स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 314, कुल 474 में से
संदर्भ में पढ़ेंअयं दीपप्रकाशश्च विश्वेदेवास्समर्प्यते ॥
इति । विश्वेदेवा इदं वः पाद्यं विश्वे देवा इदं वो अर्घ्य इति
नपुंसकलिङ्गनिर्देशेन पाद्यादिकं, विश्वे देवा एष वो धूपः
विश्वे देवा अयं वो दीपप्रकाश इति पुल्लिङ्गनिर्देशेन धूपादिस्स-
मर्प्यते विश्वेभ्यो देवेभ्यस्समर्पणियमित्यर्थः । गन्धदाना-
दावेवं प्रयोगः—ब्राह्मणहस्ते उदकं निनीय पुरूरवार्द्रवसं-
ज्ञका विश्वेदेवा अयं वो गन्ध इति गन्धं ब्राह्मणहस्ते दद्यात् ।
पूर्ववदुदकं निनीय पुरूरवार्द्रवसंज्ञकविश्वेदेवा इदं वो माल्यं
इति माल्यं दद्यात् । पूर्ववदुदकं निनीय पूर्ववत्तेषां नाम गृ-
हीत्वा अयं वो धूप इति धूपार्पणं, पूर्ववदुदकं निनीय देवता-
नामगृहीत्वा अयं वो दीप इति दीपार्पणम्, पुनरापो दत्वा
नाम गृहीत्वा इदं व आच्छादनमिति वस्त्रतन्मूल्ययज्ञोपवीतेषु
यथालाभमेकं दद्यात् । अर्चनं सर्वं सम्पूर्णमस्त्विति कर्ता ब्रू-
यात् । अस्तु सम्पूर्णमिति विप्रो ब्रूयात् । सङ्कल्पसिद्धिरस्त्वि-
ति भवन्तो ब्रुवन्त्विति कर्ता ब्रूयात् । अस्तु सङ्कल्पसिद्धि-
रिति विप्रो ब्रूयात् । आसनादौ सर्वत्र स्वासनं स्वर्घ्यं सुग-
न्धः सुमाल्यं सुधूपः सुदीपः स्वाच्छादनं इति विप्रो ब्रूयात् ।
एतत्सर्वं गद्यसङ्ग्रहकारेणोक्तम् । देवपित्रर्चनार्थं यानि गन्ध-
पुष्पधूपदीपाच्छादनान्युपादेयानि वर्ज्यानि च तानि प्रागुपक-
ल्प्यद्रव्यकथनावसरे कथितानीतीह नोक्तानि । तेनोपकल्प्यद्रव्य-
कथनावसरोक्तानीहोपादेयानि ॥
इति स्मृतिचन्द्रिकायां वैश्वदैविकार्चनविधिः.