञायां पृष्टायां ब्रह्मा समीपे स्थितं ॐ प्रोक्षेत्यादिना
तदनुज्ञां वक्ति तस्मादयमुपवक्ता । चित्त्यादयः शरीरगतपदार्थाः स्रुगादिरूपा इति
वाक्यार्थः । अस्मिन्मन्त्रे स्रुगादीनां होमसाधनानां दशानामभिहितत्वादयं मन्त्रो
दशहोतेत्युच्यते । सोऽयं मन्त्रस्य पूर्वभागः । तस्य चावयवाः पृथगिष्टकामन्त्राः
तत्र चित्तिः स्रुक्तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेत्येवमुपधानप्रकारो द्रष्टव्यः । ए-
ते दशेष्टका उपधेयाः ।
मन्त्रस्य योऽयमुत्तरो भागो ग्रहरूपस्तेन ग्रहेष्टकामुपदध्यात् । तथा च ब्राह्मणमाम्ना-
तम्—यथावकाशं ग्रहानिति । तं च ग्रहभागमाह—
वाच॑स्पते वि॒धे नाम॑न् । वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वाच॒स्पतिः॒ सोमं॑ पिबतु ।
आऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा॑ ( १ ), इति ।
१ ख. तु मन्त्रां । २ क. ॰वाकम॰ । ३ ग. ॰न विधानेनाऽऽ° । ४ ख. ग. ॰
तद्धेतुः स्वरोच्चा॰ । ५ क. ख. ॰येनाऽऽह॰ । ६ ख. ग. ॰र्तुर्जातुः । ७ क. स्थित्वों प्रो॰ । ८
ग. एता । ९ ग. ॰दधाति । त॰ । १० ख. ॰ह्माणे समा॰ । ११ ख. ॰हमा॰ ।