स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
नात् । मसूरोपि प्रत्यन्तदेशव्यतिरिक्तदेशेष्वतिप्रसिद्धो द्विद्
ळविशेषो मङ्गल्यकापरपर्यायः । तथाऽमरसिंहः- 'मङ्गल्यको
मसूरः' इति । क्षारो यवक्षारादिः । वार्त्ताकं क्षुद्रवार्त्ताकसं
ज्ञकबृहतीफलं कण्टकारिकाख्यबृहतीफलात् किञ्चित् स्थूलम् ।
शणशब्दो धान्यविशेषवचनः, 'शणः सप्तदलानि धान्यानि'
इति धान्यप्रभेदेष्वभिधानात् । अस्य च स्वयंजातस्य सर्वदा
प्रतिषिद्धत्वात् । अत्र प्राप्त्यसम्भवेऽपि कृष्यादिजातस्य प्रा-
प्तिसम्भवात् प्रतिषेधो नानर्थकः । शिग्रुः द्विविधः श्वेतपुष्पो
रक्तपुष्पश्च । तत्र रक्तपुष्पस्य सर्वनिषिद्धत्वेन प्राप्त्यभावेऽ-
पि श्वेतपुष्पस्य पत्रशाकत्वेन प्राप्तिरस्तीति प्रतिषेधोऽर्थवान् ।
विष्णुरपि वर्ज्यानाह- 'भूतृणशिग्रुसर्षपसुरसार्जककूष्माण्डाला
श्राद्धकाण्डे श्राद्धकर्मणि वर्ज्यद्रव्याणि । २१५
प्रसिद्धौ । वार्ताकपालङ्क्याशब्दौ प्रागेव व्याख्यातौ । तण्डु-
लीयकः प्रसिद्धः । अत एवामरसिंहेन 'तण्डुलीयोल्पमारिषः'
इति तण्डुलीयकमुद्दिश्याल्पमारिषोऽनुशिष्टः । कुसुम्भशब्देनात्र
कण्टकीकुसुम्भस्य ग्रहणं, अकण्टकीकुसुम्भस्य सदाऽप्रतिषि-
द्धत्वात् । द्विविधस्यापि कुसुम्भस्य नवपत्राणि शाकत्वेनोप-
युज्यन्ते । तेन शाकत्वेन प्राप्तिसम्भवात्प्रतिषेधोऽर्थवान् ।
मत्स्योपि—
कुसुम्भं बीजपूरं च कपित्थं मधुकातसी ।
एतान्यपि न देयानि पितृभ्यः प्रीतिमिच्छता ॥
कपित्थस्य फलत्वेन प्राप्तिसम्भवात् प्रतिषेधः । मधुकं यष्टि-
मधुकं अस्य गन्धद्रव्यतया प्राप्तिसम्भवात्प्रतिषेधः । अतसी
शाकत्वेन प्रसिद्धैव । सुमन्तुरपि—'बीजपूरमाषांश्च श्राद्धे न
दद्यात्' इति । बीजपूरको मातुलिङ्गकः—
फलपूरो बीजपुरो रुचको मातुलिङ्गकः ।
इत्यमरः । माषाः कृष्णमाषव्यतिरिक्ताः । मार्कण्डेयोपि—
वर्ज्याश्चाभिषवा नित्यं शतपुष्पा गवेधुका ।
जम्बीरजं फलं वर्ज्यं कोविदारस्तु नित्यशः ॥
अभिषवाः क्लिन्नाः शुक्ता इति यावत् । शतपुष्पा शाकप्र-
करणे अमरसिंहेनाभिहिता । गवेधुका शङ्खाकारतृणधान्यसं-
पादिका ओषधिः, तस्या अदनीयत्वायोगात्तद्धान्यं प्रति-
षिध्यते । जम्बीरफलमार्द्रकादिशाकसंस्कारकतया भक्ष्यतया च
ऋणादान, उपनिधि, संभूय-समुत्थान एवं वेतन-अनपाकर्म व्यवहार
प्रतिषिध्यते । कोविदारो युगपत्रकवृक्षविशेषः । तस्य पुष्पं
फलं वा कोविदारम्, तत्कोमलावस्थं शाकत्वेन प्राप्तं प्र-
तिषिध्यते । शाख्यायनोपि—
मारिषं नाळिका चैव रक्ता या च कलम्बका ।
आसुरान्न मिदंसर्वं पितॄणां नोपतिष्ठते ॥
इति । मारिषो जीवशाकं 'मारिषो जीवशाकस्स्यात्' इति
वैजयन्त्यां तच्च कुण्डलीयकसदृशं ततोपि स्थूलतरम् । अत एव
वैजयन्त्यां 'मारिषो जीवशाकस्स्यात्' इत्युक्तोक्तं 'अत्राल्पे
कुण्डलीयकः' इति । नाळिका दीर्घनाळा शिरसि स्वल्पफ-
लान्विता । तस्याः फलस्य नाळभागस्य च शाकत्वेन प्राप्ते
प्रतिषेधः । कळम्बका जलसम्भवा वेणुपत्राकृतिः पल्लवान्वि-
ता । द्विविधा श्वेता रक्ता च शाकत्वेन प्राप्ता रक्तेति वि-
शेषणोपादानान्न श्वेतायाः प्रतिषेधः । स्मृतिरपि—
गान्धारिकापटोलानि श्राद्धकर्मणि वर्जयेत् ।
इति । गान्धारिका तण्डुलीयक इति देवस्वामिना व्याख्यातम् ।
पटोलानि । न तु लता । लतायाः पुल्लिङ्गत्वस्यैव साधुत्वात्,
अत एवामरसिंहेन लतापर्यायेषु 'पटोलः तिक्तकः पटुः'
इति पुल्लिङ्गतया दर्शितः । हारीतोपि— 'पालङ्कचापोतिका-
नाळिकाकुसुम्भसुरसानिष्पावचणकादि श्राद्धे न दद्यात्'
इति । पोतिका सुताह्वया । वैजयन्त्यां 'पोतिका तु सुता-
ह्वया' इत्यभिधानात् । यस्याः पत्रशाकसेवा निद्रातिशयकारिणी
[Header]
श्राद्धकाण्डे श्राद्धे वर्ज्यद्रव्याणि. 217
[/Header]
सा पोतिका ज्ञेया । शेषाणि प्राग्व्याख्यातानि । शङ्खोऽपि—
कृष्णजाजी बिदश्चैव शितपाकी तथैव च ।
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च ॥
अवक्षुतादभिहतं तथा श्राद्धेषु वर्जयेत् ।
कृष्णजाजी कृष्णजीरकम् । बिदः बिदाख्यं लवणम् । शित-
पाकी तु कीदृशीति चिन्त्यम् । लवणं कृतलवणं 'कृतं
च लवणं सर्वं वंशाग्रं च विवर्जयेत्' इति तेनैवाभिधा-
नात् । उशनाऽपि—
नाळिकाशणछत्राककुसुम्भालाबुविङ्गुरान् ।
कुम्भीकञ्चुकवृन्ताककोविदारांश्च वर्जयेत् ॥
वर्जयेल्लशुनं श्राद्धे काञ्जिकं पिण्डमूलकम् ।
करञ्जं येऽपि चान्ये वै रसगन्धोत्कटास्तथा ॥
इति । छत्राकं शिलीन्ध्रं 'छत्राके तु शिलीन्ध्रस्स्यात्' इति वैज-
यन्त्याम् । अलाबुफलस्य पत्रादेरपि शाकत्वेन प्राप्तत्वात्प्रतिषेधः।
कुम्भी श्रीपर्णिका, खर्वकार्ष्मर्यफलं, 'श्रीपर्णिका कुमुदिका-
कुम्भी कैटर्यकत्फलौ' इत्यमरसिंहेनाभिधानात् । कञ्चुकं वृत्ता-
कारमलाबुफलं 'वृत्तकुम्भ्यां तु कञ्चुका' इति वैजय-
न्त्यामुक्तत्वात् । वृन्ताकं बृहतीसदृशस्थूलोद्भिदः फलं वृन्त-
भागेन सह फलशाकत्वेन प्रसिद्धम् । काञ्जिकमारनाळकं धा-
न्याम्लमिति यावत् । पिण्डमूलकं चिन्त्यम् । करञ्जं चिरि-
[Footer]
SMRITI CHA.—Vol. V 28
[/Footer]
218 स्मृतिचन्द्रिकायां
बिल्वफलं 'चिरिबिल्वो नक्तमालः करञ्जिश्चकरञ्जके' इत्यमरः।
गृञ्जनं पलाण्डुविशेषः। एतच्च लशुनादीनां दशविधपलाण्डु-
विशेषाणामपि प्रदर्शनार्थं, ते च विशेषाः¹—
लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम्।
फरण्डश्च² पलाण्डुश्च लतार्कश्च परारिका॥
गृञ्जनं यवनेष्टं च पलाण्डोर्दश जातयः।
इति वदन् दशविधावान्तरजातिष्वपि पलाण्डुशब्दः सामान्येन
वर्तत इति दर्शयति। अत एवामरसिंहेन 'पलाण्डुस्तु सुक-
न्दकः' इति सामान्यनामतयोक्तम्। अवान्तरजातिविशेषेऽपि
पलाण्डुशब्दो वर्तते 'फरण्डश्च पलाण्डुश्च' इति विशिष्या-
त्रैव प्रयुक्तत्वात्। पुराणेऽपि दशविधानां प्रदर्शनार्थं केचन
विशेषा निषिद्धाः—
लशुनं गृञ्जनं चैव पलाण्डुः पिण्डमूलकम्।
कलम्बी यानि चान्यानि हीनानि रसगन्धतः॥
पिप्पलं मरिचं चैव पटोलं बृहतीफलम्।
वांशं करीरं सुरससर्जकं भूस्तृणानि च॥
अवेदोक्ताश्च निर्यासा लवणान्यौषराणि च।
श्राद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः॥
इति। हरिद्रक्तकन्दविशेषो गृञ्जनः। 'हरिद्रक्ते तु गृञ्जनः' इति
वैजयन्त्यामुक्तत्वात्। श्वेतकन्दविशेषः पलाण्डुः, 'पलाण्डौ तु
¹ वैजयन्त्याम्. ² करण्यश्च (पाठः)
श्राद्धकाण्ड : 219
'श्वेतकन्दो मुकुन्दकः' इति तत्रैवोक्तत्वात् । लशुनाख्यस्य
विशेषस्य भेदकधर्मो वैद्यकादौ द्रष्टव्यः । वांशं करीरं वं-
शाङ्कुरः । 'वंशाङ्कुरे करीरोऽस्त्री' इत्यमरः । सर्जकः पीतसा-
लकः । 'अथो पीतसालके । सर्जकासनबन्धूकपुष्पप्रियकजी-
वकाः' इत्यमरः । अवेदोक्तनिर्यासाः वेदे ग्राह्यत्वेनोक्तनिर्या-
सव्यतिरिक्तनिर्यासाः लोहितनिर्यासाः व्रश्चनप्रभवाश्चेति यावत् ।
‘ अथो खलु य एव लोहितो यो वाऽऽव्रश्चनान्निर्यैषति तस्य नाद्यं
काममन्यस्य’¹ इति श्रुतिः । लवणान्यौषराणि ऊषरप्रभवाणि
कृतलवणानीति यावत् । याश्च नार्यो रजस्वलाः । त्रिरात्रा-
दूर्ध्वमप्यनिवृत्तरजस्काः । ताश्च वर्ज्या इत्यर्थः । क्षीरविशेषा
अपि वर्ज्याः पुराणे दर्शिताः—
आविकं मार्गमौष्ट्रं च सर्वमैकशफं च यत् ।
माहिषं चामरं चैव पयो वर्ज्यानि जानता ॥
आविकं अवीनां पयः । मार्गं मृगीणां पयः । औष्ट्रं उष्ट्रीणां
पयः । एकशफा वडवादयः तासां पयः ऐकशफम् । चामरं
चमरीपयः । भरद्वाजोपि—
नक्तोद्धृतं तु यत्तोयं पल्वलाम्बु तथैव च ।
स्वल्पाम्बु कूष्माण्डफलं वज्रकन्दं च पिप्पली ॥
तण्डुलीयकशाकं च माहिषं च पयो दधि ।
शिम्बिकानि करीराणि कोविदारं गवेधुका ॥
कुलत्थशणजम्बीरकरम्भानि तथैव च ।
¹ तै सं. २-५-१
220
नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि कानिचित् ॥
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ।
वज्रकन्दं कीदृशमिति चिन्त्यम् । शिम्बिकानि शिम्बीधान्यानि
चणकादीनि । करम्भः दधिमिश्रास्सक्तवः । 'करम्भो दधि-
सक्तवः' इत्यमरः । माहिषं तु घृतं देयं, पयो दधीति विशेषि-
तत्वात् । सर्वस्मिन् श्राद्धकर्मणीति वचनात् यद्यपि कूष्मा-
ण्डफलादीनि नित्यश्राद्धेऽपि न देयानीति प्रतिभाति, तथाऽपि
प्रतिदिनं श्राद्धीयान्नसंपादनस्यातिदुष्करत्वान्नित्यश्राद्धेतरसर्व-
श्राद्धकर्मणीति व्याख्येयम् । अत एव रामायणेऽभिहितम्—
इङ्गुदैर्बदरैर्बिल्वैः रामस्तर्पयते पितॄन् ।
यदन्नं पुरुषो भुङ्क्ते तदन्नास्तस्य देवताः ॥ इति ॥
चतुर्विंशतिमतेऽपि—
यावनाळानपि तथा वर्जयन्ति विपश्चितः ।
तैलमप्यापदि प्राज्ञाः सम्प्रयच्छन्ति याज्ञिकाः ॥
कन्दमूलफलालाभे एवमाहुर्मनीषिणः ।
तैलमित्यत्रापि वर्जयन्तीति संबध्यते । यावनाळतैलादिनिषि-
द्धमपि अनिषिद्धकन्दमूलफलालाभे याज्ञिकाः प्रयच्छन्तीत्येवं
मनीषिण आहुरित्यर्थः । कन्दमूलफललाभे तु यावनाळादिकं
न देयमिति व्यतिरेकाद्गम्यते । मृष्टान्नलाभे तु सुतरां न देय-
मिति दण्डापूपन्यायाद्गम्यते । स्मृत्यन्तरे तु वर्ज्यमुक्तम्—
अतिशुक्तोग्रलवणं विरसं भावदूषितम् ।
राजसं तामसं चैव हव्यकव्येषु वर्जयेत् ॥
अतिशुक्तं अत्यर्थं स्वाभाविकरसत्यागेन कालवशात्कुत्सित-
रसान्तरापन्नम् । उग्रलवणं लवणाधिक्येनासह्यम् । पुराणेऽपि-
आसनारूढमन्नाद्यं पादोपहतमेव च ।
अमेध्यादागतैस्स्पृष्टं शुक्तं पर्युषितं च यत् ॥
द्विस्स्विन्नं परिदग्धं च तथैवाग्रावलोहितम् ।
शर्कराकीटपाषाणैः केशैश्चाप्युपहतम् ॥
पिण्याकं मथितं चैव तथाऽतिलवणं च यत् ।
सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥
वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहतास्तथा ।
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥
इति । यदन्नमवश्रयणान्तया पचिक्रियया सिद्धं सन्मार्दवार्थं
पुनरुदकं निनीयावश्रयणान्तमेव पच्यते तत् द्विस्स्विन्नं, न तु
यत्सिद्धमेव पुनरौष्ण्यनिर्वाहार्थमग्नावधिश्रियते । 'अत्युष्णं
सर्वमन्नं स्यात्' इति वचनादौष्ण्यार्थं पुनरधिश्रयणाभ्यनु-
ज्ञानात् । यस्य तु प्रथमपाकेन भक्षणयोग्यतैव न भवति तत्र
पूर्वपाकस्यानिर्वृत्तत्वात् पुनरुदकं निनीय पाकेऽपि श्राद्धे नित्य-
भोजनादौ च नास्ति प्रतिषेधः । यत्र भक्ष्यविशेषसिद्ध्यर्थमुद-
कादिना पूर्वं पक्त्वा तैलादिना पाकः क्रियते तत्रापि न
द्विस्स्विन्नता, विशिष्टभक्ष्यसिद्धिफलकपाचिक्रियाया उदके तैले
च क्रियाया एकत्वात् । परिदग्धमतिदग्धम् । अग्रावलोहितं
222 स्मृति[चन्द्रि]काया[म्]
यदर्थमुत्पादितं तन्निर्वृत्तेः प्रागन्येन खादितम् । शर्करास्सूक्ष्म
पाषाणवत्कठिना मृद्विशेषाः । कीटोऽत्र क्रिमिरमेध्यसेवी ।
पाषाणाः सूक्ष्मतरसर्षपादिकल्पाः । पिण्याकस्तौलिकयन्त्रे
घनीभूततिलचूर्णं, ‘तिलकल्के च पिण्याकः’ इत्यमरसिंहे-
नाभिधानात् । मथितं जलमिश्रणेन विना विलोडितं दधि ।
‘तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्’ इति तेनै-
वाभिधानात् । सिद्धा भक्ष्याः स्वत एव भक्ष्यतया सिद्धा
आमलकादयः । कृता भक्ष्या माषपिष्टादिना कृतवटकादयः ।
प्रत्यक्षलवणीकृताः प्रत्यक्षेण लवणेन लवणीकृताः सिद्धभक्ष्या-
णां कृतभक्ष्याणां च प्रत्यक्षलवणीकृता इत्येतद्विशेषणम् ।
प्रत्यक्षग्रहणं दध्यादिना वस्त्वन्तरेण प्रच्छादितलवणेन लव-
णीकृता ग्राह्या इति गम्यते । यद्यपि नित्यभोजने पर्युषि-
तस्य प्रतिषिद्धत्वादत्रापि तद्वर्जनं सिद्धं, तथाऽपि तत्राभ्यनु-
ज्ञातस्य यवगोधूमादिपिष्टविकारस्यापि पर्युषितस्य श्राद्धे व-
र्जनीयत्वार्थं पर्युषितप्रतिषेध इति मन्तव्यम् । अत्यर्थप्रचुरद्र-
व्येषु कूष्माण्डादिषु दोषश्रवणाभावे निवृत्तिर्न भवतीति
दोषोऽपि स्मृत्यन्तरे दर्शितः—
कूष्माण्डं माहिषं क्षीरमाढक्यो राजसर्षपाः ।
चणका राजमाषाश्च घ्नन्ति श्राद्धं न संशयः ॥
पिण्डालूकं च तुण्डीरं करमर्दांश्च नालिकाम् ।
कूष्माण्डं बहुबीजानि श्राद्धे दत्वा व्रजन्त्यधः ॥
श्राद्धकाण्डे श्राद्धे वर्ज्यद्रव्याणि. 223
पिण्डालूकतुण्डीरे कीदृशे इति चिन्त्ये । करमर्दः कृष्णपाकफलः ।
‘कृष्णपाकफलाविग्नसुषेणाः करमर्दके’ इत्यमरः । बहुबीजानि
मातुलुङ्गादीनि । पुरुषार्थतया प्रतिषिद्धस्य सर्वस्य श्राद्धप्र-
तिषेधः न सिद्ध इति श्राद्धेऽपि प्रतिषेधार्थमुक्तं षट्त्रिंशन्मते—
क्षीरादि माहिषं वर्ज्यमभक्ष्यं यच्च कीर्तितम् ।
आदिग्रहणान्माहिषं दधि गृह्यते । ‘माहिषं च पयो दधि’
इति भरद्वाजस्मरणात् । माहिषं च मांसं गृह्यते—
माहिषाणि च मांसानि तथा श्राद्धे विवर्जयेत् ।
इति विष्णुपुराणेऽभिधानात् । पुरुषार्थतया प्रतिषेधकशास्त्रेषु
यदभक्ष्यं प्रकीर्तितं तच्च सर्वं श्राद्धे वर्ज्यं श्राद्धकर्मणि
न देयमित्यर्थः ॥
इति स्मृतिचन्द्रिकायां श्राद्धकर्मणि वर्ज्यद्रव्याणि.
अथ प्रसङ्गान्नित्यभोजने वर्ज्यद्रव्यविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तत्र देवलः—
अभोज्यं प्राहुराहारं शुक्तं पर्युषितं तथा ।
अन्यत्र मधुसक्तुभ्यां भक्ष्येभ्यस्सर्षिपो गुडात् ॥
अत्र शुक्तपदस्यार्थो बृहस्पतिना दर्शितः—
अत्यम्लं शुक्तमाख्यातं निन्दितं ब्रह्मवादिभिः । इति ॥
अस्यायमर्थः—यदोदनसूपादिकं स्वतोऽनम्लमीषदम्लं वा ह्यस्त-
नमद्यतनं वा दीर्घकालस्थातिभ्यां वा निजरसं हित्वाऽप्यर्थम-
म्लीभवति तदेव लोके शुक्तमाख्यातं निसर्गतोऽत्यम्लं का-
ञ्जिकादिद्रव्यमिति । पर्युषितमग्निपक्वं सड्रात्र्यन्तरितं सदा अभो-
ज्यं श्राद्धभोजन इव नित्यभोजनादावप्यभोज्यमित्यर्थः । मध्वा-
दिकं पर्युषितमपि भोज्यमिति । भक्षा अपूपादयः । मधुनोपि
सुरसत्वाय गुडवदेव पाकः क्रियते न भोजनादिनादन्येद्युः
पक्वं मधु पर्युषितं भवति ।
नाद्याच्छास्त्रनिषिद्धं तु भक्ष्यभोज्यादिकं द्विजः ।
इति । अयमर्थः—‘नापणीयमन्नमश्नीयान्न द्विःपक्वं न पर्युषि-
तम्’ इति ॥
घृतं वा यदि वा तैलं विप्रो नाद्यान्नखच्युतम् ।
यमस्तदशुचिं प्राह तुल्यं गोमांसभक्षणम् ॥
हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते किल्बिषम् ॥
एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत् ।
घृतं तैलं च लवणं पानीयं पायसं तथा ॥
इत्येवमादिशास्त्रनिषिद्धमापणीयमन्नादिकं द्विजो नाद्यादिति ।
‘नापणीयमन्नमश्नीयात्’ इत्युक्तस्य निषिद्धस्य क्वचिदपवाद-
माह स एव—
अपूपास्सक्तवो धानास्तक्रं दधि घृतं मधु ।
एतत्पण्येषु भोक्तव्यं भाण्डलेपो न चेद्भवेत् ॥
225
इति। द्विःपक्वान्ननिषेधस्यापवादोपि- 'यद्यद्द्विःपक्वं तत्सर्वं नाश्नी-
यात्' द्विःपक्वं नाम तदुच्यते यत्प्रथमपाकत एव भक्षणयोग्यतया
पक्वं सदपि मार्दवादिगुणान्तरं सम्पादयितुं पुनः पच्यते।
एवञ्च यत्तिक्ते शाकादौ प्रथमपाकमात्रेण भक्षणयोग्यता न
भवति किंतु सह्यतिक्तरसयुक्तो भवति तत्र प्रथमपाकस्यास-
मग्रत्वात्पुनः पाके कृतेऽपि न द्विःपक्वता भवति। यत्र भक्ष्यवि-
शेषसिद्ध्यर्थं उदकादिना पूर्वं पक्त्वा तैलादिनाऽपि पाकः
क्रियते तत्रापि न द्विःपक्वता भवति विशिष्टभक्ष्यसिद्धिफल-
कपचिक्रियाया उदके तैले च क्रियमाणाया एकत्वादिति म-
न्तव्यम्। न पर्युषितमश्नीयादित्यस्यापवादमाह यमः—
अपूपाश्च करम्भाश्च धाना वटकसक्तवः।
शाकं मांसमपूपं च सूपं कृसरमेव च ॥
यवागूः पायसं चैव यच्चान्यत् स्नेहसंयुतम्।
सर्वं पर्युषितं भोज्यं शुक्तं च परिवर्जयेत् ॥
अपूपाः यवगोधूमपिष्टविकारा मण्डकादयः। करम्भाः दधि
मिश्रितास्सक्तवः। धाना भृष्टयवतण्डुलाः। वटकाः माषपिष्टम-
यास्तैलपक्वाः स्तोकतया कृताः प्रसिद्धाः। शाकं मांसं चा-
न्येद्युः पक्वं, न पुनरन्येद्युराहृतं तावन्मात्रेण पर्युषितत्वायोगात्।
एवञ्चान्येद्युः पक्वमोदनं तस्मिन्नेव दिने संस्कारद्रव्याणि प्र-
क्षिप्य शाकविशेषतया कल्पितं पर्युषितमपि भोज्यमेवेत्यव-
गन्तव्यम्। सक्तवो भृष्टयवतण्डुलपिष्टानि। पुनरपूपग्रहणं
Smriti Cha.—Vol. V. 29
गोधूमेतरचणकादिपिष्टविकारस्यापूपप्रायस्यापि परिग्रहणार्थम् ।
सूपो मुद्गाढक्यादिकृतं व्यञ्जनम् । कृसरं भृष्टतिलचूर्णमि-
श्रमोदनम् । यवागूः अल्पतण्डुलचूर्णमिश्रं पेयरूपमन्नम् । पा-
यसं पयसा शृतमन्नम् । यच्चापूपादिभ्य उक्तेभ्योऽन्यदोदना-
दिकं स्नेहसंयुक्तं दधिघृतादिना स्नेहद्रव्येणाभिघारितं सत्पर्यु-
षितं सर्वं भोज्यं यावदशुक्तं वर्तते । यदा तु पर्युषितमपूपा-
दिकं स्नेहसंयुक्तमोदनादिकं वा शुक्तं जातं तदा तदपि वर्ज-
येदित्यर्थः । अभोज्यमित्यनुवृत्तौ वसिष्ठोऽपि--'अन्नं पर्युषितं
कामं तु दध्ना घृतेन यदभिघारितमुपयुञ्जीत' इति । अन्नं
पर्युषितमित्यत्रानुवृत्तेनाभोज्यमितिपदेन सम्बन्धः । दध्ना घृतेन
वाऽभिघारितं सत्पर्युषितमन्नं काममुपयुञ्जीत अश्नीयादित्यर्थः ।
अतएव मनुः--
यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यभोज्यमगर्हितम् ।
तत्पर्युषितमप्याद्यं हविश्शेषं तु यद्भवेत् ॥
उपयोजयेदित्यनुवृत्तावापस्तम्बोऽपि--'उदकेऽवधाय कृतान्नं पर्यु-
षितम्' इति । यदा तु कृतान्नं उदकेऽवधायरात्रौ स्थापितं
तदा तदन्नं पर्युषितमप्युपयुञ्जीतेत्यर्थः । एवं काञ्जिकं सम्पा-
दयितुं तण्डुलक्षाळनोदके निहितस्यान्ननिस्त्रावस्य रात्र्यन्तरे
तस्य पर्युषितत्वेऽप्यभोज्यत्वं नास्तीति तज्जातस्य काञ्जिक-
स्याभोज्यत्वं सुतरां नास्तीति मन्तव्यम् । अश्नीयादित्यनुवृ-
त्तौ शङ्खलिखितावपि--'न पर्युषितमन्यत्र दधिगुडगोधूमयव-
पिष्टविकारेभ्यः' इति । न पर्युषितमित्यस्य अश्नीयादित्यनु-
वृत्तेन पदेन सम्बन्धः । यद्यपि दधि गुडवन्न पाकसिद्धमिति
न पर्युषितं, तेन तस्य पर्युदासो व्यर्थ इति प्रतिभाति ।
तथाऽपि नान्येद्युः पाकेन सिद्धत्वं पर्युषितत्वे प्रयोजकं
किन्त्वदनीयतया साध्यत्वमिति दध्नोप्यदनीयतया साधितस्य
पर्युषितत्वमस्तीति तत्पर्युदासोऽर्थवानेव । याज्ञवल्क्यस्तु 'पर्यु-
षितं वर्जयेत्' इति स्वोक्तस्य प्रतिप्रसवार्थमाह—
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥
चिरसंस्थितमिति पदं चिरसंस्थिता इति विपरिणामेन गोधूम-
यवगोरसविक्रियाः इत्यत्रापि संबन्धनीयम् । अतएव मनुः—
चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसां चैव विक्रियाः ॥
इति । गोधूमविक्रियाः मण्डकादयः । यवविक्रियाः सक्तवाद-
यः । गोरसः क्षीरं तद्विकाराः कूर्चिकाद्याः, 'कूर्चिका क्षीर-
विकृतिः' इत्यमरसिंहेनोक्तत्वात् । गोरसविकृतावपि 'शुक्तं
चेत्परिवर्जयेत्' इति यमोक्तं द्रष्टव्यम् । भोज्यत्वेनोक्तस्य
पर्युषितस्य सर्वस्यापि श्राद्धे वर्ज्यत्वं पूर्वस्मिन् प्रकरणेऽभिहि-
तम् । तेन भोज्यत्वात् श्राद्धेऽप्यनिषिद्धमिति भ्रमो न कार्यः।
शङ्खस्तु शुक्तद्रव्येष्वपि किञ्चिद्भोज्यमित्याह—
दधि भक्ष्यं च शुक्तेषु यच्चान्यद्दधिसम्भवम् ।
228 स्मृतिचन्द्रिकायां
ऋबीषपक्वं भक्ष्यं स्यात् सर्पिर्युक्तमिति स्थितिः ॥
अनग्निकः ऊष्मा ऋबीषं, तेन पक्वं ऋबीषपक्वम् । धान्यराश्या-
दिगतोष्मपकमिति यावत् । तथाच ‘नर्बीषपक्वस्याश्नीयात्’
इत्यापस्तम्बसूत्रं व्याचक्षाणेन धूर्तस्वामिनोक्तं- ‘अनग्निकः
ऊष्मा ऋबीषं तत्पक्वस्य प्रतिषेधः क्रियते’ इति ग्रन्थेन ।
ऋबीषपक्वं शुक्तमपि सर्पिषा युक्तं भक्ष्यं स्यात् । न तद्रहि-
तमित्यर्थः । दधिसम्भवं तक्रनवनीतादि । भक्ष्यं भक्षणार्ह-
मित्यर्थः । यमस्त्वापदि शुक्तस्य प्रक्षाळनात् भक्षणार्हता भव-
तीत्याह-
शुक्तानि हि द्विजोऽन्नानि न भुञ्जीत कदाचन ।
प्रक्षालितानि निर्दोषाण्यापद्धर्मो यदा भवेत् ॥
एवं पर्युषितस्यापदि प्रक्षाळनाद्भक्षणार्हता भवति । अतएव
तस्य भोजनेऽभ्यनुज्ञा तेनैव कृता-
मसूरमाषसंयुक्तं तथा पर्युषितं च यत् ।
तत्तु प्रक्षाळितं कृत्वा भुञ्जीत ह्यभिघारितम् ॥
इति । बीजभूतधान्यादिकं भोज्यमपि भाविबहुफलहेतुविनाश-
स्यात्यन्तानुचितत्वात् अनापदि पर्युषितवत् नोपभुञ्जीतेत्याह
देवलः-
न बीजान्युपयुञ्जीत रोगापत्तिमृते बुधः ।
फलान्येषामनन्तानि बीजानां हि विनाशयेत् ॥
इति । एषां बीजानामनन्तानि फलानि यस्मादुपयुञ्जानो वि-
नाशयेत् तस्मादनापदि बीजानि नोपयुञ्जीतेत्यर्थः । स्वतो
विशुद्धमप्याहारं मृतमक्षिकादिसंसर्गदूषितं वर्जयेदित्याह स एव—
विशुद्धमपि चाहारं मक्षिकाकृमिजन्तुभिः ।
केशलोमनखैर्वाऽपि दूषितं परिवर्जयेत् ॥
अनापदीति शेषः । अतएव सुमन्तुः—'केशकीटक्षुतवचोभि-
र्हतं श्वभिराघ्रातं प्रेक्षितं वाऽदधि पर्युषितं पुनस्सिद्धं च-
ण्डालावेक्षितमभोज्यमन्यत्र हिरण्योदकैः स्पृष्टात्' इति । क्षुत-
वचः क्षुतवशाज्जातो ध्वानः तेन अभिहतं उपहतम् । श्वभिरिति
बहुवचनं येषामवघ्राणप्रेक्षणे दोषावहे तादृशप्राणिनां स्मृत्य-
न्तरोक्तगवादीनां सङ्ग्रहार्थम् । अदधि पर्युषितं पर्युदस्तदध्या-
दिव्यतिरिक्तं पर्युषितम् । पुनस्सिद्धं द्विःपक्वम् । एतदुक्तं
भवति—विशुद्धाहारं मक्षिकादिसंसर्गतो दुष्टं संत्यज्य अदु-
ष्टाहारं भुञ्जीत असम्भवे तु मक्षिकादिमपास्याहारशुद्ध्यर्थं उद-
केन प्रोक्षणं हिरण्यस्पर्शनं वा कृत्वा भुञ्जीतेति । अदुष्टाहारा-
न्तरासम्भवेऽपि यदवश्यं वर्ज्यं तदाह देवलः—
अवलीढं श्वमार्जारध्वाङ्क्षकुकुटमर्कटैः ।
भोजने नोपयुञ्जीत तदमेध्यं हि सर्वतः ॥
ध्वाङ्क्षः काकः । ब्रह्मपुराणेऽपि—
शूद्रभुक्तावशिष्टं तु नाद्याद्भाण्डस्थितं क्वचित् ।
इति । तेन भाण्डादुद्धृत्यमन्यस्मिन् पात्रे निक्षिप्य देयम् ।
[Page 230]
स्मृतिचन्द्रिकायां
शूद्रोच्छिष्टवल्लशुनादिसंस्पृष्टमपि नाद्यात् । तथाच भविष्य-
त्पुराणे—
सुरालशुनसंस्पृष्टं पीयूषादिसमन्वितम् ।
संसर्गादुच्यते तद्धि शूद्रोच्छिष्टवदाचरेत् ॥
इति । पीयूषं नवप्रसूतायाः गवादेः क्षीरम् 'पीयूषोभिनवं
पयः' इत्यमरेणाभिधानात् । आदिशब्देन छत्राकादिसंस्पृष्टं
गृह्यते । संसर्गदुष्टवज्जात्या दुष्टमपि शाकादिकं नाद्यात् ।
'वृन्ताकनाळिकापोतकुसुम्भाश्मन्तकाश्चेति शाकानामभक्ष्याः'
इति पैठीनसिस्मरणात् । वृन्ताकं बृहतीसदृशस्थूलोद्भिदं फलं
वृन्तभागेन सह शाकत्वेनप्रसिद्धम् । नाळिका दीर्घनाळा
शिरसि स्वल्पफलान्विता, तस्याः फलस्य नाळभागस्य च शा-
कत्वेन प्राप्तेः प्रतिषेधः । पोतं पोतिका, 'पोतिका तु सुता
ह्वया' इति वैजयन्त्यामभिधानात् । यस्याः पत्रशाकसेवा नि
द्रातिशयकारिणी सा सुताह्वया ज्ञेया । अस्माकं त्वस्य
स्वरूपं कीदृशमिति चिन्त्यम् । वृन्ताकं श्वेतमेवाभक्ष्यं—
गण्डूलं श्वेतवृन्ताकं कूष्माण्डं च विवर्जयेत् ।
इति देवलेन वृन्ताकविशेषस्य प्रतिषेधात् । विशेषप्रतिषेधश्च
शेषाभ्यनुज्ञानार्थ इति न्यायेन श्वेतेतरवृन्ताकभक्षणाभ्यनुज्ञा
गम्यते । गण्डूलं कण्डूलाफलं अत्यन्तकण्डूतिजनकं बहुरोम
युक्तं वर्षाकालभवम् । अत एवामरसिंहेन 'कण्डूला प्रावृषा
यणी' इत्युक्तम् । कूष्माण्डं कुम्भवद्वर्तुलं अदीर्घालाबुसदृशम् ।
कुसुम्भं कण्टकरहितमभक्ष्यं, अकण्टकित्वविशिष्टस्य कुसुम्भस्य
स्मृत्यन्तरे निषेधो विद्यत इति देवस्वामिनोक्तत्वात् । वृन्ताक-
नाळिकापोतकुसुम्भानां च भक्षणे उशनसा दोषो दर्शितः—
कुसुम्भनालिकाशाकं वृन्ताकं पोतिकं तथा ।
भक्षयन् पतितस्तु स्यादपि वेदान्तगो द्विजः ॥
'इति । भविष्यत्पुराणे जातिदुष्टानां शाकानामुदाहरणतया कानि-
चिच्छाकान्युक्तानि—
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
वार्त्ताकनालिकालाबु ह्येवेयाज्जातिदूषितम् ॥
लशुनादिकं द्रव्यं संसर्गेण विनाऽपि लशुनत्वादिजात्यैव दू-
षितमवेयाज्जानीयादित्यर्थः । जात्या दूषितमिति ज्ञानस्य फलं
असत्यपि दुष्टसंसर्गे निवृत्तिः । लशुनाख्यविशेषस्य भेदको धर्मो
वैद्यकादौ द्रष्टव्यः, लशुनगृञ्जनपलाण्डुकाः पलाण्डुविशेषाः।
तत्र हरिद्रक्तवर्णविशेषो गृञ्जनः । 'हरिद्रक्तो गृञ्जनः' इति
वैजयन्त्याम् । श्वेतकन्दविशेषः पलाण्डुः, 'पलाण्डौ तु श्वेत-
कन्दो मुकुन्दकः' इति तत्रैवोक्तत्वात् । एतच्च लशुनादि-
त्रिविधपलाण्डुविशेषाभिधानं—
लशुनं दीर्घपत्रं च पिच्छलगन्धो महौषधम् ।
वरण्यश्च पलाण्डुश्च लतार्कश्च परारिका ॥
गृञ्जनं यवनेष्टश्च पलाण्डोर्दश जातयः ।
इत्युक्तदशविधपलाण्डूपलक्षणम् । महौषधवरण्यादीनामपि भेदो
232 स्मृतिचन्द्रिकायां
वैद्यादौ द्रष्टव्यः । कवकं छत्राकम् । वार्ताकं क्षुद्रवार्ताव-
झकबृहतीफलं कण्टकारिकाख्यबृहतीफलात् किञ्चित् स्थूल
कवकभक्षणे तु दोषा यमेन दर्शिताः—
भूमिजं वृक्षजं वाऽपि छत्राकं भक्षयन्ति ये ।
ब्रह्मघ्नांस्तान्विजानीयाद्ब्रह्मवादिषु गर्हितान् ॥
इति । हारीतोऽपि दुष्टद्रव्यसंसर्गाभावेऽपि वर्ज्यानाह--
वटप्लक्षोदुम्बरदधित्थनीपमातुलुङ्गानि वा भक्षयेत्' इति । दधि
कपित्थफलम् । नीपं कदम्बपत्रम् । शेषाणि व्यक्तानि
मनुरपि—
लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा ।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥
लोहितान् वृक्षनिर्यासान् लाक्षादीन् । व्रश्चनप्रभवान् निर्या-
सानपि शाल्मलिनिर्यासप्रभृतीन् । लोहितग्रहणात् निर्यासत्वेऽपि
पाटलवर्णहिंग्वादेः श्वेतवर्णकर्पूरादेश्च न निषेधः । शेलुः श्लेष्म-
तकाख्यो वृक्षः । पीयूषोऽभिनवं पयः । गव्यपीयूषेतु विशे-
-ब्रह्मपुराणे दर्शितः—
घृतात्फेनं घृतान्मण्डं पीयूषमथवाऽऽर्द्रगोः ।
सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥
दीर्णं तक्रमपेयं च नष्टस्वादुकफेनवत् ।
अयमर्थः—घृतादुद्धृत्य तत्फेनमात्रं तदग्रमात्रं च न पेयम् । तथा
आर्द्रगोः पीयूषं यावदार्द्रता सरजस्कता गवि प्रसूतिसमये
योनौ प्रवृत्ताऽनुवर्तते तावत् क्षीरमपेयम् । तथा यद्दधि गुड-
मरिचमिश्रं यत्पर्युषितं तदप्यपेयम् । तथा यत्तक्रं दीर्णं
दर्वीघट्टनशून्यं अग्नितापादिना स्वतो वा स्फुटितं बहुदिनस्थि-
त्या संजातेन फेनेन युक्तं, अत्यर्थं शुक्ततया नष्टस्वादुक-
मपेयमिति । याज्ञवल्क्योपि वर्ज्यक्षीरमाह—
संधिन्यानिर्दशावत्सगोपयः परिवर्जयेत् ।
इति । तत्रसन्धिन्याः गोः पयः परिवर्जयेदित्येतत्स्फुटमुक्तं हारी-
तेन—‘सन्धिनी वृष्यन्ती तस्याः पयो न पिबेत् तदृतुम-
द्भवति’ इति । वृष्यन्ती कामुकी मैथुनेच्छावतीति यावत् ।
तदीयं पयः ऋतुद्भवति । ऋतुमत्याः सम्बन्धि भवतीत्य-
र्थः । अनेन एतदुक्तं भवति—यावति काले मैथुनेच्छाऽ-
नुवृत्तिस्तावति काले तस्याः पयो न पिबेदिति । तेन मैथु-
नेच्छानिवृत्तौ तस्याः पयो न निषिद्धमिति मन्तव्यम् । ‘अनि-
र्दशायाः पयः परिवर्जयेत् ’ इत्यस्यायमर्थः—प्रसवप्रभृत्यनि-
र्गतदशरात्रायाः पयः वर्जयेदिति । एतच्च रजोनिवृत्तिका-
लोपलक्षणार्थम् । तेन दशरात्रादर्वाग्रजोनिवृत्तौ नास्ति तत्र
प्रतिषेधः । दशरात्रादुपर्यपि रजोऽनुवृत्तावस्ति प्रतिषेध इति
बोद्धव्यम् । अतएव ‘नवसूतायाः पयः न पिबेत् सरजस्त्वात्’
इत्युक्त्वा हारीतेनोक्तं—‘सप्तरात्रादित्येके दशरात्रादित्यपरे मा-
सेनापीयूषं भवतीति धर्मविदः’ इति । नवसूतायाः पयः
सप्तरात्रादुपर्यपि पीयूषं भवतीत्येके । दशरात्रादुपर्यपि पीयू-
Smriti Cha.—Vol. V 30