सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 241, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 241

राजसं तामसं चैव हव्यकव्येषु वर्जयेत् ॥
अतिशुक्तं अत्यर्थं स्वाभाविकरसत्यागेन कालवशात्कुत्सित-
रसान्तरापन्नम् । उग्रलवणं लवणाधिक्येनासह्यम् । पुराणेऽपि-
आसनारूढमन्नाद्यं पादोपहतमेव च ।
अमेध्यादागतैस्स्पृष्टं शुक्तं पर्युषितं च यत् ॥
द्विस्स्विन्नं परिदग्धं च तथैवाग्रावलोहितम् ।
शर्कराकीटपाषाणैः केशैश्चाप्युपहतम् ॥
पिण्याकं मथितं चैव तथाऽतिलवणं च यत् ।
सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥
वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहतास्तथा ।
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥
इति । यदन्नमवश्रयणान्तया पचिक्रियया सिद्धं सन्मार्दवार्थं
पुनरुदकं निनीयावश्रयणान्तमेव पच्यते तत् द्विस्स्विन्नं, न तु
यत्सिद्धमेव पुनरौष्ण्यनिर्वाहार्थमग्नावधिश्रियते । 'अत्युष्णं
सर्वमन्नं स्यात्' इति वचनादौष्ण्यार्थं पुनरधिश्रयणाभ्यनु-
ज्ञानात् । यस्य तु प्रथमपाकेन भक्षणयोग्यतैव न भवति तत्र
पूर्वपाकस्यानिर्वृत्तत्वात् पुनरुदकं निनीय पाकेऽपि श्राद्धे नित्य-
भोजनादौ च नास्ति प्रतिषेधः । यत्र भक्ष्यविशेषसिद्ध्यर्थमुद-
कादिना पूर्वं पक्त्वा तैलादिना पाकः क्रियते तत्रापि न
द्विस्स्विन्नता, विशिष्टभक्ष्यसिद्धिफलकपाचिक्रियाया उदके तैले
च क्रियाया एकत्वात् । परिदग्धमतिदग्धम् । अग्रावलोहितं