सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 313, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 313

293

या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
इति । ‘या दिव्या आपस्सुहवा भवन्तु’ इति मन्त्रेण मन्त्रान्ते
पुरूरवार्द्रवसंज्ञिका विश्वेदेवा इदं वो अर्घ्यमित्युक्त्वा वैश्वदैविक-
ब्राह्मणस्यैकस्य हस्ते दक्षिणे अर्घ्यपवित्रेणान्तर्हिते एकपात्रस्थ-
मुदकं कृत्स्नं दद्यादित्यर्थः ।
दत्वा हस्ते पवित्रं तु हस्तेष्वर्घ्यं विनिक्षिपेत् ।
इति गार्ग्यस्मरणात् । यद्यप्यत्रोपक्रमोपसंहारगतवचनयोर्विरोधः
प्रतिभाति । तथाऽप्यनुपजातविरोधित्वादुपक्रमानुरोधेनैवोपसं-
हारस्य वर्णनं कार्यमिति न्यायेन बहुवचनमत्र श्लोकसि-
द्ध्यर्थं प्रयुक्तमिति वर्णयितव्यम् । एवञ्च याज्ञवल्क्यवचनेऽपि
‘हस्तेष्वर्घ्यं विनिक्षिपेत्’ इत्यत्र हस्तेष्विति बहुवचनं श्लो-
कसिद्ध्यर्थं कृतं, हस्तस्याधिकरणत्वप्रतिपादनमात्रे तु तात्पर्य-
मिति मन्तव्यम् । ब्राह्मणहस्तेष्वर्घ्यसेचनानन्तरं याज्ञवल्क्यः—
दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ।
इति । गन्धमाल्यधूपदीपदानानि प्रत्येकमुदकमादौ दत्वा का-
र्याणीत्यर्थः । तथाच गौतमः—‘भिक्षादानमप्पूर्वं ददातिषु
चैवम्’ इति । आपः पूर्वं दत्ता यस्माद्भिक्षादानात्तदप्पूर्वं, द-
दातिषु भिक्षातो वस्त्वन्तरदानेष्वप्येवमप्पूर्वं दानं कार्यम् ।
वैश्वदैविकदानेषु समर्पणाय प्रयोक्तव्या मन्त्रा ब्रह्मपुराणे
दर्शिताः—
इदं वः पाद्यमर्घ्यं च पुष्पदानविलेपनम् ॥