स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 358, कुल 474 में से
संदर्भ में पढ़ें338 स्मृतिचन्द्रिकायां
भोजने हेमरूप्याणि दैवे पित्र्ये यथाक्रमम् ।
इति । एतेषामलाभे विष्णुः—'तैजसानि पात्राणि दद्यात्'
इति । तैजसानि कांस्यताम्रादीनि । तेषामलाभे पालाशपर्ण-
निर्मितानि—
पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ।
इत्यत्रिणाऽभिधानात् । पर्णपात्रपक्षेऽपि घृतादिद्रव्यधारणार्थं तै-
जसानि सति सम्भवे सम्पाद्यानि । 'घृतादिदाने तैजसानि
पात्राणि' इति विष्णुस्मरणात् । तेषामभावे पालाशपर्णनि-
र्मितपत्रपुटानि घृतादिधारणार्थानि भवन्ति न कदाचिन्मृन्मय
पात्राणि,
न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।
इत्यत्रिस्मरणात् । यथासम्भवलब्धानां चैतेषां पात्राणां द्विः
प्रक्षाळनं कार्यं, तत्रादावपो निनीय हस्तेन निर्मृज्य प्रक्षाळनं,
अनन्तरं जलेनैव । तथाच ब्रह्माण्डपुराणम्—
प्रक्षाळ्य हस्तपात्रादि पश्चादद्भिर्विधानवत् ।
प्रक्षाळनं जलं दर्भैः तिलैर्मिश्रं क्षिपेच्छुचौ ॥
हस्तपात्रादीति मध्यमपदलोपी समासः । हस्तनिर्मृष्टं पात्रादि
प्रक्षाळयेदर्थः । पात्रशब्देन तलमुक्तं, आदिशब्देन घृतादे-
र्धारणार्थानि गृह्यन्ते । पात्रप्रक्षाळनानन्तरं याज्ञवल्क्यः—
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥
भाजनेषु 'पित्र्यब्राह्मणार्थभाजनेष्वित्यर्थः, रौप्येषु तु विशेषत