स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 319, कुल 474 में से
संदर्भ में पढ़ेंइत्यादयः । आदेशा इदमन्नादिकममुष्मै भवत्वित्येवमादयो निर्दे-
शाः। तदाहारत्वमागतान् तत्तज्जात्युचिताहारत्वं प्राप्तान्। तस्यान्नं
तत्तदुद्देशेन त्यक्तमन्नं अमृतं भूत्वा यत्रासौ स्थितः तत्र
मन्त्रसामर्थ्यात्तत्तद्भोगयोग्यं द्रव्यान्तरं भूत्वाऽनुगच्छति भोग-
साधनं भवति । दिव्यत्वे दिविस्थितत्वे देवत्वे । भोग्यरूपेण
दिवोऽन्यत्र लोकान्तरे वर्तमाने देवत्वे स्थिते देवोचितभोग्य-
रूपेण । इदं स्वकर्मानुसारिशरीरोचितान्नादिरूपेण भोगसाध-
नत्वं, श्राद्धकर्मणः पुष्पं अवान्तरफलम् । ब्रह्मसमागमो ब्रह्म-
लोकप्राप्तिः परमफलं प्रोक्तमित्यर्थः । अत्रावान्तरफलप्राप्तिः
कालादिविशेषलाभे भवति । तथाच हारीतः—
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ।
प्राप्नोत्यन्नं यथादत्तं जन्तुर्यत्रावतिष्ठते ॥
इति । परमफलप्राप्तिस्तु गयादिदेशविशेषलाभे भवति ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ।
इति गयादिदेशविशेषकृतस्य श्राद्धस्य फलत्वेन श्रवणात्। शाश्वतं
ब्रह्म नयेत् ब्रह्मणा सह ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नये-
दित्यर्थः । एवमापस्तम्बादिवचनैः श्राद्धकर्मणि न ब्राह्मण उद्दे-
श्यः । किंतु श्राद्धकर्तुः पितृपितामहप्रपितामहा लोकान्तरगता
उद्देश्या इति सिद्धम् । तेषूद्देश्यपित्रादिषु वस्वादिरूपतया
उद्देशार्थं यथाक्रमं वस्वादिबुद्धिः कार्येत्याह शातातपः—
वसवः पितरो ज्ञेयाः रुद्रा ज्ञेयाः पितामहाः ।