स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 322, कुल 474 में से
संदर्भ में पढ़ेंस्मृतिचन्द्रिकायां
पितृश्राद्धदेवताऽऽवाहने विशेषः पुराणे दर्शितः—
अपसव्यं ततः कृत्वा तिलानादाय संयतः ।
पितॄनावाहयामीति पृच्छेद्विप्रानुदङ्मुखान् ॥
आवाहयेत्यनुज्ञात उशन्तस्त्वेत्यृचा पितॄन् ।
ततः क्षिप्त्वाऽपसव्यं च पितॄन् ध्यायन् समाहितः ॥
जपेदायन्तु न इति मन्त्रं सम्यगशेषतः ।
इति । उशन्तस्त्वेत्यृचा पितॄनित्यादेरयमर्थः—उशन्तस्त्वेत्यृचा
पितृपितामहप्रपितामहानावाह्य अनन्तरमप्रदक्षिणं पूर्वोपात्तांस्ति-
लान् ‘नमो वः पितरः’ इति मन्त्रेण शिरःप्रभृति पादान्तं
क्षिप्त्वा पितॄन् ध्यायन् ‘आयन्तु नः’ इति मन्त्रं जपेदिति ।
तथा प्रचेताः—
शिरःप्रभृति पादान्तं नमो व इति पैतृके ।
पैतृके कर्मणि ‘नमो वः पितरः’ इति मन्त्रेण शिरःप्रभृति
पादान्तमप्रदक्षिणं पुष्पतिलादिभिः पूजनं कुर्यादित्यर्थः ।
बैजवापेनाप्यावाहने विशेषो दर्शितः—“तिष्ठन् पितॄनावाह-
यिष्यामीत्यामन्त्र्योशन्तस्त्वेत्यनया यजमानस्य पितरं पिता-
महं प्रपितामहं नामाभिरावाह्य ‘आयन्तु नः पितरः” इति जप्त्वा’
इति । नामाभिः द्वितीयादिविभक्त्यन्तैः । तथा च श्लोकस-
ङ्ग्रहकारः—
अक्षय्याऽऽसनयोष्षष्ठी द्वितीयावाहने तथा ।
अन्नदाने चतुर्थी स्याच्छेषास्सम्बुद्धयस्स्मृताः ॥