सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 247, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 247

पिष्टविकारेभ्यः' इति । न पर्युषितमित्यस्य अश्नीयादित्यनु-
वृत्तेन पदेन सम्बन्धः । यद्यपि दधि गुडवन्न पाकसिद्धमिति
न पर्युषितं, तेन तस्य पर्युदासो व्यर्थ इति प्रतिभाति ।
तथाऽपि नान्येद्युः पाकेन सिद्धत्वं पर्युषितत्वे प्रयोजकं
किन्त्वदनीयतया साध्यत्वमिति दध्नोप्यदनीयतया साधितस्य
पर्युषितत्वमस्तीति तत्पर्युदासोऽर्थवानेव । याज्ञवल्क्यस्तु 'पर्यु-
षितं वर्जयेत्' इति स्वोक्तस्य प्रतिप्रसवार्थमाह—
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥
चिरसंस्थितमिति पदं चिरसंस्थिता इति विपरिणामेन गोधूम-
यवगोरसविक्रियाः इत्यत्रापि संबन्धनीयम् । अतएव मनुः—
चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसां चैव विक्रियाः ॥
इति । गोधूमविक्रियाः मण्डकादयः । यवविक्रियाः सक्तवाद-
यः । गोरसः क्षीरं तद्विकाराः कूर्चिकाद्याः, 'कूर्चिका क्षीर-
विकृतिः' इत्यमरसिंहेनोक्तत्वात् । गोरसविकृतावपि 'शुक्तं
चेत्परिवर्जयेत्' इति यमोक्तं द्रष्टव्यम् । भोज्यत्वेनोक्तस्य
पर्युषितस्य सर्वस्यापि श्राद्धे वर्ज्यत्वं पूर्वस्मिन् प्रकरणेऽभिहि-
तम् । तेन भोज्यत्वात् श्राद्धेऽप्यनिषिद्धमिति भ्रमो न कार्यः।
शङ्खस्तु शुक्तद्रव्येष्वपि किञ्चिद्भोज्यमित्याह—
दधि भक्ष्यं च शुक्तेषु यच्चान्यद्दधिसम्भवम् ।