स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
श्राद्धकाण्डे अवान्तरसङ्कल्पादिकृत्यम्. २८७
इति ।
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।
इतिवचनान्नैमित्तिकपदेनात्रैकोद्दिष्टश्राद्धमुक्तमिति यद्यपि प्रति-
भाति । तथाऽपि तद्वचनोत्तरार्धे,
तदप्यदैवं कर्तव्यमयुग्मानांशयेद्विजान् ।
इति पूर्वार्धोक्तैकोद्दिष्टश्राद्धे वैश्वदैविकनिषेधेन तत्र कालका-
मसंज्ञया विश्वेषां देवानां निर्देशः कार्य इति विध्यसंभवात्
योगरूढ्या प्रतीयमानमेकोद्दिष्टं हित्वा निमित्ते भवं नैमि-
त्तिकमिति योगमाश्रित्य नैमित्तिकपदेन नवान्नलाभादिनिमित्ते
सति पितृभ्यो भक्त्या क्रियमाणं श्राद्धमुक्तमित्यवगन्तव्यम् ।
अथवा—नैमित्तिकपदेनैकोद्दिष्टाभिधायकेन सपिण्डीकरणं ल-
क्षणया निर्दिश्यते, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भावात् ।
एवञ्च—सपिण्डीकरणे विश्वेषां देवानां आवाहनार्थं काल-
कामसंज्ञया निर्देशः कार्यः । ‘एवं सर्वत्र कीर्तयेत्’ एवमु-
क्तरीत्या सर्वश्राद्धेषु नामग्रहणस्थाने कीर्तयेदित्यर्थः । आ-
दिपुराणे विशेषनामानि दर्शितानि—
विश्वेदेवौ ऋतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ ।
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नलम्भने देवौ कालकामौ सदैव हि ।
अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैव विश्वेदेवौ च पार्वणे ।
288 स्मृतिचन्द्रिकायां
इति । सर्वास्विष्टिषु सर्वेषु कर्माङ्गश्राद्धेषु नवान्नलम्भने पैतृके
नवान्नलाभरूपनिमित्ते सति, नवान्नभोजनोपक्रमात् पूर्वं पितृ-
भक्त्या नवान्नेन क्रियमाणश्राद्धवत्। तच्च निमित्ताधिकारेण क्रि-
यमाणानां विश्वेदेवसमन्वितानां श्राद्धानामुपलक्षणार्थम् । कन्या-
गते सूर्ये श्राद्धे पुत्रादिफलकामनया क्रियमाणमहालयाख्य
इत्यर्थः । एतच्च सर्वकाम्यश्राद्धोपलक्षणतयोक्तम् । पार्वणे
अमावास्यायां क्रियमाणे पार्वणश्राद्धे इति । क्रतुदक्षसत्यादीनां
च दक्षप्रजापतेर्दुहितरि विश्वाख्यायां लोकविश्रुतायामुत्पत्ति-
स्समभूदित्यत्पत्तिमपि ज्ञात्वा आवाहनं कार्यम् । अतएवैषा-
मुत्पत्तिः पुराणेऽभिहिता—
दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता ।
तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुताः ॥
एवमुक्तोत्पत्तिरावाहनसमये ज्ञातव्येत्यभिप्रायः । अतएव क्रतु-
दक्षादिसंज्ञां दक्षदुहितुरुत्पत्तिं च ये न विदुः तेषामनुकल्पमाह
शङ्खः—
नाम चैव तथोत्पत्तिं न विदुर्ये द्विजातयः ।
श्लोकमेतं पठेयुस्ते ब्राह्मणानां समीपगाः ॥
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये ह्यत्र विहिताश्श्राद्धे सावधाना भवन्तु ते ॥
इति । आगच्छन्तु महाभागा इति मन्त्रं वैश्वदैविकब्राह्मण-
समीपस्थाः 'विश्वे देवासश्शृणुतेमम्' इति मन्त्रजपानन्तरं जपे-
युरित्यर्थः । तथाच पुराणम्—
श्राद्धकाण्डे अवान्तरसङ्कल्पपाद्यः. 289
तथा मन्त्रं जपेन्मौनी विश्वेदेवास आगत ।
विश्वेदेवाश्शृणुतेति द्वितीयं तदनन्तरम् ॥
तृतीयं तु जपेन्मन्त्रं आगच्छन्त्वित्यतःपरम् ।
इति । विश्वेदेवास इत्यनया ऋचा प्रथममावाह्य तदनन्तरं
विश्वेदेवाश्शृणुतेति मन्त्रं जपेदित्यन्वयः । यद्यपि कर्माङ्गश्रा-
द्धादिषु न क्वापि दश विश्वेदेवा देवतात्वेन स्मृतिपुराणा-
भ्यामभिहिताः, किन्तु द्वौद्वावेकैकस्मिन् श्राद्धे देवतात्वेनोक्तौ ।
तथाप्यावाहनादौ पुरूरवार्द्रवसंज्ञकान् विश्वान् देवानावाहयि-
ष्यामीत्येवं बहुवचनान्ततयैव प्रयोगः कार्यः 'विश्वान्देवाना-
वाहयिष्यामीति निरङ्गुष्ठं गृहीत्वा विश्वान् देवान् समाह्व-
येत्' इत्यादिस्मृतिपुराणेषु बहुवचनान्ततयैव प्रयोगदर्शनात् ।
यथा एकस्मिन् पितरि पितामहे प्रपितामहे वा आवाह-
नादिसर्वोपचारेषु पितरः पितामहाः प्रपितामहा इदं व आ-
सनमित्यादिबहुवचनान्तोपि प्रयोगः पूजार्थं यथा नानुपपन्नः
तथा द्वयोरपि पूजार्थं बहुवचनान्तप्रयोगो युक्त एव । वैश्व-
दैविकब्राह्मणानामनेकत्वेऽपि न प्रतिब्राह्मणमावाहनावृत्तिः, स-
कृदावाहनेनैवानेकब्राह्मणाधिष्ठानदेवताध्याससम्भवात् । आवा-
हनादूर्ध्वं तु प्रतिब्राह्मणं देवताध्यासात् ब्राह्मणभेदे सति
तदुपाधितो देवताया अपि भेदो भवति, तेनावाहनोत्तर-
काले यद्देवताराधनं क्रियते यवारोपणादि सन्निपत्योपका-
रकं तत्पुरोडाशप्रदानादिवत्प्रतिब्राह्मणमावर्तनीयं, सन्निपत्योप-
Smriti Cha.—Vol. V. 37
कारकेष्वावृत्तिं विना ब्राह्मणान्तरे कार्यासद्धेः । विश्वेदे-
वाश्शृणुतेमम्' इति मन्त्रजपस्त्वावाहनाेत्तरकाले क्रियमाणोपि
नावर्तते, सकृज्जपेनैव जपसाध्यादृष्टसिद्धेः ॥
इति स्मृतिचन्द्रिकायां अवान्तरसङ्कल्पादि
वैश्वदैविकावाहनान्तकृत्यम्.
अथ वैश्वदैविकार्चनविधिः.
तत्र याज्ञवल्क्यः—
यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शन्नो देव्या अपः क्षित्त्वा यवोसीति यवांस्तथा ॥
इति । अयमर्थः—वैश्वदैविकब्राह्मणयोः पादाद्यङ्गेषु यवान्
समारोप्य ‘विश्वेदेवाश्शृणुत’ इत्यादिकं जपित्वा अर्घ्यभा-
जने द्वे उत्ताने विधाय तत्रैकैकस्मिन् भाजने द्विदर्भमेकैकं
पवित्रं प्रागग्रमुदग्रं वा निधाय ‘शन्नो देवीरभिष्टये’ इत्यृचा
प्रतिपात्रं जलं निषिच्य.
यवोसि धान्यराज त्वं वारुणो मधुसंयुतः ।
निर्णोदस्सर्वपापानां पवित्रमृषिभिः कृतम् ॥
इति मन्त्रेण यवान् प्रतिपात्रं प्रक्षिपेत् । तथाऽन्यदपि गन्धादिकं
क्षिपेदिति । अत्राद्यपादस्यार्थो मत्स्यपुराणे स्पष्टमुक्तः—
विश्वान् देवान् यवैः पुष्पै्रभ्यर्च्यासनपूर्वकम् ।
पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके ॥ इति ॥
प्रचेतसा त्वन्त्यपादत्रयस्यार्थः स्पष्टमुक्तः—
एकैकस्यापि विप्रस्य अर्घ्यं पात्रे विनिक्षिपेत् ।
यवोसीति यवान् क्षिप्त्वा गन्धपुष्पैस्सुपूजितम् ॥
अर्घ्यमर्घ्यार्थं जलं, तदेकैकस्य विप्रस्य एकैकस्मिन् पात्रे
मन्त्रावृत्त्या विनिक्षिपेत्, तदैव यवान् क्षिप्त्वा गन्धपुष्पैस्सुपू-
जितं कुर्यादित्यर्थः । अर्घ्यपात्रे विशेषमाह कात्यायनः—
‘सौवर्णराजतौदुम्बरखड्गमणिमयानामन्यतमेषु यानि विद्यन्ते
पत्रपुटादिषु वा, इति । औदुम्बरं ताम्रं, खड्गं खड्गमृगमयं,
मणिमयं मरकतादिरत्नमयं, यानि वा कांस्यादितैजसानि
विद्यन्ते तेषु वेति शेषः । बैजवापोपि—
राजतानि प्रशस्तानि पित्र्ये हैमानि दैविके ।
अपि वा ताम्रपात्राणि दैवे पित्र्येऽर्घ्यकर्मणि ॥
उत्तरार्धेऽपि प्रशस्तानीत्यनुषज्यते । राजतानि तु पात्राणि दैवे
निन्दितानि, तथाच राजतं पात्रमधिकृत्य मत्स्येनोक्तम्—
शिवनेत्रोद्भवं यस्मादतस्तत्पितृवल्लभम् ।
अमङ्गळं तद्यत्नेन देवकार्येषु वर्जितम् ॥
शिवनेत्रोद्भवं शिवनेत्रजलप्रभवं, तथाच श्रुतिः—‘सोऽरोदीद्य-
दरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्र्वशीयत तद्रजतं हिरण्यमभवत्’
इति । अमङ्गळं तदित्यत्राश्रुप्रभवत्वादित्यभिप्रायोऽवसेयः । अ-
र्घ्यपात्रान्तर्धायकपवित्रे प्रत्यर्घ्यपात्रं भेदेन कार्ये इति चतु-
विंशतिमतेऽभिहितम्— 'द्वेद्वे शलाके देवानां पात्रे कृत्वा पयः
क्षिपेत्' इति । दर्भादिषु साग्रेषु शलाकाशब्दो वर्तते । द्वेद्वे
इति वीप्सया प्रतिपात्रं द्वेद्वे शलाके निधातव्ये इति दर्शितम् ।
पवित्रकरणप्रकारमाह याज्ञवल्क्यः—
पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् ।
अनन्तर्गर्भे कुशाच्छिन्ने कौशे प्रादेशसम्मिते ॥
कुशाच्छिन्ने कुशमन्तर्धाय छिन्ने कौशे कुशमये पवित्रे स्थ इति मन्त्रेण
‘पवित्रे स्थो वष्णवी । वायुर्वां मनसा पुनातु’ इति मन्त्रेण । यज्ञ-
पार्श्वोऽपि—
ओषधीमन्तरे कृत्वाङ्गुष्ठाङ्गुळिपर्वणोः ।
छिन्द्यात्प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
न नखेन न काष्ठेन न लोहेन न मृन्मयात् ।
नखेन तु भवेद्व्याधिः काष्ठेनार्थो न सिध्यति ॥
आयसेन भवेन्मृत्युः मृन्मये कलहो ध्रुवम् ।
इति । गन्धपुष्पैः सुपूजितकरणानन्तरं गार्ग्यः—
स्वाहेति चैव देवानां होमकर्मण्युदाहरेत् ।
होमशब्दोत्र त्यागसद्भावसामान्यादाने वर्तते । ततश्चायमर्थः—
देवानामध्येदानकर्मणि करिष्यमाणतया प्रस्तुते देवेभ्योऽर्घ्यं
निवेदयितुं स्वाहेत्युदाहरेत् । 'स्वाहाऽर्घ्यम्' इत्युच्चार्य विप्र
समीपे अर्घ्यपात्रं स्थापयेदित्यर्थः । स्थापनानन्तरं याज्ञ-
वल्क्यः—
293
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
इति । ‘या दिव्या आपस्सुहवा भवन्तु’ इति मन्त्रेण मन्त्रान्ते
पुरूरवार्द्रवसंज्ञिका विश्वेदेवा इदं वो अर्घ्यमित्युक्त्वा वैश्वदैविक-
ब्राह्मणस्यैकस्य हस्ते दक्षिणे अर्घ्यपवित्रेणान्तर्हिते एकपात्रस्थ-
मुदकं कृत्स्नं दद्यादित्यर्थः ।
दत्वा हस्ते पवित्रं तु हस्तेष्वर्घ्यं विनिक्षिपेत् ।
इति गार्ग्यस्मरणात् । यद्यप्यत्रोपक्रमोपसंहारगतवचनयोर्विरोधः
प्रतिभाति । तथाऽप्यनुपजातविरोधित्वादुपक्रमानुरोधेनैवोपसं-
हारस्य वर्णनं कार्यमिति न्यायेन बहुवचनमत्र श्लोकसि-
द्ध्यर्थं प्रयुक्तमिति वर्णयितव्यम् । एवञ्च याज्ञवल्क्यवचनेऽपि
‘हस्तेष्वर्घ्यं विनिक्षिपेत्’ इत्यत्र हस्तेष्विति बहुवचनं श्लो-
कसिद्ध्यर्थं कृतं, हस्तस्याधिकरणत्वप्रतिपादनमात्रे तु तात्पर्य-
मिति मन्तव्यम् । ब्राह्मणहस्तेष्वर्घ्यसेचनानन्तरं याज्ञवल्क्यः—
दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ।
इति । गन्धमाल्यधूपदीपदानानि प्रत्येकमुदकमादौ दत्वा का-
र्याणीत्यर्थः । तथाच गौतमः—‘भिक्षादानमप्पूर्वं ददातिषु
चैवम्’ इति । आपः पूर्वं दत्ता यस्माद्भिक्षादानात्तदप्पूर्वं, द-
दातिषु भिक्षातो वस्त्वन्तरदानेष्वप्येवमप्पूर्वं दानं कार्यम् ।
वैश्वदैविकदानेषु समर्पणाय प्रयोक्तव्या मन्त्रा ब्रह्मपुराणे
दर्शिताः—
इदं वः पाद्यमर्घ्यं च पुष्पदानविलेपनम् ॥
अयं दीपप्रकाशश्च विश्वेदेवास्समर्प्यते ॥
इति । विश्वेदेवा इदं वः पाद्यं विश्वे देवा इदं वो अर्घ्य इति
नपुंसकलिङ्गनिर्देशेन पाद्यादिकं, विश्वे देवा एष वो धूपः
विश्वे देवा अयं वो दीपप्रकाश इति पुल्लिङ्गनिर्देशेन धूपादिस्स-
मर्प्यते विश्वेभ्यो देवेभ्यस्समर्पणियमित्यर्थः । गन्धदाना-
दावेवं प्रयोगः—ब्राह्मणहस्ते उदकं निनीय पुरूरवार्द्रवसं-
ज्ञका विश्वेदेवा अयं वो गन्ध इति गन्धं ब्राह्मणहस्ते दद्यात् ।
पूर्ववदुदकं निनीय पुरूरवार्द्रवसंज्ञकविश्वेदेवा इदं वो माल्यं
इति माल्यं दद्यात् । पूर्ववदुदकं निनीय पूर्ववत्तेषां नाम गृ-
हीत्वा अयं वो धूप इति धूपार्पणं, पूर्ववदुदकं निनीय देवता-
नामगृहीत्वा अयं वो दीप इति दीपार्पणम्, पुनरापो दत्वा
नाम गृहीत्वा इदं व आच्छादनमिति वस्त्रतन्मूल्ययज्ञोपवीतेषु
यथालाभमेकं दद्यात् । अर्चनं सर्वं सम्पूर्णमस्त्विति कर्ता ब्रू-
यात् । अस्तु सम्पूर्णमिति विप्रो ब्रूयात् । सङ्कल्पसिद्धिरस्त्वि-
ति भवन्तो ब्रुवन्त्विति कर्ता ब्रूयात् । अस्तु सङ्कल्पसिद्धि-
रिति विप्रो ब्रूयात् । आसनादौ सर्वत्र स्वासनं स्वर्घ्यं सुग-
न्धः सुमाल्यं सुधूपः सुदीपः स्वाच्छादनं इति विप्रो ब्रूयात् ।
एतत्सर्वं गद्यसङ्ग्रहकारेणोक्तम् । देवपित्रर्चनार्थं यानि गन्ध-
पुष्पधूपदीपाच्छादनान्युपादेयानि वर्ज्यानि च तानि प्रागुपक-
ल्प्यद्रव्यकथनावसरे कथितानीतीह नोक्तानि । तेनोपकल्प्यद्रव्य-
कथनावसरोक्तानीहोपादेयानि ॥
इति स्मृतिचन्द्रिकायां वैश्वदैविकार्चनविधिः.
यथाप्रोक्ता नियतास्युरुदङ्मुखाः ।
Wait, line 4:
द्विजातयो यथाप्रोक्ता नियतास्युरुदङ्मुखाः ।
Let's check the letters:
द्वि (dvi)
जा (jaa)
त (ta)
यो (yo)
य (ya)
था (thaa)
प्रो (pro)
क्ता (ktaa)
नि (ni)
य (ya)
ता (taa)
स्यु (syu)
रु (ru)
द (da)
ङ्मु (ṅmu)
खाः (khaaḥ) ।
Yes, exactly: "द्विजातयो यथाप्रोक्ता नियतास्युरुदङ्मुखाः ।"
पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ॥
Letters:
पू (pū)
ज (ja)
ये (ye)
द्य (dya)
ज (ja)
मा (mā)
न (na)
स्तु (stu)
वि (vi)
धि (dhi)
व (va)
द्द (dda)
क्षि (kṣi)
णा (ṇā)
मु (mu)
खः (khaḥ)
॥ (double danda, wait: it looks like "॥" or "।"?)
In the image: "॥" (two dandas).
याज्ञवल्क्योपि—
Letters:
या (yā)
296 स्मृतिचन्द्रिकायां
द्विगुणान् तिलान्, 'पितॄणां द्विगुणांस्तिलैः' इति स्मर-
णात्। कुशान् त्रिपञ्चादिविषमसङ्ख्याकान् 'पित्र्येऽयुग्मांस्तथैव
च' इति स्मरणात् । दत्वा आसनस्य वामभागे 'प्रदद्या
दासने दर्भान् न तु पाणौ कदाचन । पितृकर्मणि वामे
स्यात्' इति स्मरणात् । आसनदानात् पूर्व पश्चाच्च ब्राह्मण
हस्ते अपामासेचनं कार्यं 'अपः प्रदाय दर्भान् द्विगुणान्
आसनं प्रदायापः प्रदद्यात्' इति शौनकस्मरणात् । 'पितृ-
नावाइयेत्' इत्यत्र पितृशब्देन कर्तुरतीताः पूर्वपुरुषाः पितृ-
पितामहप्रपितामहा उक्ताः, तेषां श्राद्धकर्मणि हविःप्रत्युद्देश्य-
तया देवतात्वेन आवाह्यत्वात् । तथा चापस्तम्बः- 'अथैतन्मनुः
श्राद्धशब्दं कर्म प्रोवाच प्रजानिःश्रेयसाय तत्र पितरो दे-
वता ब्राह्मणस्त्वाहवनीयार्थे' इति । श्राद्धशब्दं कर्म श्राद्ध-
नामधेयं कर्म । प्रजानिःश्रेयसाय पुत्रपौत्रादिसन्ततिश्रेयःप्राप्त्य-
र्थम् । तत्र श्राद्धनामधेये कर्मणि । पितरो देवताः श्राद्धकर्तुः
पितृपितामहप्रपितामहा लोकान्तरगताः सम्प्रदानत्वेन हविः-
प्रत्युद्देश्याः, न तु ब्राह्मणास्संप्रदानत्वेन हविःप्रत्युद्देश्याः ।
किन्त्वाहवनीयार्थे देवतोद्देशेन त्यक्तस्य हविषः प्रक्षेप्यमाणस्य
धारणरूपे आहवनीयकार्ये केवलं वर्तन्त इत्यर्थः । तत्कार्ये
वर्तनं च 'ब्राह्मणस्य हस्ते होतव्यम्' इतिवदत्र वचना-
भावान्न हस्तद्वारा, किंतु-
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा ।
भोजयेदिति वचनात् त्यक्तान्नप्राशनद्वारेति गम्यते । पितृकृत्ये
यजमानस्य पितृपितामहप्रपितामहानुद्दिश्य त्यक्तान्नभोजनकृत्ये ।
अत एव ब्रह्मपुराणे—
पितॄन् पितामहान् यक्ष्ये भोजनेन यथाक्रमम् ।
प्रपितामहान्वै सर्वांश्च तत्पितॄंश्चानुपूर्वशः ॥
तत्पितॄन् प्रपितामहस्य पितृपितामहप्रपितामहान् । पिण्डदान-
समये हस्तलग्नेन लेपनेन यक्ष्ये इत्यर्थः । बैजवापिनाऽपि
यजमानस्य पितृपितामहप्रपितामहानां श्राद्धदेवतात्वमभिधाय
सुस्पष्टं तेषामेवावाहनमुक्तं—'तिष्ठन् पितॄन् आवाहयिष्ये'
इत्यामन्त्र्य 'उशन्तस्त्वा, इत्यनया यजमानस्य पितरं पिता-
महं प्रपितामहं नामाभिरावाह्य' इति । पुराणेऽपि श्राद्धकर्तुः
पूर्वपुरुषाणामेव श्राद्धदेवतात्वमभिसंधाय सुस्पष्टं तेषामेव
कव्यभागित्वमुक्तं—
या तु पिण्डक्रिया तत्र ब्राह्मणानां तु भोजनम् ।
यजमानस्य पूर्वेषां तत्तु गच्छति नान्यथा ॥
तत्र श्राद्धकर्मणि या पिण्डक्रिया आद्यपिण्डक्रिया पितृ-
सम्बन्धिनी कृता 'ब्राह्मणानां तु भोजनं, यथासुखं जुष-
ध्वम्' इति यद्यदन्नं ब्राह्मणभोजनाय निवेदितं तद्विविध-
मन्नं यजमानस्य पूर्वेषां श्राद्धकर्तुः पितृपितामहप्रपितामहाना-
मुपभोगाय गच्छति नान्यथा नान्येषामुपभोगाय गच्छतीत्यर्थः ।
कथं पुनस्सर्वेषां पुरुषाणां प्रातिस्विकशुभाशुभकर्मवशेन स्व-
SMRITI CHA.—Vol. V 38
298 स्मृतितत्त्वा यां
र्गनरकादिगतानां दूरस्थकव्यभोक्तृत्वसामर्थ्यरहितानामुपभोगाय
नेतृपुरुषशून्यमचेतनमन्नादि द्रव्यं गच्छतीत्यनुपपत्तिनिराकरणा-
र्थमुक्तं तत्रैव—
यथा गोषु प्रनष्टेषु वत्सो विन्दति मातरम् ।
एवं श्राद्धेऽन्नमुद्दिष्टं मन्त्रः प्रापयते पितॄन् ॥
मन्त्रो मन्त्रसामर्थ्यम् । मन्त्रसामर्थ्यमपि ब्राह्मणभोजनादिना
नष्टमन्नं कथं प्रापयतीत्यनुपपत्तिनिराकरणाय मत्स्येनोक्तं—
नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ।
नाममन्त्रास्तथाऽऽदेशाः भवान्तरगतानपि ॥
प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान् ।
देवो यदि पिता जातश्शुभकर्मनियोगतः ॥
तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति ।
देवत्वे भोग्यरूपेण पशुत्वे तु तृणं भवेत् ॥
श्राद्धान्नं वायुरूपेण नागत्वेऽप्युपगच्छति ।
पानं भवति यक्षत्वे गृध्रत्वे तु तथाऽऽमिषम् ॥
दनुजत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ।
मानुष्ये त्वन्नपानादि नानाभोगकरं तथा ॥
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता ।
दानशक्तिस्सविभवा रूपमारोग्यमेव च ॥
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः ।
इति। नामानि देवदत्तयज्ञदत्तादीनि। मन्त्राः ‘पृथिवी ते पात्रम्’
इत्यादयः । आदेशा इदमन्नादिकममुष्मै भवत्वित्येवमादयो निर्दे-
शाः। तदाहारत्वमागतान् तत्तज्जात्युचिताहारत्वं प्राप्तान्। तस्यान्नं
तत्तदुद्देशेन त्यक्तमन्नं अमृतं भूत्वा यत्रासौ स्थितः तत्र
मन्त्रसामर्थ्यात्तत्तद्भोगयोग्यं द्रव्यान्तरं भूत्वाऽनुगच्छति भोग-
साधनं भवति । दिव्यत्वे दिविस्थितत्वे देवत्वे । भोग्यरूपेण
दिवोऽन्यत्र लोकान्तरे वर्तमाने देवत्वे स्थिते देवोचितभोग्य-
रूपेण । इदं स्वकर्मानुसारिशरीरोचितान्नादिरूपेण भोगसाध-
नत्वं, श्राद्धकर्मणः पुष्पं अवान्तरफलम् । ब्रह्मसमागमो ब्रह्म-
लोकप्राप्तिः परमफलं प्रोक्तमित्यर्थः । अत्रावान्तरफलप्राप्तिः
कालादिविशेषलाभे भवति । तथाच हारीतः—
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ।
प्राप्नोत्यन्नं यथादत्तं जन्तुर्यत्रावतिष्ठते ॥
इति । परमफलप्राप्तिस्तु गयादिदेशविशेषलाभे भवति ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ।
इति गयादिदेशविशेषकृतस्य श्राद्धस्य फलत्वेन श्रवणात्। शाश्वतं
ब्रह्म नयेत् ब्रह्मणा सह ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नये-
दित्यर्थः । एवमापस्तम्बादिवचनैः श्राद्धकर्मणि न ब्राह्मण उद्दे-
श्यः । किंतु श्राद्धकर्तुः पितृपितामहप्रपितामहा लोकान्तरगता
उद्देश्या इति सिद्धम् । तेषूद्देश्यपित्रादिषु वस्वादिरूपतया
उद्देशार्थं यथाक्रमं वस्वादिबुद्धिः कार्येत्याह शातातपः—
वसवः पितरो ज्ञेयाः रुद्रा ज्ञेयाः पितामहाः ।
300 स्मृतिचन्द्रिकायां
प्रपितामहास्तथाऽऽदित्या इत्येषा वैदिकी श्रुतिः ॥
एवं ज्ञात्वा श्राद्धे कृते वस्वादीनामपि प्रीतिर्भवतीत्याह
पैठीनसिः— 'वसवः पितरो रुद्राः पितामहा आदित्याः प्रपि-
तामहा य एवं विद्वान् पितॄन् यजते वसवो रुद्रा आदित्याश्चास्य
प्रीता भवन्ति' इति । पित्रादिष्वेव वस्वादिपमनुसन्धा-
यानुष्ठितेन श्राद्धेन प्रीता वस्वादयः श्राद्धजनितप्रीतिशालि-
त्वेन श्राद्धदेवताभूतपित्रादिकल्पाः पुत्रादिदत्तान्ननिदानकस्या-
मृताद्यन्नपानान्तस्य प्राप्तिं नामगोत्रमन्त्रादिवस्तुसामर्थ्येन कुर्वतां
मनुष्याणां पितॄन् शुभाशुभकर्मारब्धशरीरान्तरगतान् प्रीणय-
न्तीत्यर्थः । तेन पुत्रादिभिरवश्यं नामगोत्रमन्त्राद्युच्चारणवद्वस्वा-
दिरूपेण पित्रादयो ध्यातव्याः । तथाऽऽह याज्ञवल्क्यः—
वसुरुद्रादितिसुताः पितरश्श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥
अदितिसुता आदित्याः । एवञ्चापस्तम्बादिवचनानां शाता-
तपादिवचनानां च न परस्परविरोधः । तेन श्राद्धकर्तुः पूर्व-
पुरुषा एव लोकान्तरगताः श्राद्धदेवता इति सिद्धम् । यत्तु
देवलेनोक्तं—
वसवः पितरो ज्ञेयाः रुद्रा ज्ञेयाः पितामहाः ।
प्रपितामहास्तथाऽऽदित्याः श्रुतिरेषा सनातनी ॥
प्रेतानुद्दिश्य यत्कर्म क्रियते मानुषैरिह ।
तुष्यन्ति पितरस्तेन न प्रेताः पितरस्स्मृताः ॥
श्राद्धकाण्डे पैतृकार्चनविधिः. ३०१
इति। अयमर्थः—मानुषैः पुत्रादिभिरिह मनुष्यलोके यच्छ्रा-
द्धाख्यं कर्म प्रेतान् परलोकगतान् पित्रादीन् श्राद्धे उद्दे-
श्यभूतान् वस्वादिरूपेण ध्यातानुद्दिश्य क्रियते तेन तथाकृतेन
कर्मणा तस्मिन् कर्मणि वस्वादिरूपेण ध्यात्वोद्दिष्टाः पितरः
पित्रादयस्तुष्यन्ति न पुनस्स्वरूपेणोद्दिष्टाः यतो न प्रेताः परलो-
वगताः स्वरूपमात्रेण श्राद्धदेवताभूताः पितरस्स्मृता इति।
अतः अनेनापि सह आपस्तम्बादिवचनानां न विरोधः।
एवं निरूपितं श्राद्धकर्तुः पित्रादीनां देवतात्वं मातृपितामहादि-
सहितानामेव न तु केवलानामित्याह शातातपः—
एकमूर्तित्वमायाति सपिण्डीकरणे कृते।
पत्नी पतिपितॄणां तु तत्तदंशेषु भागिनी॥
एतद्वचनं पित्रादिदैवत्ये श्राद्धे तत्पत्नीनां सहभावेन देवतात्वं
बोधयति। ततश्च सपत्नीकाः पितरो देवता इत्येषोऽर्थ
उक्तो भवति। एवं च पार्वणादिश्राद्धे पित्रादीनां सपत्नीका-
नां च तृप्तिर्भवति न पुनः केवलानामिति मन्तव्यम्। अत
एव बृहस्पतिः—
स्वेन भर्त्रा समं श्राद्धे माता भुङ्क्ते सुधामयम्।
पितामही च स्वेनैव स्वेनैव प्रपितामही॥
इति। एवमेव वस्वादिरूपेण मातामहादीनामपि श्राद्धदेव-
तात्वं तत्पत्नीनां च सहभावेन देवतात्वमवगन्तव्यं, 'माता-
महानामित्येवम्' इति याज्ञवल्क्यादिभिरुक्तत्वात्। एवं निरू-
स्मृतिचन्द्रिकायां
पितृश्राद्धदेवताऽऽवाहने विशेषः पुराणे दर्शितः—
अपसव्यं ततः कृत्वा तिलानादाय संयतः ।
पितॄनावाहयामीति पृच्छेद्विप्रानुदङ्मुखान् ॥
आवाहयेत्यनुज्ञात उशन्तस्त्वेत्यृचा पितॄन् ।
ततः क्षिप्त्वाऽपसव्यं च पितॄन् ध्यायन् समाहितः ॥
जपेदायन्तु न इति मन्त्रं सम्यगशेषतः ।
इति । उशन्तस्त्वेत्यृचा पितॄनित्यादेरयमर्थः—उशन्तस्त्वेत्यृचा
पितृपितामहप्रपितामहानावाह्य अनन्तरमप्रदक्षिणं पूर्वोपात्तांस्ति-
लान् ‘नमो वः पितरः’ इति मन्त्रेण शिरःप्रभृति पादान्तं
क्षिप्त्वा पितॄन् ध्यायन् ‘आयन्तु नः’ इति मन्त्रं जपेदिति ।
तथा प्रचेताः—
शिरःप्रभृति पादान्तं नमो व इति पैतृके ।
पैतृके कर्मणि ‘नमो वः पितरः’ इति मन्त्रेण शिरःप्रभृति
पादान्तमप्रदक्षिणं पुष्पतिलादिभिः पूजनं कुर्यादित्यर्थः ।
बैजवापेनाप्यावाहने विशेषो दर्शितः—“तिष्ठन् पितॄनावाह-
यिष्यामीत्यामन्त्र्योशन्तस्त्वेत्यनया यजमानस्य पितरं पिता-
महं प्रपितामहं नामाभिरावाह्य ‘आयन्तु नः पितरः” इति जप्त्वा’
इति । नामाभिः द्वितीयादिविभक्त्यन्तैः । तथा च श्लोकस-
ङ्ग्रहकारः—
अक्षय्याऽऽसनयोष्षष्ठी द्वितीयावाहने तथा ।
अन्नदाने चतुर्थी स्याच्छेषास्सम्बुद्धयस्स्मृताः ॥
इति । एतासु षष्ठ्यादिविभक्तिषु सर्वत्र एकवचनबहुवचन-
योर्विकल्प एव स्मृतिपुराणगृह्यादिषु पितृपितामहप्रपितामहा-
दिशब्दानां क्वचिदेकवचनान्ततया क्वचिद्बहुवचनान्ततया च
तत्र तत्र प्रयोगदर्शनात् । एवञ्चासनदानावाहनयोरेवं प्रयोगः—
प्राचीनावीती उदङ्मुखतया प्रथमोपविष्टविप्रहस्ते जलं नि-
नीय कुशासनयुग्मान्मध्यभङ्गतो द्विगुणीकृतान् सतिलान् गृ-
हीत्वा दक्षिणामुख आसीनोऽस्मत्पितुर्वसुरूपस्यामुकगोत्रस्या-
मुकशर्मणस्सपत्नीकस्येदमासनं इति विप्रस्यासनस्य वामभागे
पूर्वगृहीतात् सतिलान् कुशान् निक्षिप्य विप्रहस्ते पुनर्जलं
निनयेत् । एवमनन्तरोपविष्टब्राह्मणहस्ते तदनन्तरोपविष्टब्राह्मण-
हस्ते च जलनिनयनादि पुनर्जलनिनयनान्तं कुर्यात् । पितामहस्य
रुद्ररूपस्य प्रपितामहस्यादित्यरूपस्येति विशेषः—एवमेव माता-
महस्थानस्थविप्रत्रयहस्तेषु जलदानादि कुर्यात् । मातामहस्य
वसुरूपस्य मातुःपितामहस्य रुद्ररूपस्य मातुःप्रपितामहस्यादि-
त्यरूपस्येति विशेषः । एवं षट्सु विप्रेषु पदार्थानुसमयेना-
सनं दत्त्वाऽनन्तरं प्रतिविप्रं निमन्त्रणं पूर्वप्रकरणोक्तप्रकारेण
कुर्यात् । दैवे क्षणः क्रियतामित्यादिवाक्यस्थदैवपदस्थाने
श्राद्धे इति सप्तम्यन्तपदं षट्सु विप्रेषु प्रयोक्तव्यम् । ओं
तथेत्यादिकं तु पूर्वप्रकरणोक्तप्रकारेणैव प्रयोक्तव्यम् । षष्ठं
विप्रं निमन्त्र्याथ तिलानादाय प्राचीनावीती दक्षिणाभिमु-
खस्तिष्ठन्नस्मत्पितृपितामहप्रपितामहान् वसुरुद्रादित्यरूपान् आ-
वाहयिष्ये इत्युदङ्मुखतयाऽऽसीनान् ब्राह्मणान् पृष्ट्वा आवाह
येत्यनुज्ञातः ‘उशन्तस्त्वा हवामहे’ इत्यृचमुक्त्वा ऋगन्तेऽस्मत्पि-
तरं वसुरूपममुकगोत्रममुकशर्माणं सपत्नीकं अस्मत्पितामहं रुद्र-
रूपममुकगोत्रममुकशर्माणं सपत्नीकं अस्मत्प्रपितामहमादित्यरू-
पममुकगोत्रममुकशर्माणं सपत्नीकमावाहयामीति प्रथमे विप्रे पितरं,
द्वितीये पितामहं, तृतीये प्रपितामहं, आवाह्य ‘नमो वः
पितरः’ इति मन्त्रेण शिरसि सव्यांसे दक्षिणांसे सव्यजा-
नूनि दक्षिणजानुनि सव्यपादे दक्षिणपादे च प्रतिविप्रं ति-
लानारोप्य प्रथमे विप्रे पितरं वसुरूपं सपत्नीकं, द्वितीये पितामहं
रुद्ररूपं सपत्नीकं, तृतीये प्रपितामहमादित्यरूपं सपत्नीकं ध्या-
यन् ‘आयन्तु नः पितरः’ इत्यादिकामृचं सकृज्जपेत् । एवं
मातामहाद्यावाहनं कुर्यात् । तत्रायं विशेषः—अस्मन्मातामह-
मातुःपितामहमातुःप्रपितामहान् वसुरुद्रादित्यरूपानावाहयिष्ये
इति मातामहादिस्थानस्थान् विप्रान् पृच्छेत् । उशन्तस्त्वेति
मन्त्रान्ते मातामहं वसुरूपं अमुकगोत्रममुकशर्माणं सपत्नीकं,
एवं मातुःपितामहं सपत्नीकं रुद्ररूपममुकगोत्रममुकशर्माणं, एवं
मातुःप्रपितामहमादित्यरूपममुकगोत्रममुकशर्माणं सपत्नीकं आ-
वाहयामीति प्रथमे विप्रे मातामहं, द्वितीये मातुःपितामहं,
तृतीये मातुःप्रपितामहं आवाह्य प्रतिविप्रमेकैकं ध्यायन्
‘आयन्तु नः’ इति जपेत् । ‘उशन्तस्त्वा, आयन्तु नः’ इति
मन्त्रद्वयगतपितृशब्दस्थाने मातामहशब्दः न प्रयोक्तव्यः ।
305
'न पिता वर्धते' इति श्रुत्या जनकै कनिष्ठपितृशब्दव्यतिरिक्त-
पितृशब्दोऽह्रप्रतिषेधात् । 'आयन्तु नः पितरः' इति जपान-
न्तरं कर्तव्यमुक्तं पुराणे—
जपेदायन्तु न इति मन्त्रं सम्यगशेषतः ।
रक्षार्थं पितृसत्रस्य त्रिःकृत्वस्सर्वतोदिशम् ।
तिलांस्तु प्रक्षिपेन्मन्त्रैरुच्चार्यापहता इति ॥
'अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवी-
मनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः' इति मन्त्र-
मुच्चार्य सर्वतोदिशं ब्राह्मणान् परितस्त्रिवारमप्रदक्षिणं तिलान्
प्रक्षिपेदित्यर्थः । पितृसत्रं पितृयागः, श्राद्धमिति यावत् ॥
इति स्मृतिचन्द्रिकायां पैतृकार्चनविधावा-
वाहनान्तोपचारविधिः.
अथार्घ्याद्युपचारविधिः.
तत्र पुराणं—
सौवर्णराजताम्भोजमणिपात्राण्यथापि वा ।
अर्घ्यार्थं संस्करोत्येव शुभपत्रपुटादि वा ॥
अर्घ्यार्थं अर्घ्योदकस्थापनार्थं दर्भेष्वासादनप्रोक्षणाभ्यां सौव-
र्णादिषु यथालाभमन्यतमानि पात्राणि संस्कुर्यादेवेत्यर्थः ।
पत्रपुटादीत्यादिशब्देन चमसादिकं गृह्यते । अत एव विष्णुः—
SMRITI CHA.—VOL. V. 39
306 | स्मृतिचन्द्रिकायां
‘दक्षिणाग्रेषु दर्भेषु चमसेषु दक्षिणापवर्गेषु त्रिषु पवित्रान्तर्हितेषु
अप आसिञ्चेत् । शं नो देवीरभिष्टये’ इति । दक्षिणाग्रेषु
दर्भेषु दक्षिणापवर्गंतयाऽऽसादितेषु चमसाद्यर्घ्यपात्रेषु त्रिषु
पवित्रान्तर्हितेषु शं नो देवीरिति मन्त्रेण प्रतिपात्रमपो निनये
दित्यर्थः । प्रचेता अपि—‘यज्ञियवृक्षचमसेषु पवित्रान्तर्हिते-
ष्वेकैकस्मिन् अप आसिञ्चेत्’ इति । शौनकोपि—“तैजसाश्म-
मयन्मृण्मयेषु पात्रेष्वेकद्रव्येष्वनेकद्रव्येषु वा दर्भान्तर्हितेष्वपः
प्रदाय शं नो देवीरभिष्टये इत्यनुमन्त्रितान् तिलानावपति—
तिलोसि पितृदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भिः पृक्तस्स्वधया पितॄनिमान् लोकान् प्री-
णयाहि नः स्वधा नमः” ॥
इति । तैजसं कांस्यादिमयम् । अश्ममयं मरकतादिमणिमयम् ।
एकद्रव्येषु कांस्यरजतताम्रादीनामन्यतमेषु । अनेकद्रव्येषु कां-
स्यादिनानाद्रव्यमयेषु वा । दर्भान्तर्हितेषु पवित्रान्तर्हितेषु ।
शं नो देवीरिति मन्त्रेणापो निनीयानुमन्त्रितासु पूर्वोक्तमन्त्रेण
नीतास्वप्सु तिलोसीति मन्त्रेण तिलान् प्रक्षिपेदित्यर्थः । पात्रे-
ष्विति बहुवचनं त्रिष्वेवावतिष्ठते, प्रकृतिभूते त्रिदेवताके
श्राद्धे प्रतिदैवतमेकैकपात्रविधिपरत्वात् । अत एव प्रचेतसा—
‘त्रीण्येवोदपात्राणि’ इत्युक्तम् । पित्रादीनां त्रयाणामेकैकस्या-
नेकब्राह्मणनियोजने सर्वेषामेकब्राह्मणनियोजनेऽपि श्राद्धस्य
त्रिदेवताकत्वात्त्रीण्येवोदपात्राणि न तु ब्राह्मणसंख्यया सङ्ख्या-