तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 175, कुल 914 में से
संदर्भ में पढ़ें१७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०३अनु०५]
दि॒वि दे॒वावृध॑ꣳ होत्रा॒मेर॑यस्व॒ स्वाहा॑ ( १ ), इति ॥
सूर्ये॑ ते॒ नव॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
हे वाचस्पतेऽच्छिद्रया वाचा स्वराक्षरसंपूर्णेन मन्त्रेण, अच्छिद्रया जुह्वा घृतसं-
पूर्णया स्रुचा, देवावृधं देवानां वर्धयित्रीं होत्रां होमक्रियां दिवि द्युलोक एरयस्व
सर्वतः प्रेरय । एतमर्थमुद्दिश्य जुहुधीति स्वकीयां वागाह ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ तृतीये पञ्चमोऽनुवाकः।
अथ सप्तहोतृमन्त्र उच्यते । तस्य च विनियोगश्चातुर्होत्रब्राह्मण एवमाम्नातः-
“उपरिष्टात्प्राञ्चꣳ सप्तहोतारम्” इति । तत्पाठस्तु-
म॒हाह॑वि॒र्होता॑ । स॒त्यह॑वि॒रध्व॒र्युः । अच्यु॑तपाजा
अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अना॑धृष्यश्चाप्र॑-
तिधृष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अया॑स्य उद्गा॒ता, इति।
महाहविः सत्यहविरित्याद्या अगस्त्यान्ताः सप्तसंख्याका महर्षयः । तन्महर्षित्व-
रूपा अत्रत्या होत्रादयः । यज्ञस्य सोमयागस्य । अभिगरौ, अभित उद्गातुः पुरस्ता-
त्पश्चाच्च गृहीतप्रस्तारप्रतिहारभागौ गायेते इति प्रस्तोतृप्रतिहर्तारावभिगरौ । होताऽध्व-
र्युराग्नीध्रो ब्रह्मा प्रस्तोता प्रतिहर्तोद्गातेति सप्तसंख्याका होमनिष्पादका अत्रोक्त
इत्ययं मन्त्रः सप्तहोतेत्युच्यते ।
अथ ग्रहभागमाह--
वाच॑स्पते हृद्वि॒धे नाम॑न् । विधे॑म ते॒ नाम॑ । विधे॑स्त्वम॒स्माकं॒
नाम॑ । वाच॑स्पतिः॒ सोम॑मपात् । मा दैव्य॒स्तन्तु॑श्छेदि॒ मा
म॑नु॒ष्य॑ः । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा॑ ( १ ), इति ।
१ क. एवमं । २ क. ῾मन्त्रा उच्यन्ते । त° ।