तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 173, कुल 914 में से
संदर्भ में पढ़ें१७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०३अनु०३]
नाय॒ वार्य॑म् । आ सु॒वस्कर॑स्मै । वा॒चस्पतिः॒ सोमं॑
पिब॑ति । ज॒जन॒दिन्द्र॑मि॒न्द्रिया॑य॒ स्वाहा॑ ( १ ), इति ।
पृथि॒वी होता॒ दर्श॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
हे वाचस्पतेऽत्यन्तसंपादितेन मन्त्रात्मिकाया वाचः सामर्थ्येन त्वमा समन्ता-
द्यक्ष्यसे । अस्मै यजमानाय वार्यं वरणीयं सुवः स्वर्गमॉकरा समन्तात्कुरु । अयं
वाचस्पतिरस्मदीयेषु यागेषु सोमं पिबति । इन्द्रं देवमिन्द्रियसम्पद्ध्यर्थं जजनज्जनयतु
प्रेरयत्वित्यर्थः । तदेतदुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीये तृतीयोऽनुवाकः ।
अथ पञ्चहोतृमन्त्र उच्यते । तद्विनियोगो ब्राह्मण एवमाम्नातः—पश्चादुदञ्चं पञ्च-
होतारमिति । तत्पाठस्तु—
अ॒ग्निर्होता॑ । अ॒श्विना॑ऽध्व॒र्यू । त्वष्टा॑ऽ-
ग्नीत् । मि॒त्र उप॑वक्ता, इति ।
अग्न्यादयः प्रसिद्धाः । अध्वर्युः प्रतिप्रस्थाता चेत्येवमध्वर्युद्वित्वेन होतृपञ्चकं
पूरणीयम् ।
अथ ग्रहभागमाह—
सोमः॒ सोम॑स्य पुरो॒गाः । शुक्रः॒ शुक्र॑स्य पुरो॒गाः । श्रा॒तास्त॑
इन्द्र॒ सोमाः॑ । वाता॑पेह्वन॒श्रुतः॒ स्वाहा॑ ( १ ), इति ॥
अ॒ग्निर्होता॒ऽष्टौ॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
१ ग. ॰माकः स॑ । २ क. ॰मन्त्रा उच्यन्ते । तं॑ ।