स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
[Header] श्राद्धकाण्डे अग्नौकरणविधिः. 325
इति, यच्च पारस्करेण-
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति, । अत्र सर्वत्र दैविकधर्मकपितृयज्ञवादित्यर्थो ग्राह्यः 'दै-
विकधर्मकपितृयज्ञवत्' इति बहुभिस्सूत्रकारैरुक्तत्वात् । न च
बहुभिरुक्तत्वमप्रयोजकमिति वाच्यं 'भूयसां स्यात्सधर्मत्वम्'
इति जैमिनिना प्रयोजकत्वस्याभिधानात् । ननु भूयसामपि
मतं 'निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते' इति
न्यायविरुद्धत्वादप्रयोजकम् । मैवं-ते खल्वापस्तम्बादयोप्येवं
मन्यन्ते यथा दर्शयोगेनैकदेवतासम्बन्धित्वेन निरुप्तेषु शूर्प-
रूपैकस्थानगतेषु प्रोक्षितव्येषु 'अग्नये वो जुष्टं प्रोक्षामि'
इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न
सर्वेषु वर्तते । यथाच तेष्वेव व्रीहिषु 'इन्द्राग्निभ्यां वो
जुष्टं प्रोक्षामि' इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषु-
चित्पर्यवस्यति न सर्वेषु वर्तते । तथा स्थालीरूपैकस्थान-
गतेषु व्रीहिषु 'पितृभ्यो वो जुष्टं निर्वपामि' इति निर्वा-
पमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न सर्वेषु
व्रीहिषु वर्तते इति न स्थालस्थं सर्वं पितृभ्यो निरुप्तं किन्तु
तदर्धम्, तेन पितृभ्यो. निरुप्तं पितृमदन्तसोमादिभ्यो हूयते
अतो न भूयसां मतं न्यायविरुद्धमिति सर्वमनवद्यम् । तू-
ष्णीमेव सर्वनिर्वापपक्षे तु न्यायाविरोधस्सुतराम् । सोपि
पक्ष आपस्तम्बेनोक्तः -'मृण्मये निर्वपति पितृभ्यो वो जुष्टं
निर्वपामीति तूष्णीं वा' इति । भेदेन निर्वापपक्षे दूरोत्सा-
रितो न्यायविरोधः । अयं तु पक्षो वत्सेनोक्तः*— 'पवि-
त्रान्तर्हिते चरुं निर्वपति त्रिर्यज्ञोपवीती दक्षिणेन हस्तेन त्रिः
प्राचीनावीती सव्येन हस्तेन यज्ञोपवीती मेक्षणेन जुहुयात्सोमाय
पितृमते स्वधा नमो यमायाङ्गिरस्वते पितृमते स्वधा नमोऽग्नये
कव्यवाहनाय स्वधा नमः' इति । तस्मात्स्मृतिषु पितृयज्ञ-
शब्देन दैविकधर्मपितृयज्ञाभिधानं युक्तम् । यत्तु मनुनोक्तं—
अपसव्यमग्नौ कृत्वा सर्वमावृतपरिक्रमम् ।
इति । तदाश्वलायनशाखीयविषयम्—
स्वाहा स्वधा नमः सव्यमपसव्यं तथैव च ।
आहुतीनां तु या सङ्ख्या साऽवगम्या स्वसूत्रतः ॥
इति कात्यायनस्मरणात् । एवं च याऽऽपस्तम्बेनोक्ताऽऽहुतीनां
त्रयोदशसङ्ख्या साऽऽपस्तम्बसूत्रिणामित्यवगन्तव्यम् । आप-
स्तम्बेन धर्मशास्त्रसूत्रे— 'उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते ।
काममुद्ध्रियतां काममग्नौ च क्रियतामित्यतिसृष्टमुद्धरेज्जुहुयाच्च '
इत्यग्नौकरणविधानादाहुतिसङ्ख्या यद्यपि वक्तव्या । तथाऽपि
स्वकृतगृह्यसूत्रे अनूदितमन्त्रविधानमुखेनार्थादाहुतीनां त्रयोदश-
सङ्ख्या दर्शितेति तत्र सङ्ख्या नोक्तेति मन्तव्यम् । अति-
सृष्टोऽभ्यनुज्ञातः । एवंचोद्धरणप्रश्नादिकं कृत्वाऽन्नमुद्धृत्याग्नेरुप-
समाधानाद्याज्यभागान्तं कुर्यात् , आपस्तम्बीयगृह्योक्तक्रमेण
- चरकाध्वर्युसूत्रकृत् वत्स इति हेमाद्रिः,
वक्ष्यमाणतत्तत्प्रधानहोमसाधारणतया प्राच्याङ्गकलापस्य वि-
हितत्वात् । आज्यभागान्ते—' यन्मे माता' इत्यादिमन्त्रैर्जुहु-
यात् । तथा चापस्तम्बीयगृह्यसूत्रं—' अन्नस्योत्तराभिर्जुहोत्याज्या-
हुतीरुत्तराः' इति । उद्धृतस्यान्नस्य किञ्चित्काञ्चिदवदानध-
र्मेणावदाय दर्व्यां निधाय 'यन्मे माता प्रलुलोभ चरति, यास्ति-
ष्ठन्ति' इति द्वाभ्यां ऋग्भ्यां अमुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा
इत्यत्र चतुर्थ्यन्ततया पितुर्नाम गृहीत्वा द्वे आहुती जुहोति ।
एवमेव 'यन्मे पितामही प्रलुलोभ चरति, अन्तर्दधे पर्वतैः' इति
द्वाभ्यामृग्भ्याममुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा इत्यत्र चतुर्थ्यन्ततया
पितामहस्य नाम गृहीत्वा द्वे आहुती जुहोति । एवमेव 'यन्मे
प्रपितामही प्रलुलोभ चरति, अन्तर्दधे ऋतुभिः' इति द्वाभ्यां
अमुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा इत्यत्र चतुर्थ्यन्ततया प्रपिता-
महस्य नाम गृहीत्वा द्वे आहुती जुहोति । 'यन्मे मातामही
प्रलुलोभ चरति, यास्तिष्ठन्ति' इति द्वाभ्यां मातामहाय द्वे
आहुती जुहोति । 'यन्मेमातुः पितामही प्रलुलोभ चरति, अन्तर्दधे
पर्वतैः' इति द्वाभ्यां मातुःपितामहाय द्वे आहुती जुहोति । 'यन्मे
मातुःप्रपितामही प्रलुलोभ चरति, अन्तर्दधे ऋतुभिः' इति
द्वाभ्यां मातुः प्रपितामहाय द्वे आहुती जुहोतिं । अत्र प्रथ-
ममन्त्रे यन्मे मातामही प्रलुलोभ चरति............तन्मे
रेतो मातामहो वृङ्क्तामित्यूहः कार्यः । द्वितीये मन्त्रे अन्तरन्यं
मातामहाद्दध इत्यूहः । मन्त्रद्वयेऽप्यमुष्मा इत्यत्र मातामहस्य
328 स्मृतिचन्द्रिकायां
चतुर्थ्यन्ततया नामग्रहणं कार्यम् । तृतीये मन्त्रे यन्मे मातुः
पितामही प्रलुलोभ चरति ........तन्मे मातुः पितामहो वृङ्क्तामि-
त्यूहः । चतुर्थे मन्त्रे मातुः पितामहाध्व इत्यूहः । मन्त्रद्वयेऽ-
प्यमुष्मा इत्यत्र मातुः पितामहनामग्रहणं कार्यम् । पञ्चमे मन्त्रे
यन्मे मातुः प्रपितामही प्रलुलोभ चरति........तन्मे मातुः प्रपिता-
महो वृङ्क्तामित्यूहः । षष्ठे मन्त्रे अन्तरन्यंमातुः प्रपितामहाध्व
इत्यूहः । मन्त्रद्वयेऽप्यमुष्मा इत्यत्र मातुः प्रपितामहनामग्रहणं
कार्यम् ,
योज्याः पित्रादिशब्दानां स्थाने मातामहादिकाः ।
अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ॥
यन्मे मातामहीत्यादि तत्रोदाहरणं भवेत् ।
इति गृह्यभाष्यार्थसङ्ग्रहकारेणोक्तत्वात् । स्पर्शे ‘ एष ते तत
मधुमानूर्मिस्सरस्वान्’ इत्यादिमन्त्रत्रयेण ब्राह्मणभोजनार्थान्न-
स्पर्शे । ततः पूर्ववदवदाय ‘ये चेह पितरः’ इत्यृचा एकामा-
हुतिं जुहोति एवमन्नाहुतीर्हुत्वा षडाज्याहुतीर्जुहोति — तत्र
‘स्वाहा पित्रे’ इति पुरस्तात्स्वाहाहुतिं जुहोति । उपरिष्टात्स्वा-
हाकारेण द्वितीयाम् । एताभ्यामेव मन्त्राभ्यां तृतीयां चतु
र्थीमाहुतिं हुत्वा स्वधा स्वाहेति पञ्चमीं जुहोत्यग्नये कव्यवा-
हनाय स्वाहेति . षष्ठीं ततस्स्विष्टकृतं हुत्वा भक्ष्यभोज्यंसर्व-
विधाहविष्यान्नात्किंचिदादायोदीचीनं भस्मापोह्य तस्मिन्नुष्णे
भस्मनि तूष्णीं जुहोति । ततो लेपयोः प्रस्तरवत्तूष्णीं बर्हि-
श्राद्धकाण्डे अग्नौकरणविधिः. 329
रक्ताऽग्नौ प्रहरतीत्यादि परिषेचनान्तं पाश्चात्याङ्गकलापमाग्नेय-
स्थालीपाकोक्तं कृत्वा हुतशेषं ब्राह्मणभोजनपात्रेषु निदध्यात् ।
एतत्सर्वं तद्भाष्यार्थसङ्ग्रहकारेणोक्तं—
अग्नीन्धनादि प्रतिपद्य कर्म कृत्वाऽऽज्यभागान्तमथावदाय ।
यन्मेति मन्त्रैः प्रतिमन्त्रमग्नौ कुर्युस्तथा सप्तभिरन्नहोमान् ॥
स्वाहादिमन्त्रैरपि सर्पिषा स्युर्होमास्ततास्स्विष्टकृतं च हुत्वा ।
भस्माप्यपोह्याहविरन्नहोमो लेपेषु दर्व्योश्च समञ्जनादि ॥
शेषं च कृत्वा परिषेचनान्तं पात्रेषु दद्याद्धुतशेषमन्नम् ॥
इति । सप्तभिरन्नहोमा इत्यनूहितमन्त्राभिप्रायोक्तं, ऊहितमन्त्र-
साहित्ये त्रयोदशसङ्ख्यासम्पत्तेस्सप्तभिरित्ययोगात् । एवमेत
दग्नौकरणं प्राचीनावीतिना कार्यं, पैतृकत्वात् । तथाचा-
पस्तम्बेन स्वकृतगृह्यशास्त्रादावुक्तं—' अपरपक्षे पित्र्याणि प्राची-
नावीतिना प्रसव्यं दक्षिणतोपवर्गः ' इति । तत्रापि यदपैतृक-
माघारसमिन्धनादिकं तत् यज्ञोपवीतिना कार्यं, अत एव
भाष्यार्थसङ्ग्रहकारेणोक्तं—
आघारदार्वग्निमुखाज्यभागप्रदक्षिणानुव्रजनेषु तद्वत् ।
आघारयोस्स्विष्टकृति प्रदिष्टं यज्ञोपवीतं हि कपर्दिनास्यात्॥
इति स्मृतिचन्द्रिकाया अग्नौकरणविधिः.
SMRITI CHA.—VOL. V. 42
अथोभयविधाग्नौकरणार्थाग्निर्निर्णयः.
तत्र याज्ञवल्क्यः—
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु ॥
स्मार्तं कर्म औपासनहोमवैश्वदेवकरणाग्नौकरणादिकम् । विवा-
हाग्नौ विवाहकालोत्पन्नौपासनाग्नौ । दायकालाहृते दायकाले
वैश्यादिकुलादाहृत्योत्पादिते औपासनाग्नौ कुर्वीतेत्यर्थः । स-
र्वाधाने औपासनासम्भवे त्वापस्तम्बोक्ताग्नौकरणहोमस्य लोपः,
न तु वैतानिकाग्नावनुष्ठानं, 'श्रौतं वैतानिकाग्निषु' इत्यभि-
धानात् । न तु लौकिके, देवतादेरिवाग्नेरपि प्रतिनिध्यभा-
वात् । अत एव सर्वाधानेनौपासनासम्भवे धूर्तस्वामिनोक्तं—
'श्राद्धमूर्ध्वं होमात्कर्तव्यं ब्राह्मणस्त्वाहवनीयार्थे इति तस्यापि
प्रधान
331
दक्षिणाग्निप्राप्तिरिति सर्वाधाने धूर्तस्वाम्युक्ताग्नौकरणाभाव एव
युक्तः। पूर्वोक्ताभिप्रायेण वायुपुराणेऽप्युक्तं—
आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः।
अग्न्यर्थं लौकिकं वाऽपि जुहुयात्कर्मसिद्धये ॥
इति। अस्यार्थः—अग्नौकरणहोमार्थं गृह्याग्न्यभावे दक्षिणाग्निं
लौकिकं वाऽप्याहृत्य स्वीकृत्य होमकर्मसिद्धये जुहुयादिति।
अग्न्यर्थमित्यनेन गृह्याग्निभावे तु नाग्न्यन्तरस्वीकार इत्यर्थादुक्तम्।
तत्र दक्षिणाग्निपक्षस्य प्रवासादिना असम्भवे लौकिकाग्नि-
पक्षः, तस्योपदेशातिदेशरूपप्रमाणद्वयावगतस्य दक्षिणाग्नि-
बाधकत्वेनागत्याऽऽश्रयणीयत्वात्। अत एव प्रयत्नतो दक्षिणा-
ग्निमाहृत्येत्युक्तम्। यत्तु स्मृत्यन्तरं—
साग्निरग्नावनाग्निस्तु द्विजपाणावथाप्सु वा।
कुर्यादग्नौ क्रियां नित्यं लौकिके नेति निश्चितम् ॥
इति। तस्यायमर्थः—अग्निमान्पुरुषः औपासनाग्नौ दक्षिणाग्नौ
वा पूर्वोक्तव्यवस्थयाऽग्नौकरणं कुर्यात्। दायात्प्रागस्वीकृतौ-
पासनतया छिन्नाग्नितया वा भार्याविधुरतया वा योऽग्निरहितः
स द्विजपाणावप्सु वाऽग्नौकरणं कुर्यात्, न जातु लौकिकाग्नौ
कुर्यादिति। ततश्च न वायुपुराणवचनविरोधः। श्रौताग्निना
साग्निकस्याप्यनग्निकवत्क्वचिद्विषये द्विजपाणावग्नौकरणं कार्यम्।
तथाच स्मृत्यन्तरं—
हस्तेऽग्नौकरणं कुर्यादग्नौ वा साग्निको द्विजः।
332 स्मृतिचन्द्रिकायां
इति । अत्राग्निशब्देन न गृह्याग्निरुच्यते । तस्मिन् विद्यमाने
हस्तपक्षानवकाशात् । तेन श्रौताग्निरुच्यते लौकिको वा ।
साग्निकशब्देन सर्वाधान्येवोच्यते । ततश्चायमर्थः—सर्वाधानेनौ
पासनाग्न्यभावे पितृयज्ञधर्मकाग्नौकरणं दक्षिणाग्नौ, तदसं
निधाने लौकिकाग्नौ द्विजपाणौ वा कुर्यादिति । अत्रापि
प्रवासादिना दक्षिणाग्न्यभावे लौकिकाग्निहस्तपक्षौ पूर्वोक्त-
न्यायवदवगन्तव्यौ । लौकिकाग्नेस्तादृशविशेषानवगमात्पाणिना
सह समाविकल्प एव । यद्यपि न्यायतोऽग्नेः प्रतिनिध्यभावः;
तथाऽपि न प्रतिनिधिन्यायेनात्र दक्षिणाग्न्यादेरुपादानम् ।
किंतु गृह्याग्न्यभावेन तत्साध्यकर्मणोऽननुष्ठाने प्राप्ते वचनेना-
गृह्याग्न्यादावपि गृह्याग्निसাধ্যं कर्म विधीयत इति न कश्चिद्दोषः ।
एवंचानाहिताग्नेरौपासनवदाहिताग्नेरप्यर्धाधानिनः उभयविधा-
ग्नौकरणहोमः औपासन एव । सर्वाधानेनौपासनरहितस्याहिता-
ग्नेरापस्तम्बोक्ताग्नौकरणाभाव एव । पिण्डपितृयज्ञधर्मकाग्नौ
करणस्य तु दक्षिणाग्नौ, तदसंनिधौ लौकिकाग्नौ द्विजपाणौ
वाऽनुष्ठानम् । अनाग्निकस्य द्विजपाणावप्सु वा उभयविधमग्नौ-
करणमिति सिद्धम् । अनाहिताग्नेरौपासनवदाहिताग्नेरर्धाधाने-
नौपासनवतः प्रवासादिना कथंचिदौपासनासंनिधाने द्वि-
जपाणावप्सु वाऽग्नौकरणं कर्तव्यम् । तथाच विष्णुधर्मोत्तरे
मार्कण्डेयः—
अनाहिताग्निश्चौपसदेऽग्न्यभावे द्विजेऽप्सु वा ।
इति । औपसदो गृह्याग्निः । अनाहिताग्निश्चेति चशब्द आ-
हिताग्नेस्समुच्चयार्थः । ततश्चायमर्थः— अनाहिताग्निराहिताग्नि-
श्चार्धाधानेनौपासनवान् गृह्याग्निसंनिधौ तत्रैवाग्नौकरणं कुर्यात् ।
अग्न्यभावे गृह्याग्नेरसन्निधानेऽप्सु द्विजपाणौ वाऽग्नौकरणं कु-
र्यादिति। अत्राप्स्विति पक्षस्य विषयविशेषः कात्यायनेन दर्शितः—
अग्नौकरणहोमं तु कुर्यादप्स्विति यन्मतम् ।
स यदाऽपां समीपे स्यात् श्राद्धं ज्ञेयो विधिस्तदा ॥
एवंचापां समीपादन्यत्र यदा श्राद्धं तदैव द्विजपाणाविति
पक्षो ग्राह्यः । अयं च विषयविभागः ‘अनग्निस्तु द्विजपा-
णावथाप्सु वा’ इत्यत्रापि द्रष्टव्यः, विष्णुधर्मोत्तरे मार्कण्डेय
इत्युक्तस्मृत्यन्तरविवक्षायां कारणाभावात् । यत्तु मनुनोक्तं—
अग्न्यभावे तु विप्रस्य पाणावेवोपसादयेत् ।
इति, तत् भार्यापरिग्रहात् पूर्वमनुष्ठेयनित्यनैमित्तिकश्राद्धविष-
यम् । अयमेव विषयो जातूकर्णेन स्पष्टीकृतः—
अग्न्यभावे तु विप्रस्य पाणौ दद्यात्तु दक्षिणे ।
अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न विन्दति ॥
इति । दक्षिणे पाणौ दद्यात् उभयविधाग्नौकरणाहुत्यर्थमन्नमिति
शेषः । यत्तु गृह्यपरिशिष्टकारेणोक्तं—
अन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् ।
काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥
334 स्मृतिचन्द्रिकायां
चतुर्ष्वाद्येषु साग्नीनामग्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपि ॥
इति, ‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः’ इति
विहितान्यष्टकाश्राद्धानि । तत्र अष्टकाश्राद्धदिनादुत्तरदिने नव-
म्यां क्रियमाणं श्राद्धमन्वष्टक्यं, पूर्वेऽह्नि सप्तम्यां क्रियमाणं
श्राद्धं पूर्वेद्युरिति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाण-
मापरपक्षिकं श्राद्धं मासिमासीत्यनेनोक्तम् । पार्वणं सर्वश्राद्ध-
प्रकृतिभूतं दर्शश्राद्धम् । काम्यं पुत्रादिकामनया क्रियमाणं
श्राद्धम् । आभ्युदयिकं श्राद्धमभ्युदयपदेनोक्तम् । अष्टकाख्यं
श्राद्धं अष्टम्यामिति पदेनोक्तम् । एकोद्दिष्टमिति पदेन सपि-
ण्डीकरणं लक्षणयोक्तं, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भा-
वात् । एषां मध्ये आद्येषु चतुर्षु साग्निकानामग्नावेवाग्नौकर-
णहोमः । उत्तरेषु तु साग्नीनां पित्र्यब्राह्मणहस्त एवेति
तस्यार्थः । तदेतत् येषां गृह्यपरिशिष्टं तेषामेव व्यवस्थापकं
न सर्वेषाम् । अतो न पूर्वोक्तव्यवस्थाविरोध इति सर्वमन-
वद्यम् । यदा तु पाणिहोमपक्षः तदैकस्यैव विप्रस्य पाणौ
होमो न सर्वविप्राणामित्याह कात्यायनः-
पित्र्ये यः पङ्क्तिमूर्धन्यः तस्य पाणावनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥
इति । पित्र्यप्रथमब्राह्मणपाणौ होमोऽयं न नित्यः,
दैवविप्रकरेऽनाग्निः कृत्वाऽग्नौकरणं द्विजः ।
श्राद्धकाण्डे अग्नौकरणामिनिर्णयः. 335
इति यमेन वैश्वदैविकब्राह्मणपाणावग्नौकरणहोमविधानात् ।
एवञ्च व्रीहियववत्पित्र्यवैश्वदैविकब्राह्मणपाण्योर्विकल्पो वेदित-
व्यः । दैवविप्रकरहोमपक्षेऽपि हुतशेषं पित्र्यब्राह्मणभोजनपात्रे-
ष्वेव निक्षिपेत् । तथाच वायुपुराणं —
हुत्वा दैवकरेऽनग्निः शेषं पित्र्ये निवेदयेत् ।
न हि स्मृताश्शेषभाजो विश्वेदेवाः पुराणगैः ॥
दैवविप्रकरादन्यत्र पितृविप्रपाणौ होमेऽपि हुतशेषभाजो
विश्वेदेवा न भवन्तीति ज्ञापयितुं न हि स्मृताश्शेषभाजो
विश्वेदेवा इति सामान्येनोक्तम् । यत एव सामान्येन शेष-
भाजो विश्वेदेवा न भवन्तीति अत एव विशेषेण पुराणा-
न्तरे शेषदानं प्रतिषिध्यते—
अग्नौकरणशेषं तु न दद्याद्वैश्वदैविके ।
इति । अग्नौकरणहोमं वैश्वदैविकब्राह्मणपाणौ कुर्वन्नप्येक-
ब्राह्मणपाणावेव कुर्यात्, गुणानुरोधेन प्रधानानावृत्तेर्न्याय्यत्वे-
नैकविप्रपाणावेवानुष्ठेयत्वात् । तदेतदुक्तं वायुपुराणे—
वैश्वदैवे यदैकस्मिन् भवेयुः द्वयादयो द्विजाः ।
तदैकपाणौ होतव्यं स्याद्विधिर्विहितस्तथा ॥
यदैकस्मिन् वैश्वदैविकब्राह्मणभोजनकर्मणि द्वौ चत्वारः षडि-
त्येवं युग्मसङ्ख्यया द्वयादयो विप्रा दैविकत्वेन भवेयुः तदै-
कस्य प्रथमोपविष्टस्य विप्रस्य पाणौ होतव्यं तत्राहुतिविधि-
र्विहितस्स्यादनुष्ठितो भवेदित्यर्थः। एवं ब्राह्मणपाणावग्नौकरणहोमं
दायभाग (सम्पत्ति-बँटवारा, स्त्रीधन) एवं स्मृतिचन्द्रिका उपसंहार
336 स्मृतिचन्द्रिकायां
करिष्ये करवै करवाणीति वा ब्राह्मणानुज्ञापनं, तथाऽस्त्विति
ब्राह्मणैः प्रतिवचनं भवेदित्याह शौनकः—'अनग्निकश्चेदाद्यं
गृहीत्वा भवत्स्वेवाग्नौकरणमिति पूर्ववत्तथाऽस्तु' इति। अनग्नि-
कश्चेत् ब्राह्मणपाणावग्नौकरणहोमं कुर्याच्चेत्। आद्यं घृताक्तमन्नम्।
पूर्ववत् ब्राह्मणानुज्ञापनमिति शेषः। तथाऽस्त्विति ब्राह्मणानां
प्रतिवचनमिति शेषः। यत्तु स्मृत्यर्थसारेऽभिहितं—'पाणिहोमे
त्विध्ममेक्षणविप्रानुज्ञा न सन्ति' इति, तत्र विप्रानुज्ञाभावो-
क्तिरेतद्वचनादर्शननिबन्धनेत्युपेक्षणीया। मेक्षणाभावोक्तिरपि
चिन्त्या, मेक्षणकार्यस्य विध्यदर्शनात्। यच्च तत्रैवाभिहितं
'परिसमूहनपर्युक्षणे स्तः' इति, तदपि चिन्त्यं, तयोर्दृष्ट-
कार्यस्य धूल्यपगमादेरत्राभावात्। नियमादृष्टमात्रस्याप्रयोजक-
त्वात्। यस्य त्वदृष्टसंस्कारः कार्यं परिस्तरणस्य तदत्रास्ति।
तथाच यमः—
अग्नौकरणवत्तत्र होमो दैवकरे भवेत्।
पर्यस्तदर्भानास्तीर्य यतो ह्यग्निसमो हि सः॥
इति। दैवकरो वैश्वदैविकब्राह्मणपाणिः। पर्यस्तदर्भाः परितः
सर्वतो न्यसनीयदर्भाः परिस्तरणदर्भा इति यावत्। दैव-
करग्रहणं पित्र्यब्राह्मणकरस्याप्युपलक्षणार्थम्। ब्राह्मणपाणौ
हुतं तदानीय तदानीमेव ब्राह्मणेन न भोक्तव्यं, अपितु
भोजनकाले। तथाच बह्वृचगृह्यपरिशिष्टं—
श्राद्धकाण्डे परिवेषणविधिः. 337
अन्नं पाणितले दत्तं पूर्वमश्नन्त्यबुद्धयः ।
पितरस्तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥
यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥
शेषान्नं विप्रभोजनार्थं सम्पादितमन्नम् । पित्र्यब्राह्मणपाणित-
लादन्यत्र पितृयज्ञवदग्नौकरणम् । पैतृकश्राद्धे मातामहश्राद्धे
च वैश्वदैविकं तन्त्रं, द्रव्यदेवतावदधिकरणकारकैक्यस्यापि
सम्प्रतिपन्नत्वात् । पित्र्यब्राह्मणपाणितले क्रियमाणं तु मातामह-
ब्राह्मणपाणितलेऽप्यावृत्त्या कार्यं, अधिकरणकारकैक्यस्यासम्प-
तिपन्नत्वात् । अत एव कात्यायनः—
मातामहस्य भेदेऽपि कुर्यात्तन्त्रे च साग्निकः ॥
इति । अयमर्थः—मातामहस्य ब्राह्मणपाणौ पृथगग्नौकरणं
कुर्यात् । एतच्च वैश्वदैविकभेदपक्षे तन्त्रपक्षे च समानमिति ।
यस्मिन् विषये साग्निकस्य पाणौ अग्नौकरणमुक्तं तस्मिन्विषये
इदं वचनं द्रष्टव्यम् ।
इति स्मृतिचन्द्रिकायामुभयविधाग्नौकरणार्थाग्निनिर्णयः.
अथ परिवेषणविधिः.
तत्रादावमत्राणि सति सम्भवे श्रेष्ठानि सम्पाद्यानि ।
दैवे सौवर्णानि श्रेष्ठानि । पित्र्ये राजतानि । तथाच श्रेष्ठा-
नीत्यनुवृत्तावत्रिः—
SMRITI CHA.—VOL. V. 43
338 स्मृतिचन्द्रिकायां
भोजने हेमरूप्याणि दैवे पित्र्ये यथाक्रमम् ।
इति । एतेषामलाभे विष्णुः—'तैजसानि पात्राणि दद्यात्'
इति । तैजसानि कांस्यताम्रादीनि । तेषामलाभे पालाशपर्ण-
निर्मितानि—
पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ।
इत्यत्रिणाऽभिधानात् । पर्णपात्रपक्षेऽपि घृतादिद्रव्यधारणार्थं तै-
जसानि सति सम्भवे सम्पाद्यानि । 'घृतादिदाने तैजसानि
पात्राणि' इति विष्णुस्मरणात् । तेषामभावे पालाशपर्णनि-
र्मितपत्रपुटानि घृतादिधारणार्थानि भवन्ति न कदाचिन्मृन्मय
पात्राणि,
न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।
इत्यत्रिस्मरणात् । यथासम्भवलब्धानां चैतेषां पात्राणां द्विः
प्रक्षाळनं कार्यं, तत्रादावपो निनीय हस्तेन निर्मृज्य प्रक्षाळनं,
अनन्तरं जलेनैव । तथाच ब्रह्माण्डपुराणम्—
प्रक्षाळ्य हस्तपात्रादि पश्चादद्भिर्विधानवत् ।
प्रक्षाळनं जलं दर्भैः तिलैर्मिश्रं क्षिपेच्छुचौ ॥
हस्तपात्रादीति मध्यमपदलोपी समासः । हस्तनिर्मृष्टं पात्रादि
प्रक्षाळयेदर्थः । पात्रशब्देन तलमुक्तं, आदिशब्देन घृतादे-
र्धारणार्थानि गृह्यन्ते । पात्रप्रक्षाळनानन्तरं याज्ञवल्क्यः—
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥
भाजनेषु 'पित्र्यब्राह्मणार्थभाजनेष्वित्यर्थः, रौप्येषु तु विशेषत
339
इति पित्र्यकर्मणि प्रशस्तरौप्यसमभिव्याहारात् । शौनकेन तु
स्पष्टमुक्तम्—
हुत्वाऽग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् ।
निवेद्यैवापसव्येन परिवेषणमाचरेत् ॥
अपसव्येनेति पूर्वेणैव सम्बध्यते, न पुनरुत्तरेण ।
अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेषतः । ,
अन्नदानादृते सर्वमेवं मातामहेष्वपि ॥
इति कार्ष्णाजिनिस्मरणात् । अन्नदानं अन्नप्रक्षेपः परिवेषण-
मिति यावत् । एवञ्च श्राद्धकर्त्रा परिवेषणं कार्यमित्यर्थादु-
क्तम् । उक्तं च साक्षान्मनुना—
पाणिभ्यामुपसंगृह्य स्वयमन्नस्य बन्धुकम् ।
विप्रान्तिके पितॄन् ध्यायन् शनैरुपरि निक्षिपेत् ॥
अन्नस्य बन्धुकं अन्नेन पूर्णं परिवेषणपात्रमिति यावत्। पाणिभ्या-
मुपसंगृह्य विप्रभोजनपात्रे शनैर्निक्षिपेत् । पितॄन् ध्यायन्निति
पित्र्यविप्रविषयं, दैवविप्रविषये अन्नमित्युक्तत्वात् ? । यत्तु
वायुपुराणेऽभिहितं—
परिवेषणं प्रशस्तं स्याद्भार्यया पितृतृप्तये ।
पितृदेवमनुष्याणां स्त्रीसाहाय्यं यतः स्मृतम् ॥
इति, तत्र प्रशस्तमित्यत्र परिचारककर्तृकपरिवेषणादिति शेषो
द्रष्टव्यः । स्वयंकर्तृकपरिवेषणापेक्षया प्राशस्त्यासम्भवात् । अत
एवानन्तरमुक्तं तत्रैव—
फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे ।
इति । एवञ्च स्वयं पत्नी अन्ये वा नियताः शूद्रव्यतिरिक्ताः
परिवेषणं कर्तुमर्हन्तीत्यवगन्तव्यम् । पत्रचप्यसवर्णा न परिवे-
षणार्हा । अत एव नारायणेनोक्तं—
यद्द्रव्यं यत्पवित्रं च यत्पित्यं यत्सुखावहम् ।
द्विजातिभ्यस्सवर्णाया नार्या हस्तेन दीयते ॥
इति । हस्तेन हस्तद्वयेनेत्यर्थः ।
उभाभ्यामपि हस्ताभ्यां आहृत्य परिवेषयेत् ।
इति मत्स्येनोक्तत्वात् । हस्तद्वयेनापि न साक्षाद्देयं, किन्तु
दर्व्यादिद्वारा ।
हस्तदत्तास्तु ये स्नेहलवणव्यञ्जनादयः ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥
इति वृद्धशातातपेन साक्षाद्धस्तदत्तस्य दोषहेतुत्वस्मरणात् ।
दर्व्यादिकं च सति सम्भवे सुवर्णादिमयं ग्राह्यं,
[L15
अपवित्रेण दुर्लेपसंसर्गादिना अपवित्रेण । आयसेन अयोमय-
दर्व्यादिना । आयसे अयोमयपात्रेऽपि नैव परिवेषयेत् ।
अनिषिद्धदर्व्याद्यसम्भवेऽपि तत्रैवोक्तं—
तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा ।
इति । यस्मादाहृत्य हस्तेन दानं निषिद्धं तस्मादनिषिद्धदर्व्या-
द्यसंभवे पर्णादिना प्रान्तरितं कृत्वा देयमित्यर्थः । भोक्तारं
द्विजं प्रत्याह वसिष्ठः—
उभयोर्हस्तयोर्मुक्तं पितृभ्योऽन्नं निवेदितम् ।
तदन्नं सम्प्रतीच्छन्ति असुरा दुष्टचेतसः ॥
तस्मादशून्यं हस्तेन कुर्यादन्नमुपस्थितम् ।
भाजनं तु समालभ्य तिष्ठेदोच्छेषणाद्द्विजः ॥
इति । परिवेषणोपक्रमप्रभृति भुक्तशिष्टस्य भाजनाद्बहिष्करण-
पर्यन्तं वामहस्तेन भाजनमपरित्यज्यैव वर्तेत । कण्डूयनार्थं
वामहस्तव्यापारसमये दक्षिणहस्तेन भाजनं समालभ्य वर्त्ते-
तेति तात्पर्यार्थः । परिवेषणारम्भप्रकारमाह शौनकः—
" पाकं सर्वमुपानीय संवेद्य च पृथक्पृथक् ।
विधिना दैवपूर्वं तु परिवेषणमाचरेत् ॥
इति । संवेद्य भोक्तॄणां संविदितं कृत्वेत्यर्थः ।
भक्ष्यभोज्यगुणानुक्त्वा भोजयेद्ब्राह्मणान् शनैः ।
इति बृहस्पतिस्मरणात् । पाकं सर्वमित्यस्यार्थो मनुना प्र-
पञ्चितः—
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥
उपानीय च तत्सर्वं शनकैस्सुसमाहितः ।
परिवेशयेत्तु प्रयतो गुणान् सर्वान् प्रचोदयन् ॥
प्रचोदयन् प्रख्यापयन्नित्यर्थः । देवपूर्वं परिवेशयेदिति विधे
रर्थवादः पुराणे दर्शितः—
तप्यमानास्तपस्तीव्रं प्रेषिता ब्रह्मशासनात् ।
विश्वेदेवास्तु रक्षार्थं पितृयज्ञेषु सर्वदा ॥
अतः पूर्वं प्रदातव्यं तेभ्योऽन्नं पितृकर्मणि ।
इति । प्रदातव्यं भाजनेषु प्रक्षेप्तव्यम् । देवपूर्वं परिवेषणमा-
चरेदिति वदन् परिवेषणार्थं प्रथममाज्येनोपस्तरणं दैवपूर्वं
कृत्वा अन्नं दत्वा एवमेव पायसादि सर्वं पृथक्पृथक् परि-
वेषणीयमिति दर्शयति । अन्यान्यपि परिवेषणीयान्य(ह मनुः—
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ।
विन्यसेत्प्रयतस्सम्यग्भूमावेव समाहितः ॥
गुणान् साक्षाद्भुजिक्रियानिर्वर्तकान् न तु ग्राहकतया गुणभूतान्
सूपशाकमध्वादीन् भूमौ निहितेषु स्वल्पभाजनेषु प्रक्षिपेत् न
प्रधानान्नार्थमहाभाजने निहितेष्वित्यर्थः । तथाच हारीतः—
‘ भूमावेव .निदध्यान्नोपर्युपरि पात्राणि ’ इति । अस्यार्थः—
यान्युपरिपात्राणि महाभाजनोपरि निधेयानि घृताद्याधारभूता-
नि स्वल्पपात्राणि तान्यत्र भूमावेव निदध्यात् न महाभाज-
श्राद्धकाण्डे परिवेषणविधिः। ३४३
नस्योपरीति । महाभाजनमप्यत्र पूर्वोक्तपिष्टकादिरचितपरित-
काख्यचतुरश्रमण्डलोपरि निधाय पायसापूपादि विविधमन्नं
प्रक्षिपेत् । न तु यन्त्रिकादेरुपरि निधायेति ‘भूतलान्नोद्धरे-
त्पात्रम्’ इत्यादिवचनसिद्धं बोद्धव्यम् । श्राद्धार्थं यद्यत्पा-
कादिनोपकल्पितं तत्सर्वं किञ्चित्किञ्चिदादायावश्यं परिवेषणी-
यम् । अत एव प्रचेतसोक्तं—
‘सर्वं च प्रकृतं दत्त्वा पात्रमालभ्य जपेत्’
इति । जप्यमाह पैठीनसिः— ‘पृथिवी ते पात्रं द्यौरपिधानं
ब्राह्मणस्य मुखे जुहोमि स्वधा’ इति । जपानन्तरं कात्या-
यनः— ‘वैष्णव्यर्चा यजुषा चाङ्गुष्ठमन्नेऽवग्राह्य’ इति । का
पुनरत्र वैष्णवी ऋक्, कस्य चाङ्गुष्ठमित्यपेक्षिते याज्ञवल्क्यः—
इदं विष्णुरिति त्वन्ने द्विजाङ्गुष्ठं निवेशयेत् ।
इति । यमस्तु सार्थवादमङ्गुष्ठनिवेशनविधिं वदन् अत्र वि-
नियुक्तयजुर्मन्त्रस्वरूपमाह—
अङ्गुष्ठमात्रो भगवान् विष्णुः पर्यटते महीम् ।
राक्षसानां वधार्थाय कोऽल्पवान् प्रहरिष्यति ॥
तस्माच्छ्राद्धेषु सर्वेषु अङ्गुष्ठग्रहणं स्मृतम् ।
विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति च क्रमात् ॥
ब्रूयात् दैवे पित्र्ये चान्न इति शेषः । अत्र दैवेऽन्ने अङ्गुष्ठनिये-
शनात् प्राग्विष्णो हव्यं रक्षेति यजुर्ब्रूयात् । पित्र्येऽन्ने तु
विष्णो कव्यं रक्षेति यजुर्ब्रूयादिति । अत्रैवं वृद्धाचारा-
नुसारी प्रयोगः— यज्ञोपवीती दक्षिणं जान्वाच्य उद-
ङ्मुखः प्रथमं देवतार्थपरिविष्टमन्नमभ्युक्षणेनावोक्ष्य पात्रमालभ्य
'पृथिवी ते पात्रम्' इति जपाद्यङ्गुष्ठनिवेशनान्तं कृत्वा प्रा-
चीनावीती सव्यं जान्वाच्य दक्षिणामुखः पित्र्यं परिविष्ट-
मन्नमभ्युक्षणेनावोक्ष्य पात्रमालम्ब्य जपाद्यङ्गुष्ठनिवेशनान्तं कु-
र्यात् । एवं मातामहादिपात्रस्थानेषु अभ्युक्षणावोक्षणाद्यङ्गुष्ठ-
निवेशनान्तं कार्यम् । अभ्युक्षणावोक्षणाद्यङ्गुष्ठनिवेशनान्तं दैवे
पित्र्ये च ब्राह्मणानेकत्वे प्रतिब्राह्मणपात्रं कार्यम्,
एकैकस्याथ विप्रस्य गृहीत्वाऽङ्गुष्ठमादरात् ।
इति ब्रह्माण्डपुराणेऽभिधानात् । सर्वभाजनस्थेष्वन्नेषु अङ्गुष्ठ-
निवेशनानन्तरं चतुर्विंशतिमतेऽभिहितं—
पात्रालम्भं द्विजः कुर्यादिदं वोऽन्नमिति ब्रुवन् ।
इति । अयमर्थः—परिविष्टान्नाधारभूतपात्रालम्भनं वामहस्तेन
कृत्वाऽन्नत्यागात्पात्रमनुत्सृजन्नेव 'विश्वेदेवा इदं वोऽन्नम्'
इत्युच्चारयन्नन्नत्यागं कुर्यादिति । विष्णुस्त्वन्नत्यागात्प्राक् स्म-
र्तव्यमाह— 'नमो विश्वेभ्यो देवेभ्यः इत्यन्नमादौ प्राङ्मुखयो-
र्निवेदयेत्। पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मु-
खेषु' इति । चशब्दात्प्रपितामहाय च निवेदयेदित्याह ।
विश्वेभ्यो देवेभ्यः पित्रे पितामहाय चेति चतुर्थ्या विश्वेषां
देवानां पित्रादेश्च देवतात्वं प्रदर्श्यते । विश्वेदेवा देवता
पित्रादयो देवतेति स्मृत्वा निवेदनार्थं, प्राङ्मुखयोरुदङ्मुखेष्विति