सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 311, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 311

पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके ॥ इति ॥
प्रचेतसा त्वन्त्यपादत्रयस्यार्थः स्पष्टमुक्तः—
एकैकस्यापि विप्रस्य अर्घ्यं पात्रे विनिक्षिपेत् ।
यवोसीति यवान् क्षिप्त्वा गन्धपुष्पैस्सुपूजितम् ॥
अर्घ्यमर्घ्यार्थं जलं, तदेकैकस्य विप्रस्य एकैकस्मिन् पात्रे
मन्त्रावृत्त्या विनिक्षिपेत्, तदैव यवान् क्षिप्त्वा गन्धपुष्पैस्सुपू-
जितं कुर्यादित्यर्थः । अर्घ्यपात्रे विशेषमाह कात्यायनः—
‘सौवर्णराजतौदुम्बरखड्गमणिमयानामन्यतमेषु यानि विद्यन्ते
पत्रपुटादिषु वा, इति । औदुम्बरं ताम्रं, खड्गं खड्गमृगमयं,
मणिमयं मरकतादिरत्नमयं, यानि वा कांस्यादितैजसानि
विद्यन्ते तेषु वेति शेषः । बैजवापोपि—
राजतानि प्रशस्तानि पित्र्ये हैमानि दैविके ।
अपि वा ताम्रपात्राणि दैवे पित्र्येऽर्घ्यकर्मणि ॥
उत्तरार्धेऽपि प्रशस्तानीत्यनुषज्यते । राजतानि तु पात्राणि दैवे
निन्दितानि, तथाच राजतं पात्रमधिकृत्य मत्स्येनोक्तम्—
शिवनेत्रोद्भवं यस्मादतस्तत्पितृवल्लभम् ।
अमङ्गळं तद्यत्नेन देवकार्येषु वर्जितम् ॥
शिवनेत्रोद्भवं शिवनेत्रजलप्रभवं, तथाच श्रुतिः—‘सोऽरोदीद्य-
दरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्र्वशीयत तद्रजतं हिरण्यमभवत्’
इति । अमङ्गळं तदित्यत्राश्रुप्रभवत्वादित्यभिप्रायोऽवसेयः । अ-
र्घ्यपात्रान्तर्धायकपवित्रे प्रत्यर्घ्यपात्रं भेदेन कार्ये इति चतु-