स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 312, कुल 474 में से
संदर्भ में पढ़ेंविंशतिमतेऽभिहितम्— 'द्वेद्वे शलाके देवानां पात्रे कृत्वा पयः
क्षिपेत्' इति । दर्भादिषु साग्रेषु शलाकाशब्दो वर्तते । द्वेद्वे
इति वीप्सया प्रतिपात्रं द्वेद्वे शलाके निधातव्ये इति दर्शितम् ।
पवित्रकरणप्रकारमाह याज्ञवल्क्यः—
पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् ।
अनन्तर्गर्भे कुशाच्छिन्ने कौशे प्रादेशसम्मिते ॥
कुशाच्छिन्ने कुशमन्तर्धाय छिन्ने कौशे कुशमये पवित्रे स्थ इति मन्त्रेण
‘पवित्रे स्थो वष्णवी । वायुर्वां मनसा पुनातु’ इति मन्त्रेण । यज्ञ-
पार्श्वोऽपि—
ओषधीमन्तरे कृत्वाङ्गुष्ठाङ्गुळिपर्वणोः ।
छिन्द्यात्प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
न नखेन न काष्ठेन न लोहेन न मृन्मयात् ।
नखेन तु भवेद्व्याधिः काष्ठेनार्थो न सिध्यति ॥
आयसेन भवेन्मृत्युः मृन्मये कलहो ध्रुवम् ।
इति । गन्धपुष्पैः सुपूजितकरणानन्तरं गार्ग्यः—
स्वाहेति चैव देवानां होमकर्मण्युदाहरेत् ।
होमशब्दोत्र त्यागसद्भावसामान्यादाने वर्तते । ततश्चायमर्थः—
देवानामध्येदानकर्मणि करिष्यमाणतया प्रस्तुते देवेभ्योऽर्घ्यं
निवेदयितुं स्वाहेत्युदाहरेत् । 'स्वाहाऽर्घ्यम्' इत्युच्चार्य विप्र
समीपे अर्घ्यपात्रं स्थापयेदित्यर्थः । स्थापनानन्तरं याज्ञ-
वल्क्यः—